०२० दशरथविज्ञापना

तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम्।
मुहूर्तमिव निःसञ्ज्ञः सञ्ज्ञावानिदमब्रवीत् ॥ 1.20.1 ॥
ऊनषोडशवर्षो मे रामो राजीवलोचनः।
न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः ॥ 1.20.2 ॥
इयमक्षौहिणी पूर्णा यस्याहं पतिरीश्वरः।
अनया संवृतो गत्वा योद्धाऽहं तैर्निशाचरैः ॥ 1.20.3 ॥
इमे शूराश्च विक्रान्ता भृत्या मेऽस्त्रविशारदाः।
योग्या रक्षोगणैर्योद्धुं न रामं नेतुमर्हसि ॥ 1.20.4 ॥
अहमेव धनुष्पाणिर्गोप्ता समरमूर्द्धनि।
यावत्प्राणान् धरिष्यामि तावद्योत्स्ये निशाचरैः ॥ 1.20.5 ॥
निर्विघ्ना व्रतचर्या सा भविष्यति सुरक्षिता।
अहं तत्र गमिष्यामि न रामं नेतुमर्हसि ॥ 1.20.6 ॥
बालो ह्यकृतविद्यश्च न च वेत्ति बलाबलम्।
न चास्त्रबलसंयुक्तो न च युद्धविशारदः ॥ 1.20.7 ॥
न चासौ रक्षसां योग्यः कूटयुद्धा हि ते भृशम् ॥ 1.20.8 ॥
विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे।
जीवितुं मुनिशार्दूल न रामं नेतुमर्हसि ॥ 1.20.9 ॥
यदि वा राघवं ब्रह्मन् नेतुमिच्छसि सुव्रत।
चतुरङ्गसमायुक्तं मया च सहितं नय ॥ 1.20.10 ॥
षष्टिर्वर्षसहस्राणि जातस्य मम कौशिक।
दुःखेनोत्पादितश्चायं न रामं नेतुमर्हसि ॥ 1.20.11 ॥
चतुर्णामात्मजानां हि प्रीतिः परमिका मम।
ज्येष्ठं धर्मप्रधानं च न रामं नेतुमर्हसि ॥ 1.20.12 ॥
किंवीर्या राक्षसास्ते च कस्य पुत्राश्च के च ते।
कथम्प्रमाणाः के चैतान् रक्षन्ति मुनिपुङ्गव ॥ 1.20.13 ॥
कथं च प्रतिकर्तव्यं तेषां रामेण रक्षसाम्।
मामकैर्वा बलैर्ब्रह्मन् मया वा कूटयोधिनाम् ॥ 1.20.14 ॥
सर्वं मे शंस भगवन् कथं तेषां मया रणे।
स्थातव्यं दुष्टभावानां वीर्योत्सिक्ता हि राक्षसाः ॥ 1.20.15 ॥
तस्य तद्वचनं श्रुत्वा विश्वामित्रोऽभ्यभाषत ॥ 1.20.16 ॥
पौलस्त्यवंशप्रभवो रावणो नाम राक्षसः ॥ 1.20.17 ॥
स ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम्।
महाबलो महावीर्यो राक्षसैर्बहुभिर्वृतः ॥ 1.20.18 ॥
श्रूयते हि महावीर्यो रावणो राक्षसाधिपः।
साक्षाद्वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः ॥ 1.20.19 ॥
तेन सञ्चोदितौ द्वौ तु राक्षसौ वै महाबलौ।
मारीचश्च सुबाहुश्च यज्ञविघ्नं करिष्यतः ॥ 1.20.20 ॥
इत्युक्तो मुनिना तेन राजोवाच मुनिं तदा।
न हि शक्तोऽस्मि सङ्ग्रामे स्थातुं तस्य दुरात्मनः ॥ 1.20.21 ॥
स त्वं प्रसादं धर्मज्ञ कुरुष्व मम पुत्रके।
मम चैवाल्पभाग्यस्य दैवतं हि भवान् गुरुः ॥ 1.20.22 ॥
देवदानवगन्धर्वा यक्षाः पतगपन्नगाः।
न शक्ता रावणं सोढुं किं पुनर्मानवा युधि ॥ 1.20.23 ॥
तेन चाहं न शक्नोमि संयोद्धुं तस्य वा बलैः।
सबलो वा मुनिश्रेष्ठ सहितो वा ममात्मजैः ॥ 1.20.24 ॥
कथमप्यमरप्रख्यं सङ्ग्रामाणामकोविदम्।
बालं मे तनयं ब्रह्मन् नैव दास्यामि पुत्रकम् ॥ 1.20.25 ॥
अथ कालोपमौ युद्धे सुतौ सुन्दोपसुन्दयोः।
यज्ञविघ्नकरौ तौ ते नैव दास्यामि पुत्रकम् ॥ 1.20.26 ॥
मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ।
तयोरन्यतरेणाहं योद्धा स्यां ससुहृद्गणः ॥ 1.20.27 ॥
इति नरपतिजल्पनाद्द्विजेन्द्रं कुशिकसुतं सुमहान् विवेश मन्युः।
सुहुत इव समिद्भिराज्यसिक्तः समभवदुज्ज्वलितो महर्षिवह्निः ॥ 1.20.28 ॥