पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरोऽभवत्।
प्रसवार्थं गतो यष्टुं हयमेधेन वीर्यवान् ॥ 1.13.1 ॥
अब्रवीत्प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम्।
यज्ञो मे क्रियतां विप्र यथोक्तं मुनिपुङ्गव ॥ 1.13.2 ॥
यथा न विघ्नः क्रियते यज्ञाङ्गेषु विधीयताम् ॥ 1.13.3 ॥
भवान् स्निग्धः सुहृन्मह्यं गुरुश्च परमो महान्।
वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः ॥ 1.13.4 ॥
तथेति च स राजानमब्रवीद्द्विजसत्तमः।
करिष्ये सर्वमेवैतद्भवता यत्समर्थितम् ॥ 1.13.5 ॥
ततोऽब्रवीद्द्विजान् वृद्धान् यज्ञकर्मसु निष्ठितान्।
स्थापत्ये निष्ठितांश्चैव वृद्धान् परमधार्मिकान् ॥ 1.13.6 ॥
गणकान् शिल्पिनश्चैव तथैव नटनर्तकान्।
तथा शुचीन् शास्त्रविदः पुरुषान् सुबहुश्रुतान् ॥ 1.13.7 ॥
यज्ञकर्म समीहन्तां भवन्तो राजशासनात्।
इष्टका बहुसाहस्रीः शीघ्रमानीयतामिति ॥ 1.13.8 ॥
औपकार्याः क्रियन्तां च राज्ञां बहुगुणान्विताः।
ब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः ॥ 1.13.9 ॥
भक्ष्यान्नपानैर्बहुभिः समुपेताः सुनिष्ठिताः।
तथा पौरजनस्यापि कर्त्तव्या बहुविस्तराः ॥ 1.13.10 ॥
आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिताः।
तथा जानपदस्यापि जनस्य बहु शोभनम् ॥ 1.13.11 ॥
दातव्यमन्नं विधिवत् सत्कृत्य न तु लीलता।
सर्ववर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः ॥ 1.13.12 ॥
न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि।
यज्ञकर्मणि ये व्यग्राः पुरुषाः शिल्पिनस्तथा ॥ 1.13.13 ॥
तेषामपि विशेषेण पूजा कार्या यथाक्रमम्।
ते च स्युः सम्भृताः सर्वे वसुभिर्भोजनेन च ॥ 1.13.14 ॥
यथा सर्वं सुविहितं न किञ्चित् परिहीयते।
तथा भवन्तः कुर्वन्तु प्रीतिस्निग्धेन चेतसा ॥ 1.13.15 ॥
ततः सर्वे समागम्य वसिष्ठमिदमब्रुवन्।
यथोक्तं तत्सुविहितं न किञ्चित् परिहीयते ॥ 1.13.16 ॥
यथोक्तं तत्करिष्यामो न किञ्चित् परिहीयते।
ततः सुमन्त्रमानीय वसिष्ठो वाक्यमब्रवीत् ॥ 1.13.17 ॥
निमन्त्रयस्व नृपतीन् पृथिव्यां ये च धार्मिकाः ॥ 1.13.18 ॥
ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रांश्चैव सहस्रशः।
समानयस्व सत्कृत्य सर्वदेशेषु मानवान् ॥ 1.13.19 ॥
मिथिलाधिपतिं शूरं जनकं सत्यविक्रमम्।
निष्ठितं सर्वशास्त्रेषु तथा वेदेषु निष्ठितम् ॥ 1.13.20 ॥
तमानय महाभागं स्वयमेव सुसत्कृतम्।
पूर्वसम्बन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते ॥ 1.13.21 ॥
तथा काशीपतिं स्निग्धं सततं प्रियवादिनम्।
वयस्यं राजसिंहस्य स्वयमेवानयस्व ह ॥ 1.13.22 ॥
तथा केकयराजानं वृद्धं परमधार्मिकम्।
श्वशुरं राजसिंहस्य सपुत्रं त्वमिहानय ॥ 1.13.23 ॥
अङ्गेश्वरं महाभागं रोमपादं सुसत्कृतम्।
वयस्यं राजसिंहस्य समानय यशस्विनम् ॥ 1.13.24 ॥
प्राचीनान् सिन्धुसौवीरान् सौराष्ट्रेयांश्च पार्थिवान्।
दाक्षिणात्यान्नरेन्द्रांश्च समस्तानानयस्व ह ॥ 1.13.25 ॥
सन्ति स्निग्धाश्च ये चान्ये राजानः पृथिवीतले।
तानानय यथाक्षिप्रं सानुगान् सह बान्धवान् ॥ 1.13.26 ॥
वसिष्ठवाक्यं तच्छ्रुत्वा सुमन्त्रस्त्वरितस्तदा।
व्यादिशत्पुरुषांस्तत्र राज्ञामानयने शुभान् ॥ 1.13.27 ॥
स्वयमेव हि धर्मात्मा प्रययौ मुनिशासनात्।
सुमन्त्रस्त्वरितो भूत्वा समानेतुं महीक्षितः ॥ 1.13.28 ॥
सर्वं निवेदयन्ति स्म यज्ञे यदुपकल्पितम्।
ततः प्रीतो द्विजश्रेष्ठस्तान् सर्वान् पुनरब्रवीत् ॥ 1.13.29 ॥
अवज्ञया न दातव्यं कस्यचिल्लीलयापि वा।
अवज्ञया कृतं हन्याद्दातारं नात्र संशयः ॥ 1.13.30 ॥
ततः कैश्चिदहोरात्रैरुपयाता महीक्षितः।
बहूनि रत्नान्यादाय राज्ञो दशरथस्य हि ॥ 1.13.31 ॥
ततो वसिष्ठः सुप्रीतो राजानमिदमब्रवीत्।
उपयाता नरव्याघ्र राजानस्तव शासनात् ॥ 1.13.32 ॥
मया च सत्कृताः सर्वे यथार्हं राजसत्तमाः।
यज्ञियं च कृतं राजन् पुरुषैः सुसमाहितैः ॥ 1.13.33 ॥
निर्यातु च भवान् यष्टुं यज्ञायतनमन्तिकात्।
सर्वकामैरुपहृतैरुपेतं वै समन्ततः ॥ 1.13.34 ॥
द्रष्टुमर्हसि राजेन्द्र मनसेव विनिर्मितम् ॥ 1.13.35 ॥
तथा वसिष्ठवचनादृश्यशृङ्गस्य चोभयोः।
शुभे दिवसनक्षत्रे निर्यातो जगतीपतिः ॥ 1.13.36 ॥
ऋश्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस्तदा।
यज्ञवाटगताः सर्वे यथाशास्त्रं यथाविधि ॥ 1.13.37 ॥