अथ तां रजनीं तत्र कृतार्थौ रामलक्ष्मणौ।
ऊषतुर्मुदितौ वीरौ प्रहृष्टेनान्तरात्मना ॥ 1.31.1 ॥
प्रभातायां तु शर्वर्यां कृतपौर्वाह्णिकक्रियौ।
विश्वामित्रं मुनींश्चान्यान् सहितावभिजग्मतुः ॥ 1.31.2 ॥
अभिवाद्य मुनिश्रेष्ठं ज्वलन्तमिव पावकम्।
ऊचतुर्मधुरोदारं वाक्यं मधुरभाषिणौ ॥ 1.31.3 ॥
इमौ स्म मुनिशार्दूल किङ्करौ समुपस्थितौ।
आज्ञापय यथेष्टं वै शासनं करवाव किम् ॥ 1.31.4 ॥
एवमुक्तास्ततस्ताभ्यां सर्व एव महर्षयः।
विश्वामित्रं पुरस्कृत्य रामं वचनमब्रुवन् ॥ 1.31.5 ॥
मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति।
यज्ञः परमधर्मिष्ठस्तस्य यास्यामहे वयम् ॥ 1.31.6 ॥
त्वं चैव नरशार्दूल सहास्माभिर्गमिष्यसि।
अद्भुतं धनुरत्नं च तत्र तद्द्रष्टुमर्हसि ॥ 1.31.7 ॥
तद्धि पूर्वं नरश्रेष्ठ दत्तं सदसि दैवतैः।
अप्रमेयबलं घोरं मखे परमभास्वरम् ॥ 1.31.8 ॥
नास्य देवा न गन्धर्वा नासुरा न च राक्षसाः।
कर्तुमारोपणं शक्ता न कथञ्चन मानुषाः ॥ 1.31.9 ॥
धनुषस्तस्य वीर्यं तु जिज्ञासन्तो महीक्षितः।
न शेकुरारोपयितुं राजपुत्रा महाबलाः ॥ 1.31.10 ॥
तद्धनुर्नरशार्दूल मैथिलस्य महात्मनः।
तत्र द्रक्ष्यसि काकुत्स्थ यज्ञं चाद्भुतदर्शनम् ॥ 1.31.11 ॥
तद्धि यज्ञफलं तेन मैथिलेनोत्तमं धनुः।
याचितं नरशार्दूल सुनाभं सर्वदैवतैः ॥ 1.31.12 ॥
आयागभूतं नृपतेस्तस्य वेश्मनि राघव।
अर्चितं विविधैर्गन्धैर्माल्यैश्चागरुगन्धिभिः ॥ 1.31.13 ॥
एवमुक्त्वा मुनिवरः प्रस्थानमकरोत्तदा।
सर्षिसङ्घः सकाकुत्स्थ आमन्त्र्य वनदेवताः ॥ 1.31.14 ॥
स्वस्ति वोऽस्तु गमिष्यामि सिद्धः सिद्धाश्रमादहम्।
उत्तरे जाह्नवीतीरे हिमवन्तं शिलोच्चयम् ॥ 1.31.15 ॥
प्रदक्षिणं ततः कृत्वा सिद्धाश्रममनुत्तमम्।
उत्तरां दिशमुद्दिश्य प्रस्थातुमुपचक्रमे ॥ 1.31.16 ॥
तं प्रयान्तं मुनिवरमन्वयादनुसारिणम्।
शकटीशतमात्रं च प्रायेण ब्रह्मवादिनाम् ॥ 1.31.17 ॥
मृगपक्षिगणाश्चैव सिद्धाश्रमनिवासिनः।
अनुजग्मुर्महात्मानं विश्वामित्रं महामुनिम् ॥ 1.31.18 ॥
निवर्तयामास ततः पक्षिसङ्घान् मृगानपि ॥ 1.31.19 ॥
ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे।
वासं चक्रुर्मुनिवराः शोणाकूले समागताः ॥ 1.31.20 ॥
तेऽस्तङ्गते दिनकरे स्नात्वा हुतहुताशनाः।
विश्वामित्रं पुरस्कृत्य निषेदुरमितौजसः ॥ 1.31.21 ॥
रामोऽपि सह सौमित्रिर्मुनींस्तानभिपूज्य च।
अग्रतो निषसादाथ विश्वामित्रस्य धीमतः ॥ 1.31.22 ॥
अथ रामो महातेजा विश्वामित्रं महामुनिम्।
पप्रच्छ नरशार्दूलः कौतूहलसमन्वितः ॥ 1.31.23 ॥
भगवन् कस्य देशोऽयं समृद्धवनशोभितः।
श्रोतुमिच्छामि भद्रं ते वक्तुमर्हसि तत्त्वतः ॥ 1.31.24 ॥
चोदितो रामवाक्येन कथयामास सुव्रतः।
तस्य देशस्य निखिलमृषिमध्ये महातपाः ॥ 1.31.25 ॥