मुनेर्वचनमक्लीबं श्रुत्वा नरवरात्मजः।
राघवः प्राञ्जलिर्भूत्वा प्रत्युवाच दृढव्रतः ॥ 1.26.1 ॥
पितुर्वचननिर्देशात्पितुर्वचनगौरवात्।
वचनं कौशिकस्येति कर्तव्यमविशङ्कया ॥ 1.26.2 ॥
अनुशिष्टोऽस्म्ययोध्यायां गुरुमध्ये महात्मना।
पित्रा दशरथेनाहं नावज्ञेयं च तद्वचः ॥ 1.26.3 ॥
सोऽहं पितुर्वचः श्रुत्वा शासनाद्ब्रह्मवादिनः।
करिष्यामि न सन्देहस्ताटकावधमुत्तमम् ॥ 1.26.4 ॥
गोब्राह्मणहितार्थाय देशस्यास्य सुखाय च।
तव चैवाप्रमेयस्य वचनं कर्त्तुमुद्यतः ॥ 1.26.5 ॥
एवमुक्त्वा धनुर्मध्ये बध्वा मुष्टिमरिन्दमः।
ज्याघोषमकरोत्तीव्रं दिशः शब्देन नादयन् ॥ 1.26.6 ॥
तेन शब्देन वित्रस्तास्ताटकावनवासिनः।
ताटका च सुसङ्क्रुद्धा तेन शब्देन मोहिता ॥ 1.26.7 ॥
तं शब्दमभिनिध्याय राक्षसी क्रोधमूर्च्छिता।
श्रुत्वा चाभ्यद्रवद्वेगाद्यतः शब्दो विनिस्सृतः ॥ 1.26.8 ॥
तां दृष्ट्वा राघवः क्रुद्धां विकृतां विकृताननाम्।
प्रमाणेनातिवृद्धां च लक्ष्मणं सोऽभ्यभाषत ॥ 1.26.9 ॥
पश्य लक्ष्मण यक्षिण्या भैरवं दारुणं वपुः।
भिद्येरन् दर्शनादस्या भीरूणां हृदयानि च ॥ 1.26.10 ॥
एनां पश्य दुराधर्षां मायाबलसमन्विताम्।
विनिवृत्तां करोम्यद्य हृतकर्णाग्रनासिकाम् ॥ 1.26.11 ॥
न ह्येनामुत्सहे हन्तुं स्त्रीस्वभावेन रक्षिताम्।
वीर्यं चास्या गतिं चापि हनिष्यामीति मे मतिः ॥ 1.26.12 ॥
एवं ब्रुवाणे रामे तु ताटका क्रोधमूर्च्छिता।
उद्यम्य बाहू गर्जन्ती राममेवाभ्यधावत ॥ 1.26.13 ॥
विश्वामित्रस्तु ब्रह्मर्षिर्हुङ्कारेणाभिभर्त्स्य ताम्।
स्वस्ति राघवयोरस्तु जयं चैवाभ्यभाषत ॥ 1.26.14 ॥
उद्धून्वाना रजो घोरं ताटका राघवावुभौ।
रजोमोहेन महता मुहूर्तं सा व्यमोहयत् ॥ 1.26.15 ॥
ततो मायां समास्थाय शिलावर्षेण राघवौ।
अवाकिरत्सुमहता ततश्चुक्रोध राघवः ॥ 1.26.16 ॥
शिलावर्षं महत्तस्याः शरवर्षेण राघवः।
प्रतिहत्योपधावन्त्याः करौ चिच्छेद पत्रिभिः ॥ 1.26.17 ॥
ततश्छिन्नभुजां श्रान्तामभ्याशे परिगर्जतीम्।
सौमित्रिरकरोत् क्रोधाद्धृतकर्णाग्रनासिकाम् ॥ 1.26.18 ॥
अन्तर्द्धानं गता यक्षी मोहयन्तीव मायया।
अश्मवर्षं विमुञ्चन्ती भैरवं विचचार ह ॥ 1.26.19 ॥
ततस्तावश्मवर्षेण कीर्यमाणौ समन्ततः।
दृष्ट्वा गाधिसुतः श्रीमानिदं वचनमब्रवीत् ॥ 1.26.20 ॥
अलं ते घृणया वीर पापैषा दुष्टचारिणी।
यज्ञविघ्नकरी यक्षी पुरा वर्द्धति मायया ॥ 1.26.21 ॥
वध्यतां तावदेवैषा पुरा सन्ध्या प्रवर्तते।
रक्षांसि सन्ध्याकालेषु दुर्द्धर्षाणि भवन्ति वै ॥ 1.26.22 ॥
इत्युक्तस्तु तदा यक्षीमश्मवृष्ट्याभिवर्षतीम्।
दर्शयन् शब्दवेधित्वं तां रुरोध स सायकैः ॥ 1.26.23 ॥
सा रुद्धा शरजालेन मायाबलसमन्विता।
अभिदुद्राव काकुत्स्थं लक्ष्मणं च विनेदुषी ॥ 1.26.24 ॥
तामापतन्तीं वेगेन विक्रान्तामशनीमिव।
शरेणोरसि विव्याध सा पपात ममार च ॥ 1.26.25 ॥
तां हतां भीमसङ्काशां दृष्ट्वा सुरपतिस्तदा।
साधु साध्विति काकुत्स्थं सुराश्च समपूजयन् ॥ 1.26.26 ॥
उवाच परमप्रीतः सहस्राक्षः पुरन्दरः।
सुराश्च सर्वे संहृष्टा विश्वामित्रमथाब्रुवन् ॥ 1.26.27 ॥
मुने कौशिक भद्रं ते सेन्द्राः सर्वे मरुद्गणाः।
तोषिताः कर्मणानेन स्नेहं दर्शय राघवे ॥ 1.26.28 ॥
प्रजापतेः कृशाश्वस्य पुत्रान् सत्यपराक्रमान्।
तपोबलभृतो ब्रह्मन् राघवाय निवेदय ॥ 1.26.29 ॥
पात्रभूतश्च ते ब्रह्मन् तवानुगमने धृतः।
कर्तव्यं च महत्कार्यं सुराणां राजसूनुना ॥ 1.26.30 ॥
एवमुक्त्वा सुराः सर्वे जग्मुर्हृष्टा यथागतम्।
विश्वामित्रं पुरस्कृत्य ततः सन्ध्या प्रवर्तते ॥ 1.26.31 ॥
ततो मुनिवरः प्रीतस्ताटकावधतोषितः।
मूर्ध्नि राममुपाघ्राय इदं वचनमब्रवीत् ॥ 1.26.32 ॥
इहाद्य रजनीं राम वसाम शुभदर्शन।
श्वःप्रभाते गमिष्यामस्तदाश्रमपदं मम ॥ 1.26.33 ॥
विश्वामित्रवचः श्रुत्वा हृष्टो दशरथात्मजः।
उवास रजनीं तत्र ताटकाया वने सुखम् ॥ 1.26.34 ॥
मुक्तशापं वनं तच्च तस्मिन्नेव तदाऽहनि।
रमणीयं विबभ्राज यथा चैत्ररथं वनम् ॥ 1.26.35 ॥
निहत्य तां यक्षसुतां स रामः प्रशस्यमानः सुरसिद्धसङ्घैः।
उवास तस्मिन् मुनिना सहैव प्रभातवेलां प्रतिबोध्यमानः ॥ 1.26.36 ॥