निर्वृत्ते तु क्रतौ तस्मिन् हयमेधे महात्मनः।
प्रतिगृह्य सुरा भागान् प्रतिजग्मुर्यथागतम् ॥ 1.18.1 ॥
समाप्तदीक्षानियमः पत्नीगणसमन्वितः।
प्रविवेश पुरीं राजा सभृत्यबलवाहनः ॥ 1.18.2 ॥
यथार्हं पूजितास्तेन राज्ञा वै पृथिवीश्वराः।
मुदिताः प्रययुर्देशान् प्रणम्य मुनिपुङ्गवम् ॥ 1.18.3 ॥
श्रीमतां गच्छतां तेषां स्वपुराणि पुरात्ततः।
बलानि राज्ञां शुभ्राणि प्रहृष्टानि चकाशिरे ॥ 1.18.4 ॥
गतेषु पृथिवीशेषु राजा दशरथस्तदा।
प्रविवेश पुरीं श्रीमान् पुरस्कृत्य द्विजोत्तमान् ॥ 1.18.5 ॥
शान्तया प्रययौ सार्द्धमृश्यशृङ्गः सुपूजितः।
अन्वीयमानो राज्ञाथ सानुयात्रेण धीमता ॥ 1.18.6 ॥
उवास सुखितस्तत्र पुत्रोत्पत्तिं विचिन्तयन्।
ततो यज्ञे समाप्ते तु ऋतूनां षट् समत्ययुः ॥ 1.18.7 ॥
ततश्च द्वादशे मासे चैत्रे नावमिके तिथौ।
नक्षत्रेऽदितिदैवत्ये स्वोच्चसंस्थेषु पञ्चसु ॥ 1.18.8 ॥
ग्रहेषु कर्कटे लग्ने वाक्पताविन्दुना सह।
प्रोद्यमाने जगन्नाथं सर्वलोकनमस्कृतम् ॥ 1.18.9 ॥
कौसल्याजनयद्रामं सर्वलक्षणसंयुतम्।
विष्णोरर्द्धं महाभागं पुत्त्रमैक्ष्वाकवर्द्धनम् ॥ 1.18.10 ॥
कौसल्या शुशुभे तेन पुत्रेणामिततेजसा।
यथा वरेण देवानामदितिर्वज्रपाणिना ॥ 1.18.11 ॥
भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः।
साक्षाद्विष्णोश्चतुर्भागः सर्वैः समुदितो गुणैः ॥ 1.18.12 ॥
अथ लक्ष्मणशत्रुघ्नौ सुमित्राजनयत्सुतौ।
सर्वास्त्रकुशलौ वीरौ विष्णोरर्द्धसमन्वितौ ॥ 1.18.13 ॥
पुष्ये जातस्तु भरतो मीनलग्ने प्रसन्नधीः।
सार्पे जातौ च सौमित्री कुलीरेऽभ्युदिते रवौ ॥ 1.18.14 ॥
राज्ञः पुत्रा महात्मानश्चत्वारो जज्ञिरे पृथक्।
गुणवन्तोऽनुरूपाश्च रुच्या प्रोष्ठपदोपमाः ॥ 1.18.15 ॥
जगुः कलं च गन्धर्वा ननृतुश्चाप्सरोगणाः।
देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता ॥ 1.18.16 ॥
उत्सवश्च महानासीदयोध्यायां जनाकुलः ॥ 1.18.17 ॥
रथ्याश्च जनसम्बाधा नटनर्तकसङ्कुलाः।
गायनैश्च विराविण्यो वादनैश्च तथाऽपरैः ॥ 1.18.18 ॥
प्रदेयांश्च ददौ राजा सूतमागधवन्दिनाम्।
ब्राह्मणेभ्यो ददौ वित्तं गोधनानि सहस्रशः ॥ 1.18.19 ॥
अतीत्यैकादशाहं तु नामकर्म तथाऽकरोत् ॥ 1.18.20 ॥
ज्येष्ठं रामं महात्मानं भरतं कैकयीसुतम्।
सौमित्रिं लक्ष्मण इति शत्रुघ्नमपरं तथा ॥ 1.18.21 ॥
वसिष्ठः परमप्रीतो नामानि कृतवांस्तदा ॥ 1.18.22 ॥
ब्राह्मणान् भोजयामास पौरजानपदानपि।
अददद्ब्राह्मणानां च रत्नौघममितं बहु ॥ 1.18.23 ॥
तेषां जन्मक्रियादीनि सर्वकर्माण्यकारयत् ॥ 1.18.24 ॥
तेषां केतुरिव ज्येष्ठो रामो रतिकरः पितुः।
बभूव भूयो भूतानां स्वयम्भूरिव सम्मतः ॥ 1.18.25 ॥
सर्वे वेदविदः शूराः सर्वे लोकहिते रताः।
सर्वे ज्ञानोपपन्नाश्च सर्वे समुदिता गुणैः ॥ 1.18.26 ॥
तेषामपि महातेजा रामः सत्यपराक्रमः।
इष्टः सर्वस्य लोकस्य शशाङ्क इव निर्मलः ॥ 1.18.27 ॥
गजस्कन्धेऽश्वपृष्ठे च रथचर्यासु सम्मतः।
धनुर्वेदे च निरतः पितुः शुश्रूषणे रतः ॥ 1.18.28 ॥
बाल्यात् प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मिवर्द्धनः।
रामस्य लोकरामस्य भ्रातुर्ज्येष्ठस्य नित्यशः ॥ 1.18.29 ॥
सर्वप्रियकरस्तस्य रामस्यापि शरीरतः।
लक्ष्मणो लक्ष्मिसम्पन्नो बहिः प्राण इवापरः ॥ 1.18.30 ॥
न च तेन विना निद्रां लभते पुरुषोत्तमः।
मृष्टमन्नमुपानीतमश्नाति न हि तं विना ॥ 1.18.31 ॥
यदा हि हयमारूढो मृगयां याति राघवः।
तदैनं पृष्ठतोऽभ्येति सधनुः परिपालयन् ॥ 1.18.32 ॥
भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि सः।
प्राणैः प्रियतरो नित्यं तस्य चासीत्तथा प्रियः ॥ 1.18.33 ॥
स चतुर्भिर्महाभागैः पुत्रैर्दशरथः प्रियैः।
बभूव परमप्रीतो देवैरिव पितामहः ॥ 1.18.34 ॥
ते यदा ज्ञानसम्पन्नास्सर्वे समुदिता गुणैः।
ह्रीमन्तः कीर्तिमन्तश्च सर्वज्ञा दीर्घदर्शिनः ॥ 1.18.35 ॥
तेषामेवम्प्रभावानां सर्वेषां दीप्ततेजसाम्।
पिता दशरथो हृष्टो ब्रह्मा लोकाधिपो यथा ॥ 1.18.36 ॥
ते चापि मनुजव्याघ्रा वैदिकाध्ययने रताः।
पितृशुश्रूषणरता धनुर्वेदे च निष्ठिताः ॥ 1.18.37 ॥
अथ राजा दशरथस्तेषां दारक्रियां प्रति।
चिन्तयामास धर्मात्मा सोपाध्यायः सबान्धवः ॥ 1.18.38 ॥
तस्य चिन्तयमानस्य मन्त्रिमध्ये महात्मनः।
अभ्यागच्छन्महातेजा विश्वामित्रो महामुनिः ॥ 1.18.39 ॥
स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षानुवाच ह।
शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनन्दनम् ॥ 1.18.40 ॥
तच्छ्रुत्वा वचनं तस्य राज्ञो वेश्म प्रदुद्रुवुः।
सम्भ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः ॥ 1.18.41 ॥
ते गत्वा राजभवनं विश्वामित्रमृषिं तदा।
प्राप्तमावेदयामासुर्नृपायैक्ष्वाकवे तदा ॥ 1.18.42 ॥
तेषां तद्वचनं श्रुत्वा सपुरोधाः समाहितः।
प्रत्युज्जगाम तं हृष्टो ब्रह्माणमिव वासवः ॥ 1.18.43 ॥
तं दृष्ट्वा ज्वलितं दीप्त्या तापसं संशितव्रतम्।
प्रहृष्टवदनो राजा ततोऽर्घ्यमुपहारयत् ॥ 1.18.44 ॥
स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा।
कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम् ॥ 1.18.45 ॥
पुरे कोशे जनपदे बान्धवेषु सुहृत्सु च।
कुशलं कौशिको राज्ञः पर्यपृच्छत्सुधार्मिकः ॥ 1.18.46 ॥
अपि ते सन्नताः सर्वे सामन्ता रिपवो जिताः।
दैवं च मानुषं चापि कर्म ते साध्वनुष्ठितम् ॥ 1.18.47 ॥
वसिष्ठं च समागम्य कुशलं मुनिपुङ्गवः।
ऋषींश्चान्यान् यथान्यायं महाभागानुवाच ह ॥ 1.18.48 ॥
ते सर्वे हृष्टमनसस्तस्य राज्ञो निवेशनम्।
विविशुः पूजितास्तत्र निषेदुश्चयथार्हतः ॥ 1.18.49 ॥
अथ हृष्टमना राजा विश्वामित्रं महामुनिम्।
उवाच परमोदारो हृष्टस्तमभिपूजयन् ॥ 1.18.50 ॥
यथाऽमृतस्य सम्प्राप्तिर्यथा वर्षमनूदके।
यथा सदृशदारेषु पुत्रजन्माप्रजस्य च ॥ 1.18.51 ॥
प्रणष्टस्य यथा लाभो यथा हर्षो महोदये।
तथैवागमनं मन्ये स्वागतं ते महामुने ॥ 1.18.52 ॥
कं च ते परमं कामं करोमि किमु हर्षितः।
पात्रभूतोऽसि मे ब्रह्मन् दिष्ट्या प्राप्तोऽसि धार्मिक ॥ 1.18.53 ॥
अद्य मे सफलं जन्म जीवितं च सुजीवितम् ॥ 1.18.54 ॥
पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः।
ब्रह्मर्षित्वमनुप्राप्तः पूज्योऽसि बहुधा मया ॥ 1.18.55 ॥
तदद्भुतमिदं ब्रह्मन् पवित्रं परमं मम।
शुभक्षेत्रगतश्चाहं तव सन्दर्शनात्प्रभो ॥ 1.18.56 ॥
ब्रूहि यत्प्रार्थितं तुभ्यं कार्यमागमनं प्रति।
इच्छाम्यनुगृहीतोऽहं त्वदर्थपरिवृद्धये ॥ 1.18.57 ॥
कार्यस्य न विमर्शं च गन्तुमर्हसि कौशिक।
कर्ता चाहमशेषेण दैवतं हि भवान् मम ॥ 1.18.58 ॥
मम चायमनुप्राप्तो महानभ्युदयो द्विज।
तवागमनजः कृत्स्नो धर्मश्चानुत्तमो मम ॥ 1.18.59 ॥
इति हृदयसुखं निशम्य वाक्यं श्रुतिसुखमात्मवता विनीतमुक्तम्।
प्रथितगुणयशा गुणैर्विशिष्टः परमऋषिः परमं जगाम हर्षम् ॥ 1.18.60 ॥