मेधावी तु ततो ध्यात्वा स किञ्चिदिदमुत्तरम्।
लब्धसञ्ज्ञस्ततस्तं तु वेदज्ञो नृपमबव्रीत् ॥ 1.15.1 ॥
इष्टिं तेऽहं करिष्यामि पुत्रीयां पुत्रकारणात्।
अथर्वशिरसि प्रोक्तैर्मन्त्रैः सिद्धां विधानतः ॥ 1.15.2 ॥
ततः प्रारब्धवानिष्टिं पुत्रीयां पुत्रकारणात्।
जुहाव चाग्नौ तेजस्वी मन्त्रदृष्टेन कर्मणा ॥ 1.15.3 ॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः।
भागप्रतिग्रहार्थं वै समवेता यथाविधि ॥ 1.15.4 ॥
ताः समेत्य यथान्यायं तस्मिन् सदसि देवताः।
अब्रुवन् लोककर्त्तारं ब्रह्माणं वचनं महत् ॥ 1.15.5 ॥
भगवन् त्वत्प्रसादेन रावणो नाम राक्षसः।
सर्वान्नो बाधते वीर्याच्छासितुं तं न शक्नुमः ॥ 1.15.6 ॥
त्वया तस्मै वरो दत्तः प्रीतेन भगवन् पुरा।
मानयन्तश्च तं नित्यं सर्वं तस्य क्षमामहे ॥ 1.15.7 ॥
उद्वेजयति लोकांस्त्रीनुच्छ्रितान् द्वेष्टि दुर्मतिः।
शक्रं त्रिदशराजानं प्रधर्षयितुमिच्छति ॥ 1.15.8 ॥
ऋषीन् यक्षान् सगन्धर्वानसुरान् ब्राह्मणांस्तथा।
अतिक्रामति दुर्धषो वरदानेन मोहितः ॥ 1.15.9 ॥
नैनं सूर्यः प्रतपति पार्श्वे वाति न मारुतः।
चलोर्मिमाली तं दृष्ट्वा समुद्रोऽपि न कम्पते ॥ 1.15.10 ॥
तन्महन्नो भयं तस्माद्राक्षसाद्घोरदर्शनात्।
वधार्थं तस्य भगवन्नुपायं कर्त्तुमर्हसि ॥ 1.15.11 ॥
एवमुक्तः सुरैः सर्वैश्चिन्तयित्वा ततोऽब्रवीत्।
हन्ताऽयं विदितस्तस्य वधोपायो दुरात्मनः ॥ 1.15.12 ॥
तेन गन्धर्वयक्षाणां देवदानवरक्षसाम्।
अवध्योऽस्मीति वागुक्ता तथेत्युक्तं च तन्मया ॥ 1.15.13 ॥
नाकीर्तयदवज्ञानात्तद्रक्षो मानुषांस्तदा।
तस्मात्स मानुषाद्वध्यो मृत्युर्नान्योऽस्य विद्यते ॥ 1.15.14 ॥
एतच्छ्रुत्वा प्रियं वाक्यं ब्रह्मणा समुदाहृतम्।
सर्वे महर्षयो देवाः प्रहृष्टास्तेऽभवंस्तदा ॥ 1.15.15 ॥
एतस्मिन्नन्तरे विष्णुरुपयातो महाद्युतिः।
शङ्खचक्रगदापाणिः पीतवासा जगत्पतिः ॥ 1.15.16 ॥
ब्रह्मणा च समागम्य तत्र तस्थौ समाहितः।
तमब्रुवन् सुराः सर्वे समभिष्टूय सन्नताः ॥ 1.15.17 ॥
त्वां नियोक्ष्यामहे विष्णो लोकानां हितकाम्यया ॥ 1.15.18 ॥
राज्ञो दशरथस्य त्वमयोध्याधिपतेर्विभोः।
धर्मज्ञस्य वदान्यस्य महर्षिसमतेजसः ॥ 1.15.19 ॥
तस्य भार्यासु तिसृषु ह्रीश्रीकीर्त्युपमासु च।
विष्णो पुत्रत्वमागच्छ कृत्वात्मानं चतुर्विधम् ॥ 1.15.20 ॥
तत्र त्वं मानुषो भूत्वा प्रवृद्धं लोककण्टकम्।
अवध्यं दैवतैर्विष्णो समरे जहि रावणम् ॥ 1.15.21 ॥
स हि देवान् सगन्धर्वान् सिद्धांश्च ऋषिसत्तमान्।
राक्षसो रावणो मूर्खो वीर्योत्सेकेन बाधते ॥ 1.15.22 ॥
ऋषयस्तु ततस्तेन गन्धर्वाप्सरसस्तथा।
क्रीडन्तो नन्दनवने क्रूरेण किल हिंसिताः ॥ 1.15.23 ॥
वधार्थं वयमायातास्तस्य वै मुनिभिः सह।
सिद्धगन्धर्वयक्षाश्च ततस्त्वां शरणं गताः ॥ 1.15.24 ॥
त्वं गतिः परमा देव सर्वेषां नः परन्तप।
वधाय देवशत्रूणां नृणां लोके मनः कुरु ॥ 1.15.25 ॥
पितामहपुरोगांस्तान् सर्वलोकनमस्कृतः।
अब्रवीत् त्रिदशान् सर्वान् समेतान् धर्मसंहितान् ॥ 1.15.26 ॥
भयं त्यजत भद्रं वो हितार्थं युधि रावणम्।
सपुत्रपौत्रं सामात्यं समित्रज्ञातिबान्धवम् ॥ 1.15.27 ॥
दश वर्षसहस्राणि दशवर्षशतानि च।
वत्स्यामि मानुषे लोके पालयन् पृथिवीमिमाम् ॥ 1.15.28 ॥
एवं दत्त्वा वरं देवो देवानां विष्णुरात्मवान्।
मानुषे चिन्तयामास जन्मभूमिमथात्मनः ॥ 1.15.29 ॥
ततः पद्मपलाशाक्षः कृत्वात्मानं चतुर्विधम्।
पितरं रोचयामास तदा दशरथं नृपम् ॥ 1.15.30 ॥
ततो देवर्षिगन्धर्वाः सरुद्राः साप्सरोगणाः।
स्तुतिभिर्दिव्यरूपाभिस्तुष्टुवुर्मधुसूदनम् ॥ 1.15.31 ॥
तमुद्धतं रावणमुग्रतेजसं प्रवृद्धदर्पं त्रिदशेश्वरद्विषम्।
विरावणं साधुतपस्विकण्टकं तपस्विनामुद्धर तं भयावहम् ॥ 1.15.32 ॥
तमेव हत्वा सबलं सबान्धवं विरावणं रावणमुग्रपौरुषम्।
स्वर्लोकमागच्छ गतज्वरश्चिरं सुरेन्द्रगुप्तं गतदोषकल्मषम् ॥ 1.15.33 ॥