०१७ ऋक्षवानरोत्पत्तिः

पुत्रत्वं तु गते विष्णौ राज्ञस्तस्य महात्मनः।
उवाच देवताः सर्वाः स्वयम्भूर्भगवानिदम् ॥ 1.17.1 ॥
सत्यसन्धस्य वीरस्य सर्वेषां नो हितैषिणः।
विष्णोः सहायान् बलिनः सृजध्वं कामरूपिणः ॥ 1.17.2 ॥
मायाविदश्च शूरांश्च वायुवेगसमान् जवे।
नयज्ञान् बुद्धिसम्पन्नान् विष्णुतुल्यपराक्रमान् ॥ 1.17.3 ॥
असंहार्यानुपायज्ञान् सिंहसंहननान्वितान्।
सर्वास्त्रगुणसम्पन्नानमृतप्राशनानिव ॥ 1.17.4 ॥
अप्सरस्सु च मुख्यासु गन्धर्वीणां तनूषु च।
सृजध्वं हरिरूपेण पुत्रांस्तुल्यपराक्रमान् ॥ 1.17.5 ॥
पूर्वमेव मया सृष्टो जाम्बवानृक्षपुङ्गवः।
जृम्भमाणस्य सहसा मम वक्त्रादजायत ॥ 1.17.6 ॥
ते तथोक्ता भगवता तत् प्रतिश्रुत्य शासनम्।
जनयामासुरेवं ते पुत्रान् वानररूपिणः ॥ 1.17.7 ॥
ऋषयश्च महात्मानः सिद्धविद्याधरोरगाः।
चारणाश्च सुतान्वीरान् ससृजुर्वनचारिणः ॥ 1.17.8 ॥
वानरेन्द्रं महेन्द्राभमिन्द्रो वालिनमूर्जितम्।
सुग्रीवं जनयामास तपनस्तपतां वरः ॥ 1.17.9 ॥
बृहस्पतिस्त्वजनयत्तारं नाम महाहरिम्।
सर्ववानरमुख्यानां बुद्धिमन्तमनुत्तमम् ॥ 1.17.10 ॥
धनदस्य सुतः श्रीमान् वानरो गन्धमादनः।
विश्वकर्मा त्वजनयन्नल नाम महाहरिम् ॥ 1.17.11 ॥
पावकस्य सुतः श्रीमान्नीलोऽग्निसदृशप्रभः।
तेजसा यशसा वीर्यादत्यरिच्यत वानरान् ॥ 1.17.12 ॥
रूपद्रविणसम्पन्नावश्विनौ रूपसम्मतौ।
मैन्दं च द्विविदं चैव जनयामासतुः स्वयम् ॥ 1.17.13 ॥
वरुणो जनयामास सुषेणं नाम वानरम्।
शरभं जनयामास पर्जन्यस्तु महाबलम् ॥ 1.17.14 ॥
मारुतस्यात्मजः श्रीमान् हनुमान्नाम वानरः।
वज्रसंहननोपेतो वैनतेयसमो जवे ॥ 1.17.15 ॥
ते सृष्टा बहुसाहस्रा दशग्रीववधे गताः।
अप्रमेयबला वीरा विक्रान्ताः कामरूपिणः ॥ 1.17.16 ॥
मेरुमन्दरसङ्काशा वपुष्मन्तो महाबलाः।
ऋक्षवानरगोपुच्छाः क्षिप्रमेवाभिजज्ञिरे ॥ 1.17.17 ॥
यस्य देवस्य यद्रूपं वेषो यश्च पराक्रमः।
अजायत समस्तेन तस्य तस्य सुतः पृथक् ॥ 1.17.18 ॥
गोलाङ्गूलीषु चोत्पन्नाः केचित्सम्मतविक्रमाः।
ऋक्षीषु च तथा जाता वानराः किन्नरीषु च ॥ 1.17.19 ॥
देवा महर्षिगन्धर्वाः तार्क्ष्या यक्षा यशस्विनः।
नागाः किम्पुरुषाश्चैव सिद्धविद्याधरोरगाः ॥ 1.17.20 ॥
बहवो जनयामासुर्हृष्टास्तत्र सहस्रशः।
वानरान् सुमहाकायान् सर्वान् वै वनचारिणः ॥ 1.17.21 ॥
अप्सरस्सु च मुख्यासु तथा विद्याधरीषु च।
नागकन्यासु च तथा गन्धर्वीणां तनूषु च ॥ 1.17.22 ॥
कामरूपबलोपेता यथाकामं विचारिणः।
सिंहशार्दूलसदृशा दर्पेण च बलेन च ॥ 1.17.23 ॥
शिलाप्रहरणाः सर्वे सर्वे पादपयोधिनः।
नखदंष्ट्रायुधाः सर्वे सर्वे सर्वास्त्रकोविदाः ॥ 1.17.24 ॥
विचालयेयुः शैलेन्द्रान् भेदयेयुः स्थिरान् द्रुमान्।
क्षोभयेयुश्च वेगेन समुद्रं सरितां पतिम् ॥ 1.17.25 ॥
दारयेयुः क्षितिं पद्भ्यामाप्लवेयुर्महार्णवम्।
नभःस्थलं विशेयुश्च गृह्णीयुरपि तोयदान् ॥ 1.17.26 ॥
गृह्णीयुरपि मातङ्गान् मत्तान् प्रव्रजतो वने।
नर्दमानाश्च नादेन पातयेयुर्विहङ्गमान् ॥ 1.17.27 ॥
ईदृशानां प्रसूतानि हरीणां कामरूपिणाम्।
शतं शतसहस्राणि यूथपानां महात्मनाम् ॥ 1.17.28 ॥
ते प्रधानेषु यूथेषु हरीणां हरियूथपाः।
बभूवुर्यूथपश्रेष्ठा वीरांश्चाजनयन् हरीन् ॥ 1.17.29 ॥
अन्ये ऋक्षवतः प्रस्थानुपतस्थुः सहस्रशः।
अन्ये नानाविधान् शैलान् काननानि च भेजिरे ॥ 1.17.30 ॥
भ्रातरावुपतस्थुस्ते सर्व एव हरीश्वराः।
नलं नीलं हनूमन्तमन्यांश्च हरियूथपान् ॥ 1.17.31 ॥
ते तार्क्ष्यबलसम्पन्नाः सर्वे युद्धविशारदाः।
विचरन्तोऽर्दयन् दर्पात्सिंहव्याघ्रमहोरगान् ॥ 1.17.32 ॥
तांश्च सर्वान् महाबाहुर्वाली विपुलविक्रमः।
जुगोप भुजवीर्येण ऋक्षगोपुच्छवानरान् ॥ 1.17.33 ॥
तैरियं पृथिवी शूरैः सपर्वतवनार्णवा।
कीर्णा विविधसंस्थानैर्नानाव्यञ्जनलक्षणैः ॥ 1.17.34 ॥
तैर्मेघवृन्दाचलकूटकल्पैर्महाबलैर्वानरयूथपालैः।
बभूव भूर्भीमशरीररूपैः समावृता रामसहायहेतोः ॥ 1.17.35 ॥