ततो नारायणो विष्णुर्नियुक्तः सुरसत्तमैः।
जानन्नपि सुरानेवं श्लक्ष्णं वचनमबव्रीत् ॥ 1.16.1 ॥
उपायः को वधे तस्य राक्षसाधिपतेस्सुराः।
यमहं तं समास्थाय निहन्यामृषिकण्टकम् ॥ 1.16.2 ॥
एवमुक्ताः सुराः सर्वे प्रत्यूचुर्विष्णुमव्ययम्।
मानुषीं तनुमास्थाय रावणं जहि संयुगे ॥ 1.16.3 ॥
स हि तेपे तपस्तीव्रं दीर्घकालमरिन्दम।
येन तुष्टोऽभवद्ब्रह्मा लोककृल्लोकपूर्वजः ॥ 1.16.4 ॥
सन्तुष्टः प्रददौ तस्मै राक्षसाय वरं प्रभुः।
नानाविधेभ्यो भूतेभ्यो भयं नान्यत्र मानुषात् ॥ 1.16.5 ॥
अवज्ञाताः पुरा तेन वरदाने हि मानवाः ॥ 1.16.6 ॥
एवं पितामहात्तस्माद्वरं प्राप्य स दर्पितः।
उत्सादयति लोकाँस्त्रीन् स्त्रियश्चाप्यवकर्षति ॥ 1.16.7 ॥
इत्येतद्वचनं श्रुत्वा सुराणां विष्णुरात्मवान्।
पितरं रोचयामास तदा दशरथं नृपम् ॥ 1.16.8 ॥
स चाप्यपुत्रो नृपतिस्तस्मिन् काले महाद्युतिः।
अयजत्पुत्रियामिष्टिं पुत्रेप्सुररिसूदनः ॥ 1.16.9 ॥
स कृत्वा निश्चयं विष्णुरामन्त्र्य च पितामहम्।
अन्तर्धानं गतो देवैः पूज्यमानो महर्षिभिः ॥ 1.16.10 ॥
ततो वै यजमानस्य पावकादतुलप्रभम्।
प्रादुर्भूतं महद्भूतं महावीर्यं महाबलम् ॥ 1.16.11 ॥
कृष्णरक्ताम्बरधरं रक्ताक्षं दुन्दुभिस्वनम्।
स्निग्धहर्यक्षतनुजश्मश्रुप्रवरमूर्द्धजम् ॥ 1.16.12 ॥
शुभलक्षणसम्पन्नं दिव्याभरणभूषितम्।
शैलशृङ्गसमुत्सेधं दृप्तशार्दूलविक्रमम् ॥ 1.16.13 ॥
दिवाकरसमाकारं दीप्तानलशिखोपमम्।
तप्तजाम्बूनदमयीं राजतान्तपरिच्छदाम् ॥ 1.16.14 ॥
दिव्यपायससम्पूर्णां पात्रीं पत्नीमिव प्रियाम्।
प्रगृह्य विपुलां दोर्भ्यां स्वयं मायामयीमिव ॥ 1.16.15 ॥
समवेक्ष्याब्रवीद्वाक्यमिदं दशरथं नृपम्।
प्राजापत्यं नरं विद्धि मामिहाभ्यागतं नृप ॥ 1.16.16 ॥
ततः परं तदा राजा प्रत्युवाच कृताञ्जलिः।
भगवन् स्वागतं तेऽस्तु किमहं करवाणि ते ॥ 1.16.17 ॥
अथो पुनरिदं वाक्यं प्राजापत्यो नरोऽब्रवीत्।
राजन्नर्चयता देवानद्य प्राप्तमिदं त्वया ॥ 1.16.18 ॥
इदं तु नरशार्दूल पायसं देवनिर्मितम्।
प्रजाकरं गृहाण त्वं धन्यमारोग्यवर्द्धनम् ॥ 1.16.19 ॥
भार्याणामनुरूपाणामश्नीतेति प्रयच्छ वै।
तासु त्वं लप्स्यसे पुत्रान् यदर्थं यजसे नृप ॥ 1.16.20 ॥
तथेति नृपतिः प्रीतः शिरसा प्रतिगृह्य ताम्।
पात्रीं देवान्नसम्पूर्णां देवदत्तां हिरण्मयीम् ॥ 1.16.21 ॥
अभिवाद्य च तद्भूतमद्भुतं प्रियदर्शनम्।
मुदा परमया युक्तश्चकाराभिप्रदक्षिणम् ॥ 1.16.22 ॥
ततो दशरथः प्राप्य पायसं देवनिर्मितम्।
बभूव परमप्रीतः प्राप्य वित्तमिवाधनः ॥ 1.16.23 ॥
ततस्तदद्भुतप्रख्यं भूतं परमभास्वरम्।
संवर्तयित्वा तत्कर्म तत्रैवान्तरधीयत ॥ 1.16.24 ॥
हर्षरश्मिभिरुद्योतं तस्यान्तःपुरमाबभौ।
शारदस्याभिरामस्य चन्द्रस्येव नभोंऽशुमिः ॥ 1.16.25 ॥
सोऽन्तःपुरं प्रविश्यैव कौसल्यामिदमब्रवीत्।
पायसं प्रतिगृह्णीष्व पुत्रीयं त्विदमात्मनः ॥ 1.16.26 ॥
अर्द्धादर्द्धं ददौ चापि सुमित्रायै नराधिपः।
कैकेय्यै चावशिष्टार्द्धं ददौ पुत्रार्थकारणात् ॥ 1.16.27 ॥
प्रददौ चावशिष्टार्द्धं पायसस्यामृतोपमम्।
अनुचिन्त्य सुमित्रायै पुनरेव महीपतिः ॥ 1.16.28 ॥
एवं तासां ददौ राजा भार्याणां पायसं पृथक् ॥ 1.16.29 ॥
तास्त्वेतत्पायसं प्राप्य नरेन्द्रस्योत्तमाः स्त्रियः।
सम्मानं मेनिरे सर्वाः प्रहर्षोदितचेतसः ॥ 1.16.30 ॥
ततस्तु ताः प्राश्य तदुत्तमस्त्रियो महीपतेरुत्तमपायसं पृथक्।
हुताशनादित्यसमानतेजसोऽचिरेण गर्भान् प्रतिपेदिरे तदा ॥ 1.16.31 ॥
ततस्तु राजा प्रतिवीक्ष्य ताः स्त्रियः प्ररूढगर्भाः प्रतिलब्धमानसः।
बभूव हृष्टस्त्रिदिवे यथा हरिस्सुरेन्द्रसिद्धर्षिगणाभिपूजितः ॥ 1.16.32 ॥