तस्यामात्या गुणैरासन्निक्ष्वाकोस्तु महात्मनः।
मन्त्रज्ञाश्चेङ्गितज्ञाश्च नित्यं प्रियहिते रताः ॥ 1.7.1 ॥
अष्टौ बभूवुर्वीरस्य तस्यामात्या यशस्विनः।
शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यशः ॥ 1.7.2 ॥
धृष्टिर्जयन्तो विजयः सिद्धार्थोह्यर्थसाधकः।
अशोको मन्त्रपालश्च सुमन्त्रश्चाष्टमोऽभवत् ॥ 1.7.3 ॥
ऋत्विजौ द्वावभिमतौ तस्यास्तामृषिसत्तमौ।
वसिष्ठो वामदेवश्च मन्त्रिणश्च तथाऽपरे ॥ 1.7.4 ॥
विद्याविनीता ह्रीमन्तः कुशला नियतेन्द्रियाः।
श्रीमन्तश्च महात्मानः शास्त्रज्ञा दृढविक्रमाः ॥ 1.7.5 ॥
तेजःक्षमायशःप्राप्ताः स्मितपूर्वाभिभाषिणः।
क्रोधात्कामार्थहेतोर्वा न ब्रूयुरनृतं वचः ॥ 1.7.6 ॥
तेषामविदितं किञ्चित् स्वेषु नास्ति परेषु वा।
क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम् ॥ 1.7.7 ॥
कुशला व्यवहारेषु सौहृदेषु परीक्षिताः।
प्राप्तकालं तु ते दण्डं धारयेयुः सुतेष्वपि ॥ 1.7.8 ॥
कोशसङ्ग्रहणे युक्ता बलस्य च परिग्रहे।
अहितं वापि पुरुषं न विहिंस्युरदूषकम् ॥ 1.7.9 ॥
वीराश्च नियतोत्साहा राजशास्त्रमनुष्ठिताः।
शुचीनां रक्षितारश्च नित्यं विषयवासिनाम् ॥ 1.7.10 ॥
ब्रह्मक्षत्रमहिंसन्तस्ते कोशं समपूरयन्।
सुतीक्ष्णदण्डाः सम्प्रेक्ष्य पुरुषस्य बलाबलम् ॥ 1.7.11 ॥
शुचीनामेकबुद्धीनां सर्वेषां सम्प्रजानताम्।
नासीत्पुरे वा राष्ट्रे वा मृषावादी नरः क्वचित् ॥ 1.7.12 ॥
कश्चिन्न दुष्टस्तत्रासीत् परदाररतो नरः।
प्रशान्तं सर्वमेवासीद्राष्ट्रं पुरवरं च तत् ॥ 1.7.13 ॥
सुवाससः सुवेषाश्च ते च सर्वे सुशीलिनः।
हितार्थं च नरेन्द्रस्य जाग्रतो नयचक्षुषा ॥ 1.7.14 ॥
गुरौ गुणगृहीताश्च प्रख्याताश्च पराक्रमे।
विदेशेष्वपि विज्ञाताः सर्वतो बुद्धिनिश्चयात् ॥ 1.7.15 ॥
सन्धिविग्रहतत्त्वज्ञाः प्रकृत्या सम्पदान्विताः।
मन्त्रसंवरणे शक्ताः श्लक्ष्णास्सूक्ष्मासु बुद्धिषु ॥ 1.7.16 ॥
नीतिशास्त्रविशेषज्ञाः सततं प्रियवादिनः ॥ 1.7.17 ॥
ईदृशैस्तैरमात्यैश्च राजा दशरथोऽनघः।
उपपन्नो गुणोपेतैरन्वशासद्वसुन्धराम् ॥ 1.7.18 ॥
अवेक्षमाणश्चारेण प्रजा धर्मेण रञ्जयन्।
प्रजानां पालनं कुर्वन्नधर्मं परिवर्जयन् ॥ 1.7.19 ॥
विश्रुतस्त्रिषु लोकेषु वदान्यः सत्यसङ्गरः।
स तत्र पुरुषव्याघ्रः शशास पृथिवीमिमाम् ॥ 1.7.20 ॥
मित्रवान्नतसामन्तः प्रतापहतकण्टकः।
स शशास जगद्राजा दिवं देवपतिर्यथा ॥ 1.7.21 ॥
तैर्मन्त्रिभिर्मन्त्रहिते नियुक्तैर्वृतोऽनुरक्तैः कुशलैः समर्थैः।
स पार्थिवो दीप्तिमवाप युक्तस्तेजोमयैर्गोभिरिवोदितोऽर्कः ॥ 1.7.22 ॥