०२१ वसिष्ठवचनाद् रामप्रेषणम्

तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम्।
समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम् ॥ 1.21.1 ॥
पूर्वमर्थं प्रतिश्रुत्य प्रतिज्ञां हातुमिच्छसि।
राघवाणामयुक्तोऽयं कुलस्यास्य विपर्ययः ॥ 1.21.2 ॥
यदीदं ते क्षमं राजन् गमिष्यामि यथा गतम्।
मिथ्याप्रतिज्ञः काकुत्स्थ सुखी भव सबान्धवः ॥ 1.21.3 ॥
तस्य रोषपरीतस्य विश्वामित्रस्य धीमतः।
चचाल वसुधा कृत्स्ना विवेश च भयं सुरान् ॥ 1.21.4 ॥
त्रस्तरूपं स विज्ञाय जगत्सर्वं महानृषिः।
नृपतिं सुव्रतो धीरो वसिष्ठो वाक्यमब्रवीत् ॥ 1.21.5 ॥
इक्ष्वाकूणां कुले जातः साक्षाद्धर्म इवापरः।
धृतिमान् सुव्रतः श्रीमान्न धर्मं हातुमर्हसि ॥ 1.21.6 ॥
त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघवः।
स्वधर्मं प्रतिपद्यस्व नाधर्मं वोढुमर्हसि ॥ 1.21.7 ॥
संश्रुत्यैवं करिष्यामीत्यकुर्वाणस्य राघव इष्टापूर्तवधो भूयात्तस्माद्रामं विसर्जय ॥ 1.21.8 ॥
कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः।
गुप्तं कुशिकपुत्रेण ज्वलनेनामृतं यथा ॥ 1.21.9 ॥
एष विग्रहवान् धर्म एष वीर्यवतां वरः।
एष बुद्ध्याधिको लोके तपसश्च परायणम् ॥ 1.21.10 ॥
एषोऽस्त्रान् विविधान् वेत्ति त्रैलोक्ये सचराचरे।
नैनमन्यः पुमान् वेत्ति न च वेत्स्यन्ति केचन ॥ 1.21.11 ॥
न देवा ऋषयः केचिन्नासुरा न च राक्षसाः।
गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः ॥ 1.21.12 ॥
सर्वास्त्राणि कृशाश्वस्य पुत्राः परमधार्मिकाः।
कौशिकाय पुरा दत्ता यदा राज्यं प्रशासति ॥ 1.21.13 ॥
तेऽपि पुत्राः कृशाश्वस्य प्रजापतिसुतासुताः।
नैकरूपा महावीर्या दीप्तिमन्तो जयावहाः ॥ 1.21.14 ॥
जया च सुप्रभा चैव दक्षकन्ये सुमध्यमे।
ते सुवातेऽस्त्रशस्त्राणि शतं परमभास्वरम् ॥ 1.21.15 ॥
पञ्चाशतं सुताँल्लेभे जया नाम परान् पुरा।
वधायासुरसैन्यानाममेयान् कामरूपिणः ॥ 1.21.16 ॥
सुप्रभाजनयच्चापि सुतान् पञ्चाशतं पुनः।
संहारान्नाम दुर्द्धर्षान् दुराक्रमान् बलीयसः ॥ 1.21.17 ॥
तानि चास्त्राणि वेत्त्येष यथावत् कुशिकात्मजः।
अपूर्वाणां च जनने शक्तो भूयस्य धर्मवित् ॥ 1.21.18 ॥
एवंवीर्यो महातेजा विश्वामित्रो महायशाः।
न रामगमने राजन् संशयं गन्तुमर्हसि ॥ 1.21.19 ॥
तेषां निग्रहणे शक्तः स्वयं च कुशिकात्मजः।
तव पुत्रहितार्थाय त्वामुपेत्याभियाचते ॥ 1.21.20 ॥
इति मुनिवचनात् प्रसन्नचित्तो रघुवृषभश्च मुमोद भास्वराङ्गः।
गमनमभिरुरोच राघवस्य प्रथितयशाः कुशिकात्मजाय बुद्ध्या ॥ 1.21.21 ॥