००९ राज-सूत-संवादः

एतच्छ्रुत्वा रहः सूतो राजानमिदमब्रवीत्।
ऋत्विग्भिरुपदिष्टोऽयं पुरावृत्तो मया श्रुतः ॥ 1.9.1 ॥
सनत्कुमारो भगवान् पूर्वं कथितवान् कथाम्।
ऋषीणां सन्निधौ राजन् तव पुत्रागमं प्रति ॥ 1.9.2 ॥
कश्यपस्य तु पुत्रोऽस्ति विभण्डक इति श्रुतः।
ऋश्यशृङ्ग इति ख्यातस्तस्य पुत्रो भविष्यति ॥ 1.9.3 ॥
स वने नित्यसंवृद्धो मुनिर्वनचरः सदा।
नान्यं जानाति विप्रेन्द्रो नित्यं पित्रनुवर्तनात् ॥ 1.9.4 ॥
द्वैविध्यं ब्रह्मचर्यस्य भविष्यति महात्मनः।
लोकेषु प्रथितं राजन् विप्रैश्च कथितं सदा ॥ 1.9.5 ॥
तस्यैवं वर्तमानस्य कालः समभिवर्तत।
अग्निं शुश्रूषमाणस्य पितरं च यशस्विनम् ॥ 1.9.6 ॥
एतस्मिन्नेव काले तु रोमपादः प्रतापवान्।
अङ्गेषु प्रथितो राजा भविष्यति महाबलः ॥ 1.9.7 ॥
तस्य व्यतिक्रमाद्राज्ञो भविष्यति सुदारुणा।
अनावृष्टिः सुघोरा वै सर्वभूतभयावहा ॥ 1.9.8 ॥
अनावृष्ट्यां तु वृत्तायां राजा दुःखसमन्वितः।
ब्राह्मणान् श्रुतवृद्धांश्च समानीय प्रवक्ष्यति ॥ 1.9.9 ॥
भवन्तः श्रुतधर्माणो लोकचारित्रवेदिनः।
समादिशन्तु नियमं प्रायश्चित्तं यथा भवेत् ॥ 1.9.10 ॥
वक्ष्यन्ति ते महीपालं ब्राह्मणा वेदपारगाः।
विभण्डकसुतं राजन् सर्वोपायैरिहानय ॥ 1.9.11 ॥
आनाय्य च महीपाल ऋश्यशृङ्गं सुसत्कृतम्।
प्रयच्छ कन्यां शान्तां वै विधिना सुसमाहितः ॥ 1.9.12 ॥
तेषां तु वचनं श्रुत्वा राजा चिन्तां प्रपत्स्यते।
केनोपायेन वै शक्यमिहानेतुं स वीर्यवान् ॥ 1.9.13 ॥
ततो राजा विनिश्चित्य सह मन्त्रिभिरात्मवान्।
पुरोहितममात्यांश्च ततः प्रेष्यति सत्कृतान् ॥ 1.9.14 ॥
ते तु राज्ञो वचः श्रुत्वा व्यथिता विनताननाः।
न गच्छेम ऋषेर्भीता अनुनेष्यन्ति तं नृपम् ॥ 1.9.15 ॥
वक्ष्यन्ति चिन्तयित्वा ते तस्योपायांश्च तत्क्षमान्।
आनेष्यामो वयं विप्रं न च दोषो भविष्यति ॥ 1.9.16 ॥
एवमङ्गाधिपेनैव गणिकाभिर्ऋषेः सुतः।
आनीतोऽवर्षयद्देवः शान्ता चास्मै प्रदीयते ॥ 1.9.17 ॥
ऋश्यशृङ्गस्तु जामाता पुत्रान् तव विधास्यति।
सनत्कुमारकथितमेतावद्व्याहृतं मया ॥ 1.9.18 ॥
अथ हृष्टो दशरथः सुमन्त्रं प्रत्यभाषत।
यथर्श्यशृङ्गस्त्वानीतो विस्तरेण त्वयोच्यताम् ॥ 1.9.19 ॥