०२९ सिद्धाश्रमगमनम्

अथ तस्याप्रमेयस्य तद्वनं परिपृच्छतः।
विश्वामित्रो महातेजा व्याख्यातुमुपचक्रमे ॥ 1.29.1 ॥
वर्षाणि सुबहून्येव तथा युगशतानि च।
तपश्चरणयोगार्थमुवास सुमहातपाः ॥ 1.29.2 ॥
एष पूर्वाश्रमो राम वामनस्य महात्मनः।
सिद्धाश्रम इति ख्यातः सिद्धो ह्यत्र महातपाः ॥ 1.29.3 ॥
निर्जित्य दैवतगणान् सेन्द्रांश्च समरुद्गणान्।
कारयामास तद्राज्यं त्रिषु लोकेषु विश्रुतः ॥ 1.29.4 ॥
बलेस्तु यजमानस्य देवाः साग्निपुरोगमाः।
समागम्य स्वयं चैव विष्णुमूचुरिहाश्रमे ॥ 1.29.5 ॥
बलिर्वैरोचनिर्विष्णो यजते यज्ञमुत्तमम्।
असमाप्ते क्रतौ तस्मिन् स्वकार्यमभिपद्यताम् ॥ 1.29.6 ॥
ये चैनमभिवर्तन्ते याचितार इतस्ततः।
यच्च यत्र यथावच्च सर्वं तेभ्यः प्रयच्छति ॥ 1.29.7 ॥
स त्वं सुरहितार्थाय मायायोगमुपागतः।
वामनत्वं गतो विष्णो कुरु कल्याणमुत्तमम् ॥ 1.29.8 ॥
एतस्मिन्नन्तरे राम कश्यपोऽग्निसमप्रभः।
अदित्या सहितो राम दीप्यमान इवौजसा ॥ 1.29.9 ॥
देवीसहायो भगवान् दिव्यं वर्षसहस्रकम्।
व्रतं समाप्य वरदं तुष्टाव मधुसूदनम् ॥ 1.29.10 ॥
तपोमयं तपोराशिं तपोमूर्तिं तपात्मकम्।
तपसा त्वां सुतप्तेन पश्यामि पुरुषोत्तमम् ॥ 1.29.11 ॥
शरीरे तव पश्यामि जगत्सर्वमिदं प्रभो।
त्वमनादिरनिर्देश्यस्त्वामहं शरणं गतः ॥ 1.29.12 ॥
तमुवाच हरिः प्रीतः कश्यपं धूतकल्मषम्।
वरं वरय भद्रं ते वरार्होऽसि मतो मम ॥ 1.29.13 ॥
तच्छ्रुत्वा वचनं तस्य मारीचः कश्यपोऽब्रवीत् ॥ 1.29.14 ॥
अदित्या देवतानां च मम चैवानुयाचतः।
वरं वरद सुप्रीतो दातुमर्हसि सुव्रत ॥ 1.29.15 ॥
भ्राता भव यवीयांस्त्वं शक्रस्यासुरसूदन।
शोकार्त्तानां तु देवानां साहाय्यं कर्तुमर्हसि ॥ 1.29.16 ॥
अयं सिद्धाश्रमो नाम प्रसादात्ते भविष्यति।
सिद्धे कर्म्मणि देवेश उत्तिष्ठ भगवन्नितः ॥ 1.29.17 ॥
अथ विष्णुर्महातेजा अदित्यां समजायत।
वामनं रूपमास्थाय वैरोचनिमुपागमत् ॥ 1.29.18 ॥
त्रीन् क्रमानथ भिक्षित्वा प्रतिगृह्य च मानदः।
आक्रम्य लोकाँल्लोकात्मा सर्वलोकहिते रतः ॥ 1.29.19 ॥
महेन्द्राय पुनः प्रादान्नियम्य बलिमोजसा।
त्रैलोक्यं स महातेजाश्चक्रे शक्रवशं पुनः ॥ 1.29.20 ॥
तेनैव पूर्वमाक्रान्त आश्रमः श्रमनाशनः।
मया तु भक्त्या तस्यैष वामनस्योपभुज्यते ॥ 1.29.21 ॥
एतमाश्रममायान्ति राक्षसा विघ्नकारिणः।
अत्रैव पुरुषव्याघ्र हन्तव्या दुष्टचारिणः ॥ 1.29.22 ॥
अद्य गच्छामहे राम सिद्धाश्रममनुत्तमम्।
तदाश्रमपदं तात तवाप्येतद्यथा मम ॥ 1.29.23 ॥
प्रविशन्नाश्रमपदं व्यरोचत महामुनिः।
शशीव गतनीहारः पुनर्वसुसमन्वितः ॥ 1.29.24 ॥
तं दृष्ट्वा मुनयः सर्वे सिद्धाश्रमनिवासिनः।
उत्पत्योत्पत्य सहसा विश्वामित्रमपूजयन् ॥ 1.29.25 ॥
यथार्हं चक्रिरे पूजां विश्वामित्राय धीमते।
तथैव राजपुत्राभ्यामकुर्वन्नतिथिक्रियाम् ॥ 1.29.26 ॥
मुहूर्तमिव विश्रान्तौ राजपुत्रावरिन्दमौ।
प्राञ्जली मुनिशार्दूलमूचतू रघुनन्दनौ ॥ 1.29.27 ॥
अद्यैव दीक्षां प्रविश भद्रं ते मुनिपुङ्गव।
सिद्धाश्रमोऽयं सिद्धः स्यात् सत्यमस्तु वचस्तव ॥ 1.29.28 ॥
एवमुक्तो महातेजा विश्वामित्रो महामुनिः।
प्रविवेश ततो दीक्षां नियतो नियतेन्द्रियः ॥ 1.29.29 ॥
कुमारावपि तां रात्रिमुषित्वा सुसमाहितौ।
प्रभातकाले चोत्थाय पूर्वां सन्ध्यामुपास्य च ॥ 1.29.30 ॥
स्पृष्टोदकौ शुची जप्यं समाप्य नियमेन च।
हुताग्निहोत्रमासीनं विश्वामित्रमवन्दताम् ॥ 1.29.31 ॥