अथ तौ देशकालज्ञौ राजपुत्रावरिन्दमौ।
देशे काले च वाक्यज्ञावब्रूतां कौशिकं वचः ॥ 1.30.1 ॥
भगवन् श्रोतुमिच्छावो यस्मिन् काले निशाचरौ।
संरक्षणीयौ तौ ब्रह्मन्नातिवर्तेत तत्क्षणम् ॥ 1.30.2 ॥
एवं ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया।
सर्वे ते मुनयः प्रीताः प्रशशंसुर्नृपात्मजौ ॥ 1.30.3 ॥
अद्यप्रभृति षड्रात्रं रक्षतं राघवौ युवाम्।
दीक्षां गतो ह्येष मुनिर्मौनित्वं च गमिष्यति ॥ 1.30.4 ॥
तौ च तद्वचनं श्रुत्वा राजपुत्रौ यशस्विनौ।
अनिद्रौ षडहोरात्रं तपोवनमरक्षताम् ॥ 1.30.5 ॥
उपासाञ्चक्रतुर्वीरौ यत्तौ परमधन्विनौ।
ररक्षतुर्मुनिवरं विश्वामित्रमरिन्दमौ ॥ 1.30.6 ॥
अथ काले गते तस्मिन् षष्ठेऽहनि समागते।
सौमित्रिमब्रवीद्रामो यत्तो भव समाहितः ॥ 1.30.7 ॥
रामस्यैवं ब्रुवाणस्य त्वरितस्य युयुत्सया।
प्रजज्वाल ततो वेदिस्सोपाध्यायपुरोहिता ॥ 1.30.8 ॥
सदर्भचमसस्रुक्का ससमित्कुसुमोच्चया।
विश्वामित्रेण सहिता वेदिर्जज्वाल सर्त्विजा ॥ 1.30.9 ॥
मन्त्रवच्च यथान्यायं यज्ञोऽसौ सम्प्रवर्तते।
आकाशे च महान् शब्दः प्रादुरासीद्भयानकः ॥ 1.30.10 ॥
आवार्य गगनं मेघो यथा प्रावृषि निर्गतः।
तथा मायां विकुर्वाणौ राक्षसावभ्यधावताम् ॥ 1.30.11 ॥
मारीचश्च सुबाहुश्च तयोरनुचराश्च ये।
आगम्य भीमसङ्काशा रुधिरौघमवासृजन् ॥ 1.30.12 ॥
सा तेन रुधिरौघेण वेदिर्जज्वाल मण्डिता।
सहसाऽभिद्रुतो रामस्तानपश्यत्ततो दिवि ॥ 1.30.13 ॥
तावापतन्तौ सहसा दृष्ट्वा राजीवलोचनः।
लक्ष्मणं त्वभिसम्प्रेक्ष्य रामो वचनमब्रवीत् ॥ 1.30.14 ॥
पश्य लक्ष्मण दुर्वृत्तान् राक्षसान् पिशिताशनान्।
मानवास्त्रसमाधूताननिलेन यथा घनान् ॥ 1.30.15 ॥
मानवं परमोदारमस्त्रं परमभास्वरम्।
चिक्षेप परमक्रुद्धो मारीचोरसि राघवः ॥ 1.30.16 ॥
स तेन परमास्त्रेण मानवेन समाहतः।
सम्पूर्णं योजनशतं क्षिप्तः सागरसम्प्लवे ॥ 1.30.17 ॥
विचेतनं विघूर्णन्तं शीतेषु बलताडितम्।
निरस्तं दृश्य मारीचं रामो लक्ष्मणमब्रवीत् ॥ 1.30.18 ॥
इमानपि वधिष्यामि निर्घृणान् दुष्टचारिणः।
राक्षसान् पापकर्मस्थान् यज्ञघ्नान् रुधिराशनान् ॥ 1.30.19 ॥
सङ्गृह्यास्त्रं ततो रामो दिव्यमाग्नेयमद्भुतम्।
सुबाहूरसि चिक्षेप स विद्धः प्रापतद्भुवि ॥ 1.30.20 ॥
शेषान् वायव्यमादाय निजघान महायशाः।
राघवः परमोदारो मुनीनां मुदमावहन् ॥ 1.30.21 ॥
स हत्वा राक्षसान् सर्वान् यज्ञघ्नान् रघुनन्दनः।
ऋषिभिः पूजितस्तत्र यथेन्द्रो विजये पुरा ॥ 1.30.22 ॥
अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः।
निरीतिका दिशो दृष्ट्वा काकुत्स्थमिदमब्रवीत् ॥ 1.30.23 ॥
कृतार्थोऽस्मि महाबाहो कृतं गुरुवचस्त्वया।
सिद्धाश्रममिदं सत्यं कृतं राम महायशः ॥ 1.30.24 ॥