०३३ कुशनाभकन्योद्वाहः

तस्य तद्वचनं श्रुत्वा कुशनाभस्य धीमतः।
शिरोमिश्चरणौ स्पृष्ट्वा कन्याशतमभाषत ॥ 1.33.1 ॥
वायुः सर्वात्मको राजन् प्रधर्षयितुमिच्छति।
अशुभं मार्गमास्थाय न धर्मं प्रत्यवेक्षते ॥ 1.33.2 ॥
पितृमत्यः स्म भद्रं ते स्वच्छन्दे न वयं स्थिताः।
पितरं नो वृणीष्व त्वं यदि नो दास्यते तव ॥ 1.33.3 ॥
तेन पापानुबन्धेन वचनं न प्रतीच्छता।
एवं ब्रुवन्त्यः सर्वाः स्म वायुना निहता भृशम् ॥ 1.33.4 ॥
तासां तद्वचनं श्रुत्वा राजा परमधार्मिकः।
प्रत्युवाच महातेजाः कन्याशतमनुत्तमम् ॥ 1.33.5 ॥
क्षान्तं क्षमावतां पुत्र्यः कर्तव्यं सुमहत्कृतम्।
ऐकमत्यमुपागम्य कुलं चावेक्षितं मम ॥ 1.33.6 ॥
अलङ्कारो हि नारीणां क्षमा तु पुरुषस्य वा ॥ 1.33.7 ॥
दुष्करं तद्धि वः क्षान्तं त्रिदशेषु विशेषतः।
यादृशी वः क्षमा पुत्र्यः सर्वासामविशेषतः ॥ 1.33.8 ॥
क्षमा दानं क्षमा सत्यं क्षमा यज्ञश्च पुत्रिकाः।
क्षमा यशः क्षमा धर्मः क्षमया विष्ठितं जगत् ॥ 1.33.9 ॥
मन्त्रज्ञो मन्त्रयामास प्रदानं सह मन्त्रिभिः।
देशकालौ प्रदानस्य सदृशे प्रतिपादनम् ॥ 1.33.10 ॥
एतस्मिन्नेव काले तु चूली नाम महामुनिः।
ऊर्ध्वरेताः शुभाचारो ब्राह्मं तप उपागमत् ॥ 1.33.11 ॥
तप्यन्तं तमृषिं तत्र गन्धर्वी पर्युपासते।
सोमदा नाम भद्रं ते ऊर्मिलातनया तदा ॥ 1.33.12 ॥
सा च तं प्रणता भूत्वा शुश्रूषणपरायणा।
उवास काले धर्मिष्ठा तस्यास्तुष्टोऽभवद्गुरुः ॥ 1.33.13 ॥
स च तां काल योगेन प्रोवाच रघुनन्दन।
परितुष्टोऽस्मि भद्रं ते किं करोमि तव प्रियम् ॥ 1.33.14 ॥
परितुष्टं मुनिं ज्ञात्वा गन्धर्वी मधुरस्वरा।
उवाच परमप्रीता वाक्यज्ञा वाक्यकोविदम् ॥ 1.33.15 ॥
लक्ष्म्या समुदितो ब्राह्म्या ब्रह्मभूतो महातपाः।
ब्राह्मेण तपसा युक्तं पुत्रमिच्छामि धार्मिक ॥ 1.33.16 ॥
अपतिश्चास्मि भद्रं ते भार्या चास्मि न कस्यचित्।
ब्राह्मेणोपगतायाश्च दातुमर्हसि मे सुतम् ॥ 1.33.17 ॥
तस्याः प्रसन्नो ब्रह्मर्षिर्ददौ पुत्रमनुत्तमम्।
ब्रह्मदत्त इति ख्यातं मानसं चूलिनः सुतम् ॥ 1.33.18 ॥
स राजा सौमदेयस्तु पुरीमध्यावसत्तदा।
काम्पिल्यां परया लक्ष्म्या देवराजो यथा दिवम् ॥ 1.33.19 ॥
स बुद्धिं कृतवान् राजा कुशनाभः सुधार्मिकः।
ब्रह्मदत्ताय काकुत्स्थ दातुं कन्याशतं तदा ॥ 1.33.20 ॥
तमाहूय महातेजा ब्रह्मदत्तं महीपतिः।
ददौ कन्याशतं राजा सुप्रीतेनान्तरात्मना ॥ 1.33.21 ॥
यथाक्रमं ततः पाणीञ्जग्राह रघुनन्दन।
ब्रह्मदत्तो महीपालस्तासां देवपतिर्यथा ॥ 1.33.22 ॥
स्पृष्टमात्रे ततः पाणौ विकुब्जा विगतज्वराः।
युक्ताः परमया लक्ष्म्या बभुः कन्याशतं तदा ॥ 1.33.23 ॥
स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः।
बभूव परमप्रीतो हर्षं लेभे पुनःपुनः ॥ 1.33.24 ॥
कृतोद्वाहं तु राजानं ब्रह्मदत्तं महीपतिः।
सदारं प्रेषयामास सोपाध्यायगणं तदा ॥ 1.33.25 ॥
यथान्यायं च गन्धर्वी स्नुषास्ताः प्रत्यनन्दत।
स्पृष्ट्वास्पृष्ट्वा च ताः कन्याः कुशनाभं प्रशस्य च ॥ 1.33.26 ॥