ततः काले बहुतिथे कस्मिंश्चित्सुमनोहरे।
वसन्ते समनुप्राप्ते राज्ञो यष्टुं मनोऽभवत् ॥ 1.12.1 ॥
ततः प्रसाद्य शिरसा तं विप्रं देववर्णिनम्।
यज्ञाय वरयामास सन्तानार्थं कुलस्य वै ॥ 1.12.2 ॥
तथेति च स राजानमुवाच च सुसत्कृतः।
सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ॥ 1.12.3 ॥
ततो राजाब्रवीद्वाक्यं सुमन्त्रं मन्त्रिसत्तमम्।
सुमन्त्रावाहय क्षिप्रमृत्विजो ब्रह्मवादिनः ॥ 1.12.4 ॥
सुयज्ञं वामदेवं च जाबालिमथ काश्यपम्।
पुरोहितं वसिष्ठं च ये चाप्यन्ये द्विजातयः ॥ 1.12.5 ॥
ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः।
समानयत्स तान् सर्वान् समर्थान् वेदपारगान् ॥ 1.12.6 ॥
तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा।
धर्मार्थसहितं युक्तं श्लक्ष्णं वचनमब्रवीत् ॥ 1.12.7 ॥
मम लालप्यमानस्य पुत्रार्थं नास्ति वै सुखम्।
तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम ॥ 1.12.8 ॥
तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा।
ऋषिपुत्रप्रभावेन कामान् प्राप्स्यामि चाप्यहम् ॥ 1.12.9 ॥
ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन्।
वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखाच्च्युतम् ॥ 1.12.10 ॥
ऋश्यशृङ्गपुरोगाश्च प्रत्यूचुर्नृपतिं तदा।
सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ॥ 1.12.11 ॥
सर्वथा प्राप्स्यसे पुत्रांश्चतुरोऽमितविक्रमान्।
यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता ॥ 1.12.12 ॥
ततः प्रीतोऽभवद्राजा श्रुत्वा तु द्विजभाषितम्।
अमात्यांश्चाब्रवीद्राजा हर्षेणेदं शुभाक्षरम् ॥ 1.12.13 ॥
गुरूणां वचनाच्छीघ्रं सम्भाराः सम्भ्रियन्तु मे।
समर्थाधिष्ठितश्चाश्वस्सोपाध्यायो विमुच्यताम् ॥ 1.12.14 ॥
सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम्।
शान्तयश्चाभिवर्द्धन्तां यथाकल्पं यथाविधि ॥ 1.12.15 ॥
शक्यः कर्तुमयं यज्ञः सर्वेणापि महीक्षिता।
नापराधो भवेत्कष्टो यद्यस्मिन् क्रतुसत्तमे ॥ 1.12.16 ॥
छिद्रं हि मृगयन्तेऽत्र विद्वांसो ब्रह्मराक्षसाः।
विघ्नितस्य हि यज्ञस्य सद्यः कर्ता विनश्यति ॥ 1.12.17 ॥
तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते।
तथा विधानं क्रियतां समर्थाः करणेष्विह ॥ 1.12.18 ॥
तथेति च ततः सर्वे मन्त्रिणः प्रत्यपूजयन्।
पार्थिवेन्द्रस्य तद्वाक्यं यथाज्ञप्तमकुर्वत ॥ 1.12.19 ॥
ततो द्विजास्ते धर्मज्ञमस्तुवन् पार्थिवर्षभम्।
अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् ॥ 1.12.20 ॥
गतेष्वथ द्विजाग्र्येषु मन्त्रिणस्तान्नराधिपः।
विसर्ज्जयित्वा स्वं वेश्म प्रविवेश महाद्युतिः ॥ 1.12.21 ॥