०२७ रामायास्त्रप्रदानम्

अथ तां रजनीमुष्य विश्वामित्रो महायशाः।
प्रहस्य राघवं वाक्यमुवाच मधुराक्षरम् ॥ 1.27.1 ॥
परितुष्टोऽस्मि भद्रं ते राजपुत्र महायशः।
प्रीत्या परमया युक्तो ददाम्यस्त्राणि सर्वशः ॥ 1.27.2 ॥
देवासुरगणान् वापि सगन्धर्वोरगानपि।
यैरमित्रान् प्रसह्याजौ वशीकृत्य जयिष्यसि ॥ 1.27.3 ॥
तानि दिव्यानि भद्रं ते ददाम्यस्त्राणि सर्वशः।
दण्डचक्रं महद्दिव्यं तव दास्यामि राघव ॥ 1.27.4 ॥
धर्मचक्रं ततो वीर कालचक्रं तथैव च।
विष्णुचक्रं तथात्युग्रमैन्द्रमस्त्रं तथैव च ॥ 1.27.5 ॥
अस्त्रं ब्रह्मशिरश्चैव ऐषीकमपि राघव।
ददामि ते महाबाहो ब्राह्ममस्त्रमनुत्तमम् ॥ 1.27.6 ॥
गदे द्वे चैव काकुत्स्थ मोदकी शिखरी उभे।
प्रदीप्ते नरशार्दूल प्रयच्छामि नृपात्मज ॥ 1.27.7 ॥
धर्मपाशमहं राम कालपाशं तथैव च।
पाशं वारुणमस्त्रं च ददाम्यहमनुत्तमम् ॥ 1.27.8 ॥
अशनी द्वे प्रयच्छामि शुष्कार्द्रे रघुनन्दन।
ददामि चास्त्रं पैनाकमस्त्रं नारायणं तथा ॥ 1.27.9 ॥
आग्नेयमस्त्रं दयितं शिखरं नाम नामतः।
वायव्यं प्रथनं नाम ददामि च तवानघ ॥ 1.27.10 ॥
अस्त्रं हयशिरो नाम क्रौञ्चमस्त्रं तथैव च।
शक्तिद्वयं च काकुत्स्थ ददामि तव राघव ॥ 1.27.11 ॥
कङ्कालं मुसलं घोरं कापालमथ कङ्कणम्।
धारयन्त्यसुरा यानि ददाम्येतानि सर्वशः ॥ 1.27.12 ॥
वैद्याधरं महास्त्रं च नन्दनं नाम नामतः।
असिरत्नं महाबाहो ददामि नृवरात्मज ॥ 1.27.13 ॥
गान्धर्वमस्त्रं दयितं मानवं नाम नामतः।
प्रस्वापनप्रशमने दद्मि सौरं च राघव ॥ 1.27.14 ॥
दर्पणं शोषणं चैव सन्तापनविलापने।
मदनं चैव दुर्द्धर्षं कन्दर्पदयितं तथा ॥ 1.27.15 ॥
पैशाचमस्त्रं दयितं मोहनं नाम नामतः।
प्रतीच्छ नरशार्दूल राजपुत्र महायशः ॥ 1.27.16 ॥
तामसं नरशार्दूल सौमनं च महाबल।
संवर्तं चैव दुर्द्धर्षं मौसलं नाम नामतः ॥ 1.27.17 ॥
सत्यमस्त्रं महाबाहो तथा मायाधरं परम्।
घोरं तेजःप्रभं नाम परतेजोऽपकर्षणम् ॥ 1.27.18 ॥
सौम्यास्त्रं शिशिरं नाम त्वाष्ट्रमस्त्रं सुकामदम्।
दारुणं च भगस्यापि शीतेषुमथ मानवम् ॥ 1.27.19 ॥
एतान् राम महाबाहो कामरूपान् महाबलान्।
गृहाण परमोदारान् क्षिप्रमेव नृपात्मज ॥ 1.27.20 ॥
स्थितस्तु प्राङ्मुखो भूत्वा शुचिर्मुनिवरस्तदा।
ददौ रामाय सुप्रीतो मन्त्रग्राममनुत्तमम् ॥ 1.27.21 ॥
सर्वसङ्ग्रहणं येषां दैवतैरपि दुर्लभम्।
तान्यस्त्राणि तदा विप्रो राघवाय न्यवेदयत् ॥ 1.27.22 ॥
जपतस्तु मुनेस्तस्य विश्वामित्रस्य धीमतः।
उपतस्थुर्महार्हाणि सर्वाण्यस्त्राणि राघवम् ॥ 1.27.23 ॥
ऊचुश्च मुदिताः सर्वे रामं प्राञ्जलयस्तदा।
इमे स्म परमोदाराः किङ्करास्तव राघव ॥ 1.27.24 ॥
प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना।
मानसा मे भविष्यध्वमिति तानभ्यचोदयत् ॥ 1.27.25 ॥
ततः प्रीतमना रामो विश्वामित्रं महामुनिम्।
अभिवाद्य महातेजा गमनायोपचक्रमे ॥ 1.27.26 ॥