०३२ कैशिकवंशकथा

ब्रह्मयोनिर्महानासीत् कुशो नाम महातपाः।
अक्लिष्टव्रतधर्मज्ञः सज्जनप्रतिपूजकः ॥ 1.32.1 ॥
वैदर्भ्यां जनयामास सदृशांश्चतुरः सुतान्।
कुशाम्बं कुशनाभं च आधूर्तरजसं वसुम् ॥ 1.32.2 ॥
दीप्तियुक्तान् महोत्साहान् क्षत्रधर्मचिकीर्षया।
तानुवाच कुशः पुत्रान् धर्मिष्ठान् सत्यवादिनः ॥ 1.32.3 ॥
ऋषेस्तु वचनं श्रुत्वा चत्वारो लोकसम्मताः।
निवेशं चक्रिरे सर्वे पुराणां नृवरास्तदा ॥ 1.32.4 ॥
कुशाम्बस्तु महातेजाः कौशाम्बीमकरोत्पुरीम्।
कुशनाभस्तु धर्मात्मा पुरं चक्रे महोदयम् ॥ 1.32.5 ॥
आधूर्तरजसो राम धर्मारण्यं महीपतिः।
चक्रे पुरवरं राजा वसुश्चक्रे गिरिव्रजम् ॥ 1.32.6 ॥
एषा वसुमती राम वसोस्तस्य महात्मनः।
एते शैलवराः पञ्च प्रकाशन्ते समन्ततः ॥ 1.32.7 ॥
सुमागधी नदी रम्या मगधान् विश्रुता ययौ।
पञ्चानां शैलमुख्यानां मध्ये मालेव शोभते ॥ 1.32.8 ॥
सैषा हि मागधी राम वसोस्तस्य महात्मनः।
पूर्वाभिचरिता राम सुक्षेत्रा सस्यमालिनी ॥ 1.32.9 ॥
कुशनाभस्तु राजर्षिः कन्याशतमनुत्तमम्।
जनयामास धर्मात्मा घृताच्यां रघुनन्दन ॥ 1.32.10 ॥
तास्तु यौवनशालिन्यो रूपवत्यः स्वलङ्कृताः।
उद्यानभूमिमागम्य प्रावृषीव शतह्रदाः ॥ 1.32.11 ॥
गायन्त्यो नृत्यमानाश्च वादयन्त्यश्च सर्वशः।
आमोदं परमं जग्मुर्वराभरणभूषिताः ॥ 1.32.12 ॥
अथ ताश्चारुसर्वाङ्ग्यो रूपेणाप्रतिमा भुवि।
उद्यानभूमिमागम्य तारा इव घनान्तरे ॥ 1.32.13 ॥
ताः सर्वगुणसम्पन्ना रूपयौवनसंयुताः।
दृष्ट्वा सर्वात्मको वायुरिदं वचनमब्रवीत् ॥ 1.32.14 ॥
अहं वः कामये सर्वा भार्या मम भविष्यथ।
मानुषस्त्यज्यतां भावो दीर्घमायुरवाप्स्यथ ॥ 1.32.15 ॥
चलं हि यौवनं नित्यं मानुषेषु विशेषतः।
अक्षयं यौवनं प्राप्ता अमर्यश्च भविष्यथ ॥ 1.32.16 ॥
तस्य तद्वचनं श्रुत्वा वायोरक्लिष्टकर्मणः।
अपहास्य ततो वाक्यं कन्याशतमथाब्रवीत् ॥ 1.32.17 ॥
अन्तश्चरसि भूतानां सर्वेषां त्वं सुरोत्तम।
प्रभावज्ञाः स्म ते सर्वाः किमस्मानवमन्यसे ॥ 1.32.18 ॥
कुशनाभसुताः सर्वाः समर्थास्त्वां सुरोत्तम।
स्थानाच्च्यावयितुं देवं रक्षामस्तु तपो वयम् ॥ 1.32.19 ॥
माभूत्स कालो दुर्मेधः पितरं सत्यवादिनम्।
नावमन्यस्व धर्मेण स्वयं वरमुपास्महे ॥ 1.32.20 ॥
पिता हि प्रभुरस्माकं दैवतं परमं हि नः।
यस्य नो दास्यति पिता स नो भर्ता भविष्यति ॥ 1.32.21 ॥
तासां तद्वचनं श्रुत्वा वायुः परमकोपनः।
प्रविश्य सर्वगात्राणि बभञ्ज भगवान् प्रभुः ॥ 1.32.22 ॥
ताः कन्याः वायुना भग्ना विविशुर्नृपतेर्गृहम्।
प्रापतन् भुवि सम्भ्रान्ताः सलज्जाः साश्रुलोचनाः ॥ 1.32.23 ॥
स च ता दयिता दीनाः कन्याः परमशोभनाः।
दृष्ट्वा भग्नास्तदा राजा सम्भ्रान्त इदमब्रवीत् ॥ 1.32.24 ॥
किमिदं कथ्यतां पुत्र्यः को धर्ममवमन्यते।
कुब्जाः केन कृताः सर्वा वेष्टन्त्यो नाभिभाषथ ॥ 1.32.25 ॥
एवं राजा विनिश्वस्य समाधिं सन्दधे ततः ॥ 1.32.26 ॥