०१४ अश्वमेधयजनम्

अथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरङ्गमे।
सरय्वाश्चोत्तरे तीरे राज्ञो यज्ञोऽभ्यवर्तत ॥ 1.14.1 ॥
ऋश्यशृङगं पुरस्कृत्य कर्म चक्रुर्द्विजर्षभाः।
अश्वमेधे महायज्ञे राज्ञोऽस्य सुमहात्मनः ॥ 1.14.2 ॥
कर्म कुर्वन्ति विधिवद्याजका वेदपारगाः।
यथाविधि यथान्यायं परिक्रामन्ति शास्त्रतः ॥ 1.14.3 ॥
प्रवर्ग्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाः।
चक्रुश्च विधिवत्सर्वमधिकं कर्म शास्त्रतः ॥ 1.14.4 ॥
अभिपूज्य ततो हृष्टाः सर्वे चक्रुर्यथाविधि।
प्रातःसवनपूर्वाणि कर्माणि मुनिपुङ्गवाः ॥ 1.14.5 ॥
ऐन्द्रश्च विधिवद्दत्तो राजा चाभिष्टुतोऽनघः।
माध्यन्दिनं च सवनं प्रावर्तत यथाक्रमम् ॥ 1.14.6 ॥
तृतीयसवनं चैव राज्ञोऽस्य सुमहात्मनः।
चक्रुस्ते शास्त्रतो दृष्ट्वा तथा ब्राह्मणपुङ्गवाः ॥ 1.14.7 ॥
न चाहुतमभूत्तत्र स्खलितं वापि किञ्चन।
दृश्यते ब्रह्मवत्सर्वं क्षेमयुक्तं हि चक्रिरे ॥ 1.14.8 ॥
न तेष्वहस्सु श्रान्तो वा क्षुधितो वापि दृश्यते।
नाविद्वान् ब्राह्मणस्तत्र नाशतानुचरस्तथा ॥ 1.14.9 ॥
ब्राह्मणा भुञ्जते नित्यं नाथवन्तश्च भुञ्जते।
तापसा भुञ्जते चापि श्रमणा भुञ्जते तथा ॥ 1.14.10 ॥
वृद्धाश्च व्याधिताश्चैव स्त्रियो बालास्तथैव च।
अनिशं भुञ्जमानानां न तृप्तिरुपलभ्यते ॥ 1.14.11 ॥
दीयतां दीयतामन्नं वासांसि विविधानि च।
इति सञ्चोदितास्तत्र तथा चक्रुरनेकशः ॥ 1.14.12 ॥
अन्नकूटाश्च बहवो दृश्यन्ते पर्वतोपमाः।
दिवसे दिवसे तत्र सिद्धस्य विधिवत्तदा ॥ 1.14.13 ॥
नानादेशादनुप्राप्ताः पुरुषाः स्त्रीगणास्तथा।
अन्नपानैः सुविहितास्तस्मिन् यज्ञे महात्मनः ॥ 1.14.14 ॥
अन्नं हि विधिवत्स्वादु प्रशंसन्ति द्विजर्षभाः।
अहो तृप्ताः स्म भद्रं त इति शुश्राव राघवः ॥ 1.14.15 ॥
स्वलङ्कृताश्च पुरुषा ब्राह्मणान् पर्यवेषयन्।
उपासते च तानन्ये सुमृष्टमणिकुण्डलाः ॥ 1.14.16 ॥
कर्मान्तरे तदा विप्रा हेतुवादान् बहूनपि।
प्राहुः स्म वाग्ग्मिनो धीराः परस्परजिगीषया ॥ 1.14.17 ॥
दिवसे दिवसे तत्र संस्तरे कुशला द्विजाः।
सर्वकर्माणि चक्रुस्ते यथाशास्त्रं प्रचोदिताः ॥ 1.14.18 ॥
नाषडङ्गविदत्रासीन्नाव्रतो नाबहुश्रुतः।
सदस्यास्तस्य वै राज्ञो नावादकुशला द्विजाः ॥ 1.14.19 ॥
प्राप्ते यूपोच्छ्रये तस्मिन् षड्बैल्वाः खादिरास्तथा।
तावन्तो बिल्वसहिताः पर्णिनश्च तथाऽपरे ॥ 1.14.20 ॥
श्लेष्मातकमयस्त्वेको देवदारुमयस्तथा।
द्वावेव तत्र विहितौ बाहुव्यस्तपरिग्रहौ ॥ 1.14.21 ॥
कारिताः सर्व एवैते शास्त्रज्ञैर्यज्ञकोविदैः।
शोभार्थं तस्य यज्ञस्य काञ्चनालङ्कृता भवन् ॥ 1.14.22 ॥
एकविंशति यूपास्ते एकविंशत्यरत्नयः।
वासोभिरेकविंशद्भिरेकैकं समलङ्कृताः ॥ 1.14.23 ॥
विन्यस्ता विधिवत्सर्वे शिल्पिभिः सुकृता दृढाः।
अष्टाश्रयः सर्व एव श्लक्ष्णरूपसमन्विताः ॥ 1.14.24 ॥
आच्छादितास्ते वासोभिः पुष्पैर्गन्धैश्च पूजिताः।
सप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि ॥ 1.14.25 ॥
इष्टकाश्च यथान्यायं कारिताश्च प्रमाणतः।
चितोऽग्निर्ब्राह्मणैस्तत्र कुशलैः शुल्बकर्मणि ॥ 1.14.26 ॥
स चित्यो राजसिंहस्य सञ्चितः कुशलैर्द्विजैः।
गरुडो रुक्मपक्षो वै त्रिगुणोऽष्टादशात्मकः ॥ 1.14.27 ॥
नियुक्तास्तत्र पशवस्तत्तदुद्दिश्य दैवतम्।
उरगाः पक्षिणश्चैव यथाशास्त्रं प्रचोदिताः ॥ 1.14.28 ॥
शामित्रे तु हयस्तत्र तथा जलचराश्च ये।
ऋत्विग्भिः सर्वमेवैतन्नियुक्तं शास्त्रतस्तदा ॥ 1.14.29 ॥
पशूनां त्रिशतं तत्र यूपेषु नियतं तदा।
अश्वरत्नोत्तमं तत्र राज्ञो दशरथस्य च ॥ 1.14.30 ॥
कौसल्या तं हयं तत्र परिचर्य समन्ततः।
कृपाणैर्विशशासैनं त्रिभिः परमया मुदा ॥ 1.14.31 ॥
पतत्रिणा तदा सार्द्धं सुस्थितेन च चेतसा।
अवसद्रजनीमेकां कौसल्या धर्मकाम्यया ॥ 1.14.32 ॥
होताध्वर्युस्तथोद्गाता हस्तेन समयोजयन्।
महिष्या परिवृत्त्या च वावातामपरां तथा ॥ 1.14.33 ॥
पतत्रिणस्तस्य वपामुद्धृत्य नियतेन्द्रियः।
ऋत्विक् परमसम्पन्नः श्रपयामास शास्त्रतः ॥ 1.14.34 ॥
धूमगन्धं वपायास्तु जिघ्रति स्म नराधिपः।
यथाकालं यथान्यायं निर्णुदन् पापमात्मनः ॥ 1.14.35 ॥
हयस्य यानि चाङ्गानि तानि सर्वाणि ब्राह्मणाः।
अग्नौ प्रास्यन्ति विधिवत्समन्त्राः षोडशर्त्विजः ॥ 1.14.36 ॥
प्लक्षशाखासु यज्ञानामन्येषां क्रियते हविः।
अश्वमेधस्य यज्ञस्य वैतसो भाग इष्यते ॥ 1.14.37 ॥
चतुष्टोममहस्तस्य प्रथमं परिकल्पितम्।
उक्थ्यं द्वितीयं सङ्ख्यातमतिरात्रं तथोत्तरम् ॥ 1.14.38 ॥
कारितास्तत्र बहवो विहिताः शास्त्रदर्शनात् ॥ 1.14.39 ॥
ज्योतिष्टोमायुषी चैवमतिरात्रौ विनिर्मितौ।
अभिजिद्विश्वजिच्चैवमाप्तोर्यामो महाक्रतुः ॥ 1.14.40 ॥
प्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्द्धनः।
अध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम् ॥ 1.14.41 ॥
उद्गात्रे वै तथोदीचीं दक्षिणैषा विनिर्मिता।
हयमेधे महायज्ञे स्वयम्भूविहिते पुरा ॥ 1.14.42 ॥
क्रतुं समाप्य तु तथा न्यायतः पुरुषर्षभः।
ऋत्विग्भ्यो हि ददौ राजा धरां तां क्रतुवर्द्धनः ॥ 1.14.43 ॥
ऋत्विजश्चाब्रुवन् सर्वे राजानं गतकल्मषम्।
भवानेव महीं कृत्स्नामेको रक्षितुमर्हति ॥ 1.14.44 ॥
रताः स्वाध्यायकरणे वयं नित्यं हि भूमिप।
निष्क्रयं किञ्चिदेवेह प्रयच्छतु भवानिति ॥ 1.14.45 ॥
मणिरत्नं सुवर्णं वा गावो यद्वा समुद्यतम्।
तत्प्रयच्छ नरश्रेष्ठ धरण्या न प्रयोजनम् ॥ 1.14.46 ॥
एवमुक्तो नरपतिर्ब्राह्मणैर्वेदपारगैः।
गवां शतसहस्राणि दश तेभ्यो ददौ नृपः ॥ 1.14.47 ॥
दशकोटीस्सुवर्णस्य रजतस्य चतुर्गुणम् ॥ 1.14.48 ॥
ऋत्विजस्तु ततः सर्वे प्रददुः सहिता वसु।
ऋश्यशृङ्गाय मुनये वसिष्ठाय च धीमते ॥ 1.14.49 ॥
ततस्ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः।
सुप्रीतमनसस्सर्वे प्रत्यूचुर्मुदिता भृशम् ॥ 1.14.50 ॥
ततः प्रसर्पकेभ्यस्तु हिरण्यं सुसमाहितः।
जाम्बूनदं कोटिसङ्ख्यं ब्राह्मणेभ्यो ददौ तदा ॥ 1.14.51 ॥
दरिद्राय द्विजायाथ हस्ताभरणमुत्तमम्।
कस्मैचिद्याचमानाय ददौ राघवनन्दनः ॥ 1.14.52 ॥
ततः प्रीतेषु नृपतिर्द्विजेषु द्विजवत्सलः।
प्रणाममकरोत्तेषां हर्षपर्याकुलेक्षणः ॥ 1.14.53 ॥
तस्याशिषोऽथ विधिवद्ब्राह्मणैः समुदाहृताः।
उदारस्य नृवीरस्य धरण्यां प्रणतस्य च ॥ 1.14.54 ॥
ततः प्रीतमना राजा प्राप्य यज्ञमनुत्तमम्।
पापापहं स्वर्नयनं दुष्करं पार्थिवर्षभैः ॥ 1.14.55 ॥
ततोऽब्रवीदृश्यशृङ्गं राजा दशरथस्तदा।
कुलस्य वर्द्धनं त्वं तु कर्तुमर्हसि सुव्रत ॥ 1.14.56 ॥
तथेति च स राजानमुवाच द्विजसत्तमः।
भविष्यन्ति सुता राजंश्चत्वारस्ते कुलोद्वहाः ॥ 1.14.57 ॥