०२२ रामलक्ष्मणनिष्क्रमणम्

तथा वसिष्ठे ब्रुवति राजा दशरथः सुतम्।
प्रहृष्टवदनो राममाजुहाव सलक्ष्मणम् ॥ 1.22.1 ॥
कृतस्वस्त्ययनं मात्रा पित्रा दशरथेन च।
पुरोधसा वसिष्ठेन मङ्गलैरभिमन्त्रितम् ॥ 1.22.2 ॥
स पुत्रं मूर्ध्न्युपाघ्राय राजा दशरथः प्रियम्।
ददौ कुशिकपुत्राय सुप्रीतेनान्तरात्मना ॥ 1.22.3 ॥
ततो वायुः सुखस्पर्शो विरजस्को ववौ तदा।
विश्वामित्रगतं रामं दृष्ट्वा राजीवलोचनम् ॥ 1.22.4 ॥
पुष्पवृष्टिर्महत्यासीद्देवदुन्दुभिनिःस्वनैः।
शङ्खदुन्दुभिनिर्घोषः प्रयाते तु महात्मनि ॥ 1.22.5 ॥
विश्वामित्रो ययावग्रे ततो रामो महायशाः।
काकपक्षधरो धन्वी तं च सौमित्रिरन्वगात् ॥ 1.22.6 ॥
विश्वामित्रं महात्मानं त्रिशीर्षाविव पन्नगौ।
अनुजग्मतुरक्षुद्रौ पितामहमिवाश्विनौ ॥ 1.22.7 ॥
तदा कुशिकपुत्रं तु धनुष्पाणी स्वलङ्कृतौ।
बद्धगोधाङ्गुलित्राणौ खड्गवन्तौ महाद्युती ॥ 1.22.8 ॥
अनुयातौ श्रिया दीप्त्या शोभयेतामनिन्दितौ।
स्थाणुं देवमिवाचिन्त्यं कुमाराविव पावकी ॥ 1.22.9 ॥
अध्यर्द्धयोजनं गत्वा सरय्वा दक्षिणे तटे।
रामेति मधुरां वाणीं विश्वामित्रोऽभ्यभाषत ॥ 1.22.10 ॥
गृहाण वत्स सलिलं माभूत् कालविपर्ययः।
मन्त्रग्रामं गृहाण त्वं बलामतिबलां तथा ॥ 1.22.11 ॥
न श्रमो न ज्वरो वा ते न रूपस्य विपर्ययः।
न च सुप्तं प्रमत्तं वा धर्षयिष्यन्ति नैऋताः ॥ 1.22.12 ॥
न बाह्वोः सदृशो वीर्ये पृथिव्यामस्ति कश्चन।
त्रिषु लोकेषु वै राम न भवेत् सदृशस्तव ॥ 1.22.13 ॥
न सौभाग्ये न दाक्षिण्ये न ज्ञाने बुद्धिनिश्चये।
नोत्तरे प्रतिवक्तव्ये समो लोके तवानघ ॥ 1.22.14 ॥
एतद्विद्याद्वये लब्धे भविता नास्ति ते समः।
बला चातिबला चैव सर्वज्ञानस्य मातरौ ॥ 1.22.15 ॥
क्षुत्पिपासे न ते राम भविष्येते नरोत्तम।
बलामतिबलां चैव पठतः पथि राघव ॥ 1.22.16 ॥
विद्याद्वयमधीयाने यशश्चाप्यतुलं त्वयि।
पितामहसुते ह्येते विद्ये तेजःसमन्विते ॥ 1.22.17 ॥
प्रदातुं तव काकुत्स्थ सदृशस्त्वं हि धार्मिक ॥ 1.22.18 ॥
कामं बहुगुणाः सर्वे त्वय्येते नात्र संशयः।
तपसा सम्भृते चैते बहुरूपे भविष्यतः ॥ 1.22.19 ॥
ततो रामो जलं स्पृष्ट्वा प्रहृष्टवदनः शुचिः।
प्रतिजग्राह ते विद्ये महर्षेर्भावितात्मनः ॥ 1.22.20 ॥
विद्यासमुदितो रामः शुशुभे भूरिविक्रमः।
सहस्ररश्मिर्भगवान् शरदीव दिवाकरः ॥ 1.22.21 ॥
गुरुकार्याणि सर्वाणि नियुज्य कुशिकात्मजे।
ऊषुस्तां रजनीं तत्र सरय्वां सुसुखः त्रयः ॥ 1.22.22 ॥
दशरथनृपसूनुसत्तमाभ्यां तृणशयनेऽनुचिते तदोषिताभ्याम्।
कुशिकसुतवचोऽनुलालिताभ्यां सुखमिव सा विबभौ विभावरी च ॥ 1.22.23 ॥