सर्वापूर्वमियं येषामासीत्कृत्स्ना वसुन्धरा।
प्रजापतिमुपादाय नृपाणां जयशालिनाम् ॥ 1.5.1 ॥
येषां स सगरो नाम सागरो येन खानितः।
षष्टिः पुत्रसहस्राणि यं यान्तं पर्यवारयन् ॥ 1.5.2 ॥
इक्ष्वाकूणामिदं तेषां राज्ञां वंशे महात्मनाम्।
महदुत्पन्नमाख्यानं रामायणमिति श्रुतम् ॥ 1.5.3 ॥
तदिदं वर्तयिष्यामि सर्वं निखिलमादितः।
धर्मकामार्थसहितं श्रोतव्यमनसूयया ॥ 1.5.4 ॥
कोसलो नाम मुदितः स्फीतो जनपदो महान्।
निविष्टः सरयूतीरे प्रभूतधनधान्यवान् ॥ 1.5.5 ॥
अयोध्या नाम नगरी तत्रासील्लोकविश्रुता।
मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् ॥ 1.5.6 ॥
आयता दश च द्वे च योजनानि महापुरी।
श्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा ॥ 1.5.7 ॥
राजमार्गेण महता सुविभक्तेन शोभिता।
मुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यशः ॥ 1.5.8 ॥
तां तु राजा दशरथो महाराष्ट्रविवर्द्धनः।
पुरीमावासयामास दिवं देवपतिर्यथा ॥ 1.5.9 ॥
कवाटतोरणवतीं सुविभक्तान्तरापणाम्।
सर्वयन्त्रायुधवतीमुपेतां सर्वशिल्पिभिः ॥ 1.5.10 ॥
सूतमागधसम्बाधां श्रीमतीमतुलप्रभाम्।
उच्चाट्टालध्वजवतीं शतघ्नीशतसङ्कुलाम् ॥ 1.5.11 ॥
वधूनाटकसङ्घैश्च संयुक्तां सर्वतः पुरीम्।
उद्यानाम्रवणोपेतां महतीं सालमेखलाम् ॥ 1.5.12 ॥
दुर्गगम्भीरपरिघां दुर्गामन्यैर्दुरासदाम्।
वाजिवारणसम्पूर्णां गोभिरुष्ट्रैः खरैस्तथा ॥ 1.5.13 ॥
सामन्तराजसङ्घैश्च बलिकर्मभिरावृताम्।
नानादेशनिवासैश्च वणिग्भिरुपशोभिताम् ॥ 1.5.14 ॥
प्रासादै रत्नविकृतैः पर्वतैरुपशोभिताम्।
कूटागारैश्च सम्पूर्णामिन्द्रस्येवामरावतीम् ॥ 1.5.15 ॥
चित्रामष्टापदाकारां वरनारीगणैर्युताम्।
सर्वरत्नसमाकीर्णां विमानगृहशोभिताम् ॥ 1.5.16 ॥
गृहगाढामविच्छिद्रां समभूमौ निवेशिताम्।
शालितण्डुलसम्पूर्णामिक्षुकाण्डरसोदकाम् ॥ 1.5.17 ॥
दुन्दुभीभिर्मृदङ्गैश्च वीणाभिः पणवैस्तथा।
नादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमाम् ॥ 1.5.18 ॥
विमानमिव सिद्धानां तपसाधिगतं दिवि।
सुनिवेशितवेश्मान्तां नरोत्तमसमावृताम् ॥ 1.5.19 ॥
ये च बाणैर्न विध्यन्ति विविक्तमपरापरम्।
शब्दवेध्यं च विततं लघुहस्ता विशारदाः ॥ 1.5.20 ॥
सिंहव्याघ्रवराहाणां मत्तानां नर्दतां वने।
हन्तारो निशितैः शस्त्रैर्बलाद्बाहुबलैरपि ॥ 1.5.21 ॥
तादृशानां सहस्रैस्तामभिपूर्णां महारथैः।
पुरीमावासयामास राजा दशरथस्तदा ॥ 1.5.22 ॥
तामग्निमद्भिर्गुणवद्भिरावृतां द्विजोत्तमैर्वेदषडङ्गपारगैः।
सहस्रदैः सत्यरतैर्महात्मभिर्महर्षिकल्पैर्ऋषिभिश्च केवलैः ॥ 1.5.23 ॥