ततः प्रभाते विमले कृत्वाह्निकमरिन्दमौ।
विश्वामित्रं पुरस्कृत्य नद्यास्तीरमुपागतौ ॥ 1.24.1 ॥
ते च सर्वे महात्मानो मुनयः संशितव्रताः।
उपस्थाप्य शुभां नावं विश्वामित्रमथाब्रुवन् ॥ 1.24.2 ॥
आरोहतु भवान्नावं राजपुत्रपुरस्कृतः।
अरिष्टं गच्छ पन्थानं माभूत्कालविपर्ययः ॥ 1.24.3 ॥
विश्वामित्रस्तथेत्युक्त्वा तानृषीनभिपूज्य च।
ततार सहितस्ताभ्यां सरितं सागरङ्गमाम् ॥ 1.24.4 ॥
ततः शुश्राव वै शब्दमतिसंरम्भवर्द्धितम्।
मध्यमागम्य तोयस्य सह रामः कनीयसा ॥ 1.24.5 ॥
अथ रामः सरिन्मध्ये पप्रच्छ मुनिपुङ्गवम्।
वारिणो भिद्यमानस्य किमयं तुमुलो ध्वनिः ॥ 1.24.6 ॥
राघवस्य वचः श्रुत्वा कौतूहलसमन्वितः।
कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम् ॥ 1.24.7 ॥
कैलासपर्वते राम मनसा निर्मितं सरः।
ब्रह्मणा नरशार्दूल तेनेदं मानसं सरः ॥ 1.24.8 ॥
तस्मात्सुस्राव सरसः साऽयोध्यामुपगूहते।
सरःप्रवृत्ता सरयूः पुण्या ब्रह्मसरश्च्युता ॥ 1.24.9 ॥
तस्यायमतुलः शब्दो जाह्नवीमभिवर्तते।
वारिसङ्क्षोभजो राम प्रणामं नियतः कुरु ॥ 1.24.10 ॥
ताभ्यां तु तावुभौ कृत्वा प्रणाममतिधार्मिकौ।
तीरं दक्षिणमासाद्य जग्मतुर्लघुविक्रमौ ॥ 1.24.11 ॥
स वनं घोरसङ्काशं दृष्ट्वा नृपवरात्मजः।
अविप्रहतमैक्ष्वाकः पप्रच्छ मुनिपुङ्गवम् ॥ 1.24.12 ॥
अहो वनमिदं दुर्गं झिल्लिकागणनादितम्।
भैरवैः श्वापदैः पूर्णं शकुन्तैर्दारुणारुतैः ॥ 1.24.13 ॥
नानाप्रकारैः शकुनैर्वाश्यद्भिर्भैरवैः स्वनैः।
सिंहव्याघ्रवराहैश्च वारणैश्चोपशोभितम् ॥ 1.24.14 ॥
धवाश्वकर्णककुभैर्मरुतिन्दुकपाटलैः।
सङ्कीर्णं बदरीभिश्च किं न्वेतद्दारुणं वनम् ॥ 1.24.15 ॥
तमुवाच महातेजा विश्वामित्रो महामुनिः।
श्रूयतां वत्स काकुत्स्थ यस्यैतद्दारुणं वनम् ॥ 1.24.16 ॥
एतौ जनपदौ स्फीतौ पूर्वमास्तां नरोत्तम।
मलदाश्च करूशाश्च देवनिर्माणनिर्मितौ ॥ 1.24.17 ॥
पुरा वृत्रवधे राम मलेन समभिप्लुतम्।
क्षुधा चैव सहस्राक्षं ब्रह्महत्या समाविशत् ॥ 1.24.18 ॥
तमिन्द्रं स्नापयन् देवा ऋषयश्च तपोधनाः।
कलशैः स्नापयामासुर्मलं चास्य प्रमोचयन् ॥ 1.24.19 ॥
इह भूम्यां मलं दत्त्वा दत्त्वा कारूशमेव च।
शरीरजं महेन्द्रस्य ततो हर्षं प्रपेदिरे ॥ 1.24.20 ॥
निर्मलो निष्करूशश्च शुचिरिन्द्रो यदाऽभवत्।
ददौ देशस्य सुप्रीतो वरं प्रभुरनुत्तमम् ॥ 1.24.21 ॥
इमौ जनपदौ स्फीतौ ख्यातिं लोके गमिष्यतः।
मलदाश्च करूशाश्च ममाङ्गमलधारिणौ ॥ 1.24.22 ॥
साधु साध्विति त देवाः पाकशासनमब्रुवन्।
देशस्य पूजां तां दृष्ट्वा कृतां शक्रेण धीमता ॥ 1.24.23 ॥
एतौ जनपदौ स्फीतौ दीर्घकालमरिन्दम।
मलदाश्च करूशाश्च मुदितौ धनधान्यतः ॥ 1.24.24 ॥
बलं नागसहस्रस्य धारयन्ती तदा ह्यभूत्।
ताटका नाम भद्रं ते भार्या सुन्दस्य धीमतः ॥ 1.24.25 ॥
मारीचो राक्षसः पुत्रो यस्याः शक्रपराक्रमः ॥ 1.24.26 ॥
वृत्तबाहुर्महावीर्यो विपुलास्यतनुर्महान्।
राक्षसो भैरवाकारो नित्यं त्रासयते प्रजाः ॥ 1.24.27 ॥
इमौ जनपदौ नित्यं विनाशयति राघव।
मलदांश्च करूशांश्च ताटका दुष्टचारिणी ॥ 1.24.28 ॥
सेयं पन्थानमावार्य वसत्यध्यर्द्धयोजने।
अत एव च गन्तव्यं ताटकाया वनं यतः ॥ 1.24.29 ॥
स्वबाहुबलमाश्रित्य जहीमां दुष्टचारिणीम्।
मन्नियोगादिमं देशं कुरु निष्कण्टकं पुनः ॥ 1.24.30 ॥
न हि कश्चिदिमं देशं शक्नोत्यागन्तुमीदृशम्।
यक्षिण्या घोरया राम उत्सादितमसह्यया ॥ 1.24.31 ॥
एतत्ते सर्वमाख्यातं यथैतद्दारुणं वनम्।
यक्ष्या चोत्सादितं सर्वमद्यापि न निवर्तते ॥ 1.24.32 ॥