प्रतिगृह्य ततोऽस्त्राणि प्रहृष्टवदनः शुचिः।
गच्छन्नेव च काकुत्स्थो विश्वामित्रमथाब्रवीत् ॥ 1.28.1 ॥
गृहीतास्त्रोऽस्मि भगवन् दुराधर्षः सुरासुरैः।
अस्त्राणां त्वहमिच्छामि संहारं मुनिपुङ्गव ॥ 1.28.2 ॥
एवं ब्रुवति काकुत्स्थे विश्वामित्रो महायशाः।
संहारं व्याजहाराथ धृतिमान् सुव्रतः शुचिः ॥ 1.28.3 ॥
सत्यवन्तं सत्यकीर्तिं धृष्टं रभसमेव च।
प्रतिहारतरं नाम पराङ्मुखमवाङ्मुखम् ॥ 1.28.4 ॥
लक्षाक्षविषमौ चैव दृढनाभसुनाभकौ।
दशाक्षशतवक्त्रौ च दशशीर्षशतोदरौ ॥ 1.28.5 ॥
पद्मनाभमहानाभौ दुन्दुनाभसुनाभकौ।
ज्योतिषं कृशनं चैव नैराश्यविमलावुभौ ॥ 1.28.6 ॥
योगन्धरहरिद्रौ च दैत्यप्रशमनौ तथा।
सार्चिर्माली धृतिर्माली वृत्तिमान् रुचिरस्तथा ॥ 1.28.7 ॥
पितृसौमनसं चैव विधूतमकरावुभौ।
करवीरकरं चैव धनधान्यौ च राघव ॥ 1.28.8 ॥
कामरूपं कामरुचिं मोहमावरणं तथा।
जृम्भकं सर्वनाभं च सन्तानवरणौ तथा ॥ 1.28.9 ॥
कृशाश्वतनयान् राम भास्वरान् कामरूपिणः।
प्रतीच्छ मम भद्रं ते पात्रभूतोऽसि राघव ॥ 1.28.10 ॥
बाढमित्येव काकुत्स्थः प्रहृष्टेनान्तरात्मना ॥ 1.28.11 ॥
दिव्यभास्वरदेहाश्च मूर्तिमन्तः सुखप्रदाः।
केचिदङ्गारसदृशाः केचिद्धूमोपमास्तथा ॥ 1.28.12 ॥
चन्द्रार्कसदृशाः केचित् प्रह्वाञ्जलिपुटास्तथा।
रामं प्राञ्जलयो भूत्वाब्रुवन् मधुरभाषिणः ॥ 1.28.13 ॥
इमे स्म नरशार्दूल शाधि किं करवाम ते ॥ 1.28.14 ॥
मानसाः कार्यकालेषु साहाय्यं मे करिष्यथ।
गम्यतामिति तानाह यथेष्टं रघुनन्दनः ॥ 1.28.15 ॥
अथ ते राममामन्त्र्य कृत्वा चापि प्रदक्षिणम्।
एवमस्त्विति काकुत्स्थमुक्त्वा जग्मुर्यथागतम् ॥ 1.28.16 ॥
स च तान् राघवो ज्ञात्वा विश्वामित्रं महामुनिम्।
गच्छन्नेवाथ मधुरं श्लक्ष्णं वचनमब्रवीत् ॥ 1.28.17 ॥
किं न्वेतन्मेघसङ्काशं पर्वतस्याविदूरतः।
वृक्षषण्डमितो भाति परं कौतूहलं हि मे ॥ 1.28.18 ॥
दर्शनीयं मृगाकीर्णं मनोहरमतीव च।
नाना प्रकारैः शकुनैर्वल्गुनादैरलङ्कृतम् ॥ 1.28.19 ॥
निस्सृताः स्म मुनिश्रेष्ठ कान्ताराद्रोमहर्षणात् ॥ 1.28.20 ॥
अनया त्ववगच्छामि देशस्य सुखवत्तया।
सर्वं मे शंस भगवन् कस्याश्रमपदं त्विदम् ॥ 1.28.21 ॥
सम्प्राप्ता यत्र ते पापा ब्रह्मघ्ना दुष्टचारिणः।
तव यज्ञस्य विघ्नाय दुरात्मानो महामते ॥ 1.28.22 ॥
भगवंस्तस्य को देशः सा यत्र तव याज्ञिकी।
रक्षितव्या क्रिया ब्रह्मन् मम वध्याश्च राक्षसाः ॥ 1.28.23 ॥
एतत्सर्वं मुनिश्रेष्ठ श्रोतुमिच्छाम्यहं प्रभो ॥ 1.28.24 ॥