तस्य त्वेवम्प्रभावस्य धर्मज्ञस्य महात्मनः।
सुतार्थं तप्यमानस्य नासीद्वंशकरः सुतः ॥ 1.8.1 ॥
चिन्तयानस्य तस्यैवं बुद्धिरासीन्महात्मनः।
सुतार्थी वाजिमेधेन किमर्थं न यजाम्यहम् ॥ 1.8.2 ॥
स निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान्।
मन्त्रिभिस्सह धर्मात्मा सर्वैरेव कृतात्मभिः ॥ 1.8.3 ॥
ततोऽब्रवीदिदं राजा सुमन्त्रं मन्त्रिसत्तमम्।
शीघ्रमानय मे सर्वान् गुरूंस्तान् सपुरोहितान् ॥ 1.8.4 ॥
ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः।
समानयत् स तान् सर्वान् समस्तान् वेदपारगान् ॥ 1.8.5 ॥
सुयज्ञं वामदेवं च जाबालिमथ काश्यपम्।
पुरोहितं वसिष्ठं च ये चान्ये द्विजसत्तमाः ॥ 1.8.6 ॥
तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा।
इदं धर्मार्थसहितं वाक्यं श्लक्ष्णमथाब्रवीत् ॥ 1.8.7 ॥
मम लालप्यमानस्य पुत्रार्थं नास्ति वै सुखम्।
तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम ॥ 1.8.8 ॥
तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा।
कथं प्राप्स्याम्यहं कामं बुद्धिरत्र विचार्यताम् ॥ 1.8.9 ॥
वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखाच्च्युतम्।
ऊचुश्च परमप्रीताः सर्वे दशरथं वचः ॥ 1.8.10 ॥
सम्भाराः सम्भ्रियन्तां ते तुरङ्गश्च विमुच्यताम् ॥ 1.8.11 ॥
सर्वथा प्राप्स्यसे पुत्रानभिप्रेतांश्च पार्थिव।
यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता ॥ 1.8.12 ॥
ततः प्रीतोऽभवद्राजा श्रुत्वैतद्द्विजभाषितम्।
अमात्यांश्चाब्रवीद्राजा हर्षपर्याकुलेक्षणः ॥ 1.8.13 ॥
सम्भाराः सम्भ्रियन्तां मे गुरूणां वचनादिह।
समर्थाधिष्ठितश्चाश्वस्सोपाध्यायो विमुच्यताम् ॥ 1.8.14 ॥
सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम्।
शान्तयश्चाभिवर्धन्तां यथाकल्पं यथाविधि ॥ 1.8.15 ॥
शक्यः प्राप्तुमयं यज्ञः सर्वेणापि महीक्षिता।
नापराधो भवेत्कष्टो यद्यस्मिन् क्रतुसत्तमे ॥ 1.8.16 ॥
छिद्रं हि मृगयन्तेऽत्र विद्वांसो ब्रह्मराक्षसाः।
निहतस्य च यज्ञस्य सद्यः कर्ता विनश्यति ॥ 1.8.17 ॥
तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते।
तथा विधानं क्रियतां समर्थाः करणेष्विह ॥ 1.8.18 ॥
तथेति चाब्रुवन् सर्वे मन्त्रिणः प्रत्यपूजयन्।
पार्थिवेन्द्रस्य तद्वाक्यं यथाज्ञप्तं निशम्य ते ॥ 1.8.19 ॥
तथा द्विजास्ते धर्मज्ञा वर्द्धयन्तो नृपोत्तमम्।
अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् ॥ 1.8.20 ॥
विसर्जयित्वा तान् विप्रान् सचिवानिदमब्रवीत्।
ऋत्विग्भिरुपदिष्टोऽयं यथावत् क्रतुराप्यताम् ॥ 1.8.21 ॥
इत्युक्त्वा नृपशार्दूलः सचिवान् समुपस्थितान्।
विसर्जयित्वा स्वं वेश्म प्रविवेश महाद्युतिः ॥ 1.8.22 ॥
ततः स गत्वा ताः पत्नीर्नरेन्द्रो हृदयप्रियाः।
उवाच दीक्षां विशत यक्ष्येऽहं सुतकारणात् ॥ 1.8.23 ॥
तासां तेनातिकान्तेन वचनेन सुवर्चसाम्।
मुखपद्मान्यशोभन्त पद्मानीव हिमात्यये ॥ 1.8.24 ॥