प्रभातायां तु शर्वर्यां विश्वामित्रो महामुनिः।
अभ्यभाषत काकुत्स्थौ शयानौ पर्णसंस्तरे ॥ 1.23.1 ॥
कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते।
उत्तिष्ठ नरशार्दूल कर्त्तव्यं दैवमाह्निकम् ॥ 1.23.2 ॥
तस्यर्षेः परमोदारं वचः श्रुत्वा नरोत्तमौ।
स्नात्वा कृतोदकौ वीरौ जेपतुः परमं जपम् ॥ 1.23.3 ॥
कृताह्निकौ महावीर्यौ विश्वामित्रं तपोधनम्।
अभिवाद्याभिसंहृष्टौ गमनायाभितस्थतुः ॥ 1.23.4 ॥
तौ प्रयातौ महावीर्यौ दिव्यां त्रिपथगां नदीम्।
ददृशाते ततस्तत्र सरय्वाः सङ्गमे शुभे ॥ 1.23.5 ॥
तत्राश्रमपदं पुण्यमृषीणामुग्रतेजसाम्।
बहुवर्षसहस्राणि तप्यतां परमं तपः ॥ 1.23.6 ॥
तं दृष्ट्वा परमप्रीतौ राघवौ पुण्यमाश्रमम्।
ऊचतुस्तं महात्मानं विश्वामित्रमिदं वचः ॥ 1.23.7 ॥
कस्यायमाश्रमः पुण्यः को न्वस्मिन् वसते पुमान्।
भगवन् श्रोतुमिच्छावः परं कौतूहलं हि नौ ॥ 1.23.8 ॥
तयोस्तद्वचनं श्रुत्वा प्रहस्य मुनिपुङ्गवः।
अब्रवीच्छ्रूयतां राम यस्यायं पूर्व आश्रमः ॥ 1.23.9 ॥
कन्दर्पो मूर्तिमानासीत् काम इत्युच्यते बुधैः ॥ 1.23.10 ॥
कृतोद्वाहं तु देवेशं गच्छन्तं समरुद्गणम्।
धर्षयामास दुर्मेधा हुङ्कृतश्च महात्मना ॥ 1.23.11 ॥
अवदग्धस्य रौद्रेण चक्षुषा रघुनन्दन।
व्यशीर्य्यन्त शरीरात् स्वात् सर्वगात्राणि दुर्मतेः ॥ 1.23.12 ॥
तस्य गात्रं हतं तत्र निर्दग्धस्य महात्मना।
अशरीरः कृतः कामः क्रोधाद्देवेश्वरेण हि ॥ 1.23.13 ॥
अनङ्ग इति विख्यातस्तदाप्रभृति राघव।
स चाङ्गविषयः श्रीमान् यत्राङ्गं प्रमुमोच ह ॥ 1.23.14 ॥
तस्यायमाश्रमः पुण्यस्तस्येमे मुनयः पुरा।
शिष्या धर्मपरा नित्यं तेषां पापं न विद्यते ॥ 1.23.15 ॥
इहाद्य रजनीं राम वसेम शुभदर्शन।
पुण्ययोः सरितोर्मध्ये श्वस्तरिष्यामहे वयम् ॥ 1.23.16 ॥
अभिगच्छामहे सर्वे शुचयः पुण्यमाश्रमम्।
स्नाताश्च कृतजप्याश्च हुतहव्या नरोत्तम ॥ 1.23.17 ॥
तेषां संवदतां तत्र तपोदीर्घेण चक्षुषा।
विज्ञाय परमप्रीता मुनयो हर्षमागमन् ॥ 1.23.18 ॥
अर्घ्यं पाद्यं तथातिथ्यं निवेद्य कुशिकात्मजे।
रामलक्ष्मणयोः पश्चादकुर्वन्नतिथिक्रियाम् ॥ 1.23.19 ॥
सत्कारं समनुप्राप्य कथाभिरभिरञ्जयन्।
यथार्हमजपन् सन्ध्यामृषयस्ते समाहिताः ॥ 1.23.20 ॥
तत्र वासिभिरानीता मुनिभिः सुव्रतैः सह।
न्यवसन् सुसुखं तत्र कामाश्रमपदे तदा ॥ 1.23.21 ॥
कथाभिरभिरामाभिरभिरामौ नृपात्मजौ।
रमयामास धर्मात्मा कौशिको मुनिपुङ्गवः ॥ 1.23.22 ॥