तच्छ्रुत्वा राजसिंहस्य वाक्यमद्भुतविस्तरम्।
हृष्टरोमा महातेजा विश्वामित्रोऽभ्यभाषत ॥ 1.19.1 ॥
सदृशं राजशार्दूल तवैतद्भुवि नान्यथा।
महाकुलप्रसूतस्य वसिष्ठव्यपदेशिनः ॥ 1.19.2 ॥
यत्तु मे हृद्गतं वाक्यं तस्य कार्यस्य निश्चयम्।
कुरुष्व राजशार्दूल भव सत्यप्रतिश्रवः ॥ 1.19.3 ॥
अहं नियममातिष्ठे सिद्ध्यर्थं पुरुषर्षभ।
तस्य विघ्नकरौ द्वौ तु राक्षसौ कामरूपिणौ ॥ 1.19.4 ॥
मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ।
समांसरुधिरौघेण वेदिं तामभ्यवर्षताम् ॥ 1.19.5 ॥
अवधूते तथाभूते तस्मिन्नियमनिश्चये।
कृतश्रमो निरुत्साहस्तस्माद्देशादपाक्रमे ॥ 1.19.6 ॥
न च मे क्रोधमुत्स्रष्टुं बुद्धिर्भवति पार्थिव।
तथाभूता हि सा चर्या न शापस्तत्र मुच्यते ॥ 1.19.7 ॥
स्वपुत्रं राजशार्दूल रामं सत्यपराक्रमम्।
काकपक्षधरं शूरं ज्येष्ठं मे दातुमर्हसि ॥ 1.19.8 ॥
शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तेजसा।
राक्षसा ये विकर्तारस्तेषामपि विनाशने ॥ 1.19.9 ॥
श्रेयश्चास्मै प्रदास्यामि बहुरूपं न संशयः।
त्रयाणामपि लोकानां येन ख्यातिं गमिष्यति ॥ 1.19.10 ॥
न च तौ राममासाद्य शक्तौ स्थातुं कथञ्चन।
न च तौ राघवादन्यो हन्तुमुत्सहते पुमान् ॥ 1.19.11 ॥
वीर्योत्सिक्तौ हि तौ पापौ कालपाशवशं गतौ।
रामस्य राजशार्दूल न पर्याप्तौ महात्मनः ॥ 1.19.12 ॥
न च पुत्रकृतस्नेहं कर्तुमर्हति पार्थिव।
अहं ते प्रतिजानामि हतौ तौ विद्धि राक्षसौ ॥ 1.19.13 ॥
अहं वेद्मि महात्मानं रामं सत्यपराक्रमम्।
वसिष्ठोऽपि महातेजा ये चेमे तपसि स्थिताः ॥ 1.19.14 ॥
यदि ते धर्मलाभं च यशश्च परमं भुवि।
स्थितमिच्छसि राजेन्द्र रामं मे दातुमर्हसि ॥ 1.19.15 ॥
यदि ह्यनुज्ञां काकुत्स्थ ददते तव मन्त्रिणः।
वसिष्ठप्रमुखाः सर्वे राघवं मे विसर्जय ॥ 1.19.16 ॥
अभिप्रेतमसंसक्तमात्मजं दातुमर्हसि।
दशरात्रं हि यज्ञस्य रामं राजीवलोचनम् ॥ 1.19.17 ॥
नात्येति कालो यज्ञस्य यथाऽयं मम राघव।
तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः ॥ 1.19.18 ॥
इत्येवमुक्त्वा धर्मात्मा धर्मार्थसहितं वचः।
विरराम महातेजा विश्वामित्रो महामुनिः ॥ 1.19.19 ॥
स तन्निशम्य राजेन्द्रो विश्वामित्रवचः शुभम्।
शोकमभ्यगमत्तीव्रं व्यषीदत भयान्वितः ॥ 1.19.20 ॥
इति हृदयमनोविदारणं मुनिवचनं तदतीव शुश्रुवान्।
नरपतिरभवन्महांस्तदा व्यथितमनाः प्रचचाल चासनात् ॥ 1.19.21 ॥