०११ ऋष्यशृङ्गागमनम्

भूय एव च राजेन्द्र शृणु मे वचनं हितम्।
यथा स देवप्रवरः कथायामेवमब्रवीत् ॥ 1.11.1 ॥
इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः।
राजा दशरथो नाम श्रीमान् सत्यप्रतिश्रवः ॥ 1.11.2 ॥
अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति।
कन्या चास्य महाभागा शान्ता नाम भविष्यति ॥ 1.11.3 ॥
पुत्रस्त्वङ्गस्य राज्ञस्तु रोमपाद इति श्रुतः।
अङ्गराजं दशरथो गमिष्यति महायशाः ॥ 1.11.4 ॥
अनपत्योऽस्मि धर्मात्मन् शान्ताभर्ता मम क्रतुम्।
आहरेत त्वयाज्ञप्तः सन्तानार्थं कुलस्य च ॥ 1.11.5 ॥
श्रुत्वा राज्ञोऽथ तद्वाक्यं मनसा स विचिन्त्य च।
प्रदास्यते पुत्रवन्तं शान्ताभर्तारमात्मवान् ॥ 1.11.6 ॥
प्रतिगृह्य च त विप्रं स राजा विगतज्वरः।
आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना ॥ 1.11.7 ॥
तं च राजा दशरथो यष्टुकामः कृताञ्जलिः।
ऋश्यशृङ्गं द्विजश्रेष्ठं वरयिष्यति धर्मवित् ॥ 1.11.8 ॥
यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च जनेश्वरः।
लभते च स तं कामं विप्रमुख्याद्विशाम्पतिः ॥ 1.11.9 ॥
पुत्राश्चास्य भविष्यन्ति चत्वारोऽमितविक्रमाः।
वंशप्रतिष्ठानकराः सर्वलोकेषु विश्रुताः ॥ 1.11.10 ॥
एवं स देवप्रवरः पूर्वं कथितवान् कथाम्।
सनत्कुमारो भगवान् पुरा देवयुगे प्रभुः ॥ 1.11.11 ॥
स त्वं पुरुषशार्दूल तमानय सुसत्कृतम्।
स्वयमेव च राजेन्द्र गत्वा सबलवाहनः ॥ 1.11.12 ॥
[वसिष्ठेनाभ्यनुज्ञातो राजा सम्पूर्णमानसः।] सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजः ॥ 1.11.13 ॥
वनानि सरितश्चैव व्यतिक्रम्य शनैः शनैः।
अभिचक्राम तं देशं यत्र वै मुनिपुङ्गवः ॥ 1.11.14 ॥
आसाद्य तं द्विजश्रेष्ठं रोमपादसमीपगम्।
ऋषिपुत्रं ददर्शादौ दीप्यमानमिवानलम् ॥ 1.11.15 ॥
ततो राजा यथान्यायं पूजां चक्रे विशेषतः।
सखित्वात्तस्य वै राज्ञः प्रहृष्टेनान्तरात्मना ॥ 1.11.16 ॥
रोमपादेन चाख्यातमृषिपुत्राय धीमते।
सख्यं सम्बन्धकं चैव तदा तं प्रत्यपूजयत् ॥ 1.11.17 ॥
एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभः।
सप्ताष्टदिवसान् राजा राजानमिदमब्रवीत् ॥ 1.11.18 ॥
शान्ता तव सुता राजन् सह भर्त्रा विशाम्पते।
मदीयं नगरं यातु कार्यं हि महदुद्यतम् ॥ 1.11.19 ॥
तथेति राजा संश्रुत्य गमनं तस्य धीमतः।
उवाच वचनं विप्रं गच्छ त्वं सह भार्यया ॥ 1.11.20 ॥
ऋषिपुत्रः प्रतिश्रुत्य तथेत्याह नृपं तदा।
स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया ॥ 1.11.21 ॥
तावन्योन्याञ्जलिं कृत्वा स्नेहात्संश्लिष्य चोरसा।
ननन्दतुर्दशरथो रोमपादश्च वीर्यवान् ॥ 1.11.22 ॥
ततः सुहृदमापृच्छ्य प्रस्थितो रघुनन्दनः।
पौरेभ्यः प्रेषयामास दूतान् वै शीघ्रगामिनः ॥ 1.11.23 ॥
क्रियतां नगरं सर्वं क्षिप्रमेव स्वलङ्कृतम्।
धूपितं सिक्तसम्मृष्टं पताकाभिरलङ्कृतम् ॥ 1.11.24 ॥
ततः प्रहृष्टाः पौरास्ते श्रुत्वा राजानमागतम्।
तथा प्रचक्रुस्तत्सर्वं राज्ञा यत्प्रेषितं तदा ॥ 1.11.25 ॥
ततः स्वलङ्कृतं राजा नगरं प्रविवेश ह।
शङ्खदुन्दुभिर्निर्घोषैः पुरस्कृत्य द्विजर्षभम् ॥ 1.11.26 ॥
ततः प्रमुदिताः सर्वे दृष्ट्वा तं नागरा द्विजम्।
प्रवेश्यमानं सत्कृत्य नरेन्द्रेणेन्द्रकर्मणा ॥ 1.11.27 ॥
अन्तःपुरं प्रवेश्यैनं पूजां कृत्वा विधानतः।
कृतकृत्यं तदात्मानं मेने तस्योपवाहनात् ॥ 1.11.28 ॥
अन्तःपुरस्त्रियः सर्वाः शान्तां दृष्ट्वा तथागताम्।
सह भर्त्रा विशालाक्षीं प्रीत्यानन्दमुपागमन् ॥ 1.11.29 ॥
पूज्यमाना च ताभिः सा राज्ञा चैव विशेषतः।
उवास तत्र सुखिता कञ्चित्कालं सहर्त्विजा ॥ 1.11.30 ॥