०१० ऋष्यशृङ्गकथा

सुमन्त्रश्चोदितो राज्ञा प्रोवाचेदं वचस्तथा।
यथर्श्यशृङ्गस्त्वानीतः शृणु मे मन्त्रिभिः स ह ॥ 1.10.1 ॥
रोमपादमुवाचेदं सहामात्यपुरोहितः।
उपायो निरपायोऽयमस्माभिरभिचिन्तितः ॥ 1.10.2 ॥
ऋश्यशृङ्गो वनचरस्तपःस्वाध्यायने रतः।
अनभिज्ञः स नारीणां विषयाणां सुखस्य च ॥ 1.10.3 ॥
इन्द्रियार्थैरभिमतैर्नरचित्तप्रमाथिभिः।
पुरमानाययिष्यामः क्षिप्रं चाध्यवसीयताम् ॥ 1.10.4 ॥
गणिकास्तत्र गच्छन्तु रूपवत्यः स्वलङ्कृताः।
प्रलोभ्य विविधोपायैरानयिष्यन्ति सत्कृताः ॥ 1.10.5 ॥
पुरोहितो मन्त्रिणश्च तथा चक्रुश्च ते तदा।
वारमुख्यास्तु तच्छ्रुत्वा वनं प्रविविशुर्महत् ॥ 1.10.6 ॥
आश्रमस्याविदूरेऽस्मिन् यत्नं कुर्वन्ति दर्शने।
ऋषिपुत्रस्य धीरस्य नित्यमाश्रमवासिनः ॥ 1.10.7 ॥
पितुः स नित्यसन्तुष्टो नातिचक्राम चाश्रमात् ॥ 1.10.8 ॥
न तेन जन्मप्रभृति दृष्टपूर्वं तपस्विना।
स्त्री वा पुमान् वा यच्चान्यत्सर्वं नगरराष्ट्रजम् ॥ 1.10.9 ॥
ततः कदाचित्तं देशमाजगाम यदृच्छया।
विभण्डकसुतस्तत्र ताश्चापश्यद्वराङ्गनाः ॥ 1.10.10 ॥
ताश्चित्रवेषाः प्रमदा गायन्त्यो मधुरस्वरैः।
ऋषिपुत्रमुपागम्य सर्वा वचनमब्रुवन् ॥ 1.10.11 ॥
कस्त्वं किं वर्तसे ब्रह्मन् ज्ञातुमिच्छामहे वयम्।
एकस्त्वं विजने घोरे वने चरसि शंस नः ॥ 1.10.12 ॥
अदृष्टरूपास्तास्तेन काम्यरूपा वने स्त्रियः।
हार्दात्तस्य मतिर्जाता ह्याख्यातुं पितरं स्वकम् ॥ 1.10.13 ॥
पिता विभण्डकोऽस्माकं तस्याहं सुत औरसः।
ऋश्यशृङ्ग इति ख्यातं नाम कर्म च मे भुवि ॥ 1.10.14 ॥
इहाश्रमपदोऽस्माकं समीपे शुभदर्शनाः।
करिष्ये वोऽत्र पूजां वै सर्वेषां विधिपूर्वकम् ॥ 1.10.15 ॥
ऋषिपुत्रवचः श्रुत्वा सर्वासां मतिरास वै।
तदाश्रमपदं द्रष्टुं जग्मुः सर्वाश्च तेन ताः ॥ 1.10.16 ॥
आगतानां ततः पूजामृषिपुत्रश्चकार ह।
इदमर्घ्यमिदं पाद्यमिदं मूलमिदं फलम् ॥ 1.10.17 ॥
प्रतिगृह्य तु तां पूजां सर्वा एव समुत्सुकाः।
ऋषेर्भीतास्तु शीघ्रं ता गमनाय मतिं दधुः ॥ 1.10.18 ॥
अस्माकमपि मुख्यानि फलानीमानि वै द्विज।
गृहाण प्रति भद्रं ते भक्षयस्व च मा चिरम् ॥ 1.10.19 ॥
ततस्तास्तं समालिङ्ग्य सर्वा हर्षसमन्विताः।
मोदकान् प्रददुस्तस्मै भक्षांश्च विविधान् शुभान् ॥ 1.10.20 ॥
तानि चास्वाद्य तेजस्वी फलानीति स्म मन्यते।
अनास्वादितपूर्वाणि वने नित्यनिवासिनाम् ॥ 1.10.21 ॥
आपृच्छ्य तु तदा विप्रं व्रतचर्यां निवेद्य च।
गच्छन्ति स्मापदेशात्ताः भीतास्तस्य पितुः स्त्रियः ॥ 1.10.22 ॥
गतासु तासु सर्वासु काश्यपस्यात्मजो द्विजः।
अस्वस्थहृदयश्चासीद्दुःखं स्म परिवर्तते ॥ 1.10.23 ॥
ततोऽपरेद्युस्तं देशमाजगाम स वीर्यवान्।
मनोज्ञा यत्र ता दृष्टा वारमुख्याः स्वलङ्कृताः ॥ 1.10.24 ॥
दृष्टैव च तदा विप्रमायान्तं हृष्टमानसाः।
उपसृत्य ततः सर्वास्तास्तमूचुरिदं वचः ॥ 1.10.25 ॥
एह्याश्रमपदं सौम्य ह्यस्माकमिति चाब्रुवन्।
तत्राप्येष विधिः श्रीमान् विशेषेण भविष्यति ॥ 1.10.26 ॥
श्रुत्वा तु वचनं तासां सर्वासां हृदयङ्गमम्।
गमनाय मतिं चक्रे तं च निन्युस्तदा स्त्रियः ॥ 1.10.27 ॥
तत्र चानीयमाने तु विप्रे तस्मिन् महात्मनि।
ववर्ष सहसा देवो जगत्प्रह्लादयंस्तदा ॥ 1.10.28 ॥
हर्षेणैवागतं विप्रं विषयं स्वं नराधिपः।
प्रत्युद्गम्य मुनिं प्रह्वः शिरसा च महीं गतः ॥ 1.10.29 ॥
अर्घ्यं च प्रददौ तस्मै न्यायतः सुसमाहितः।
वव्रे प्रसादं विप्रेन्द्रान्मा विप्रं मन्युराविशत् ॥ 1.10.30 ॥
अन्तःपुरं प्रविश्यास्मै कन्यां दत्त्वा यथाविधि।
शान्तां शान्तेन मनसा राजा हर्षमवाप सः ॥ 1.10.31 ॥
एवं स न्यवसत्तत्र सर्वकामैः सुपूजितः ॥ 1.10.32 ॥