००६ राजानुशासनम्

तस्यां पुर्यामयोध्यायां वेदवित्सर्वसङ्ग्रहः।
दीर्घदर्शी महातेजाः पौरजानपदप्रियः ॥ 1.6.1 ॥
इक्ष्वाकूणामतिरथो यज्वा धर्मरतो वशी।
महर्षिकल्पो राजर्षिस्त्रिषु लोकेषु विश्रुतः ॥ 1.6.2 ॥
बलवान्निहतामित्रो मित्रवान् विजितेन्द्रियः।
धनैश्च सङ्ग्रहैश्चान्यैः शक्रवैश्रवणोपमः ॥ 1.6.3 ॥
यथा मनुर्महातेजा लोकस्य परिरक्षिता।
तथा दशरथो राजा वसन् जगदपालयत् ॥ 1.6.4 ॥
तेन सत्याभिसन्धेन त्रिवर्गमनुतिष्ठता।
पालिता सा पुरी श्रेष्ठा इन्द्रेणेवामरावती ॥ 1.6.5 ॥
तस्मिन् पुरवरे हृष्टा धर्मात्मानो बहुश्रुताः।
नरास्तुष्टा धनैः स्वैः स्वैरलुब्धाः सत्यवादिनः ॥ 1.6.6 ॥
नाल्पसन्निचयः कश्चिदासीत्तस्मिन् पुरोत्तमे।
कुटुम्बी यो ह्यसिद्धार्थोऽगवाश्वधनधान्यवान् ॥ 1.6.7 ॥
कामी वा न कदर्यो वा नृशंसः पुरुषः क्वचित्।
द्रष्टुं शक्यमयोध्यायां नाविद्वान्न च नास्तिकः ॥ 1.6.8 ॥
सर्वे नराश्च नार्यश्च धर्मशीलाः सुसंयताः।
उदिताः शीलवृत्ताभ्यां महर्षय इवामलाः ॥ 1.6.9 ॥
नाकुण्डली नामकुटी नास्रग्वी नाल्पभोगवान्।
नामृष्टो नानुलिप्ताङ्गो नासुगन्धश्च विद्यते ॥ 1.6.10 ॥
नामृष्टभोजी नादाता नाप्यनङ्गदनिष्कधृक्।
नाहस्ताभरणो वापि दृश्यते नाप्यनात्मवान् ॥ 1.6.11 ॥
नानाहिताग्निर्नायज्वा न क्षुद्रो वा न तस्करः।
कश्चिदासीदयोध्यायां न च निर्वृत्तसङ्करः ॥ 1.6.12 ॥
स्वकर्मनिरता नित्यं ब्राह्मणा विजितेन्द्रियाः।
दानाध्ययनशीलाश्च संयताश्च प्रतिग्रहे ॥ 1.6.13 ॥
न नास्तिको नानृतको न कश्चिदबहुश्रुतः।
नासूयको न वाशक्तो नाविद्वान् विद्यते तदा ॥ 1.6.14 ॥
नाषडङ्गविदत्रासीन्नाव्रतो नासहस्रदः।
न दीनः क्षिप्तचित्तो वा व्यथितो वापि कश्चन ॥ 1.6.15 ॥
कश्चिन्नरो वा नारी वा नाश्रीमान्नाप्यरूपवान्।
द्रष्टुं शक्यमयोध्यायां नापि राजन्यभक्तिमान् ॥ 1.6.16 ॥
वर्णेष्वग्र्यचतुर्थेषु देवतातिथिपूजकाः।
कृतज्ञाश्च वदान्याश्च शूरा विक्रमसंयुताः ॥ 1.6.17 ॥
दीर्घायुषो नराः सर्वे धर्मं सत्यं च संश्रिताः।
सहिताः पुत्रपौत्रैश्च नित्यं स्त्रीभिः पुरोत्तमे ॥ 1.6.18 ॥
क्षत्रं ब्रह्ममुखं चासीद्वैश्याः क्षत्रमनुव्रताः।
शूद्राः स्वधर्मनिरतास्त्रीन्वर्णानुपचारिणः ॥ 1.6.19 ॥
सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षिता।
यथा पुरस्तान्मनुना मानवेन्द्रेण धीमता ॥ 1.6.20 ॥
योधानामग्निकल्पानां पेशलानाममर्षिणाम्।
सम्पूर्णा कृतविद्यानां गुहा केसरिणामिव ॥ 1.6.21 ॥
काम्भोजविषये जातैर्बाह्लीकैश्च हयोत्तमैः।
वनायुजैर्नदीजैश्च पूर्णा हरिहयोत्तमैः ॥ 1.6.22 ॥
विन्ध्यपर्वतजैर्मत्तैः पूर्णा हैमवतैरपि।
मदान्वितैरतिबलैर्मातङ्गैः पर्वतोपमैः ॥ 1.6.23 ॥
ऐरावतकुलीनैश्च महापद्मकुलैस्तथा।
अञ्जनादपि निष्पन्नैर्वामनादपि च द्विपैः ॥ 1.6.24 ॥
भद्रमन्द्रैर्भद्रमृगैर्मृगमन्द्रैश्च सा पुरी।
नित्यमत्तैः सदा पूर्णा नागैरचलसन्निभैः ॥ 1.6.25 ॥
सा योजने च द्वे भूयः सत्यनामा प्रकाशते।
यस्यां दशरथो राजा वसन् जगदपालयत् ॥ 1.6.26 ॥
तां पुरीं स महातेजा राजा दशरथो महान्।
शशास शमितामित्रो नक्षत्राणीव चन्द्रमाः ॥ 1.6.27 ॥
तां सत्यनामां दृढतोरणार्गलां गृहैर्विचित्रैरुपशोभितां शिवाम्।
पुरीमयोध्यां नृसहस्रसङ्कुलां शशास वै शक्रसमो महीपतिः ॥ 1.6.28 ॥