०२५ ताटकावधप्रेरणा

अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम्।
श्रुत्वा पुरुषशार्दूलः प्रत्युवाच शुभां गिरम् ॥ 1.25.1 ॥
अल्पवीर्या यदा यक्षाः श्रूयन्ते मुनिपुङ्गव।
कथं नागसहस्रस्य धारयत्यबला बलम् ॥ 1.25.2 ॥
विश्वामित्रोऽब्रवीद्वाक्यं शृणु येन बलोत्तरा।
वरदानकृतं वीर्यं धारयत्यबला बलम् ॥ 1.25.3 ॥
पूर्वमासीन्महायक्षः सुकेतुर्नाम वीर्यवान्।
अनपत्यः शुभाचारः स च तेपे महत्तपः ॥ 1.25.4 ॥
पितामहस्तु सम्प्रीतस्तस्य यक्षपतेस्तदा।
कन्यारत्नं ददौ राम ताटकां नाम नामतः ॥ 1.25.5 ॥
ददौ नागसहस्रस्य बलं चास्याः पितामहः।
न त्वेव पुत्रं यक्षाय ददौ ब्रह्मा महायशाः ॥ 1.25.6 ॥
तां तु जातां विवर्द्धन्तीं रूपयौवनशालिनीम्।
जम्भपुत्राय सुन्दाय ददौ भार्यां यशस्विनीम् ॥ 1.25.7 ॥
कस्यचित्त्वथ कालस्य यक्षी पुत्रमजायत।
मारीचं नाम दुर्द्धषं यः शापाद्राक्षसोऽभवत् ॥ 1.25.8 ॥
सुन्दे तु निहते राम सागस्त्यं मुनिपुङ्गवम्।
ताटका सह पुत्रेण प्रधर्षयितुमिच्छति ॥ 1.25.9 ॥
भक्षार्थं जातसंरम्भा गर्जन्ती साऽभ्यधावत ॥ 1.25.10 ॥
आपतन्तीं तु तां दृष्ट्वा अगस्त्यो भगवानृषिः।
राक्षसत्वं भजस्वेति मारीचं व्याजहार सः ॥ 1.25.11 ॥
अगस्त्यः परमक्रुद्धस्ताटकामपि शप्तवान् ॥ 1.25.12 ॥
पुरुषादी महायक्षी विरूपा विकृतानना।
इदं रूपं विहायाऽथ दारुणं रूपमस्तु ते ॥ 1.25.13 ॥
सैषा शापकृतामर्षा ताटका क्रोधमूर्च्छिता।
देशमुत्सादयत्येनमगस्त्यचरितं शुभम् ॥ 1.25.14 ॥
एनां राघव दुर्वृत्तां यक्षीं परमदारुणाम्।
गोब्राह्मणहितार्थाय जहि दुष्टपराक्रमाम् ॥ 1.25.15 ॥
न ह्येनां शापसंस्पृष्टां कश्चिदुत्सहते पुमान्।
निहन्तुं त्रिषु लोकेषु त्वामृते रघुनन्दन ॥ 1.25.16 ॥
न हि ते स्त्रीवधकृते घृणा कार्या नरोत्तम।
चातुर्वर्ण्यहितार्थाय कर्तव्यं राजसूनुना ॥ 1.25.17 ॥
नृशंसमनृशंसं वा प्रजारक्षणकारणात्।
पातकं वा सदोषं वा कर्तव्यं रक्षता सताम् ॥ 1.25.18 ॥
राज्यभारनियुक्तानामेष धर्मः सनातनः।
अधर्म्यां जहि काकुत्स्थ धर्मो ह्यस्या न विद्यते ॥ 1.25.19 ॥
श्रूयते हि पुरा शक्रो विरोचनसुतां नृप।
पृथिवीं हन्तुमिच्छन्तीं मन्थरामभ्यसूदयत् ॥ 1.25.20 ॥
विष्णुना च पुरा राम भृगुपत्नी दृढव्रता अनिन्द्रं लोकमिच्छन्ती काव्यमाता निषूदिता ॥ 1.25.21 ॥
एतैश्चान्यैश्च बहुभी राजपुत्र महात्मभिः।
अधर्मसहिता नार्यो हताः पुरुषसत्तमैः ॥ 1.25.22 ॥