००४ रामायणगानम्

प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानृषिः।
चकार चरितं कृत्स्नं विचित्रपदमात्मवान् ॥ 1.4.1 ॥
चतुर्विंशत्सहस्राणि श्लोकानामुक्तवानृषिः।
तथा सर्गशतान् पञ्च षट्काण्डानि तथोत्तरम् ॥ 1.4.2 ॥
कृत्वापि तन्महाप्राज्ञः सभविष्यं सहोत्तरम्।
चिन्तयामास को न्वेतत्प्रयुञ्जीयादिति प्रभुः ॥ 1.4.3 ॥
तस्य चिन्तयमानस्य महर्षेर्भावितात्मनः।
अगृह्णीतां ततः पादौ मुनिवेषौ कुशीलवौ ॥ 1.4.4 ॥
कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौ।
भ्रातरौ स्वरसम्पन्नौ ददर्शाश्रमवासिनौ ॥ 1.4.5 ॥
स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ।
वेदोपबृंहणार्थाय तावग्राहयत प्रभुः ॥ 1.4.6 ॥
काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत्।
पौलस्त्यवधमित्येव चकार चरितव्रतः ॥ 1.4.7 ॥
पाठ्ये गेये च मधुरं प्रमाणैस्त्रिभिरन्वितम्।
जातिभिः सप्तभिर्बद्धं तन्त्रीलयसमन्वितम् ॥ 1.4.8 ॥
रसैः शृङ्गारकारुण्यहास्यवीरभयानकैः।
रौद्रादिभिश्च संयुक्तं काव्यमेतदगायताम् ॥ 1.4.9 ॥
तौ तु गान्धर्वतत्त्वज्ञौ मूर्च्छनास्थानकोविदौ।
भ्रातरौ स्वरसम्पन्नौ गन्धर्वाविव रूपिणौ ॥ 1.4.10 ॥
रूपलक्षणसम्पन्नौ मधुरस्वरभाषिणौ।
बिम्बादिवोत्थितौ बिम्बौ रामदेहात्तथापरौ ॥ 1.4.11 ॥
तौ राजपुत्रौ कार्त्स्न्येन धर्म्यमाख्यानमुत्तमम्।
वाचोविधेयं तत्सर्वं कृत्वा काव्यमनिन्दितौ ॥ 1.4.12 ॥
यथोपदेशं तत्त्वज्ञौ जगतुस्तौ समाहितौ।
महात्मानौ महाभागौ सर्वलक्षणलक्षितौ ॥ 1.4.13 ॥
तौ कदाचित्समेतानामृषीणां भावितात्मनाम्।
आसीनानां समीपस्थाविदं काव्यमगायताम् ॥ 1.4.14 ॥
तच्छ्रुत्वा मुनयः सर्वे बाष्पपर्याकुलेक्षणाः।
साधु साध्विति तावूचुः परं विस्मयमागताः ॥ 1.4.15 ॥
ते प्रीतमनसः सर्वे मुनयो धर्मवत्सलाः।
प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशीलवौ ॥ 1.4.16 ॥
अहो गीतस्य माधुर्यं श्लोकानां च विशेषतः।
चिरनिर्वृत्तमप्येतत्प्रत्यक्षमिव दर्शितम् ॥ 1.4.17 ॥
प्रविश्य तावुभौ सुष्ठु तदा भावमगायताम्।
सहितौ मधुरं रक्तं सम्पन्नं स्वरसम्पदा ॥ 1.4.18 ॥
एवं प्रशस्यमानौ तौ तपःश्लाघ्यैर्महात्मभिः।
संरक्ततरमत्यर्थं मधुरं तावगायताम् ॥ 1.4.19 ॥
प्रीतः कश्चिन्मुनिस्ताभ्यां संस्थितः कलशं ददौ।
प्रसन्नो वल्कले कश्चिद्ददौ ताभ्यां महायशाः ॥ 1.4.20 ॥
आश्चर्यमिदमाख्यानं मुनिना सम्प्रकीर्तितम्।
परं कवीनामाधारं समाप्तं च यथाक्रमम् ॥ 1.4.21 ॥
अभिगीतमिदं गीतं सर्वगीतेषु कोविदौ।
आयुष्यं पुष्टिजनकं सर्वश्रुतिमनोहरम् ॥ 1.4.22 ॥
प्रशस्यमानौ सर्वत्र कदाचित्तत्र गायकौ।
रथ्यासु राजमार्गेषु ददर्श भरताग्रजः ॥ 1.4.23 ॥
स्ववेश्म चानीय ततो भ्रातरौ च कुशीलवौ।
पूजयामास पूजार्हौ रामः शत्रुनिबर्हणः ॥ 1.4.24 ॥
आसीनः काञ्चने दिव्ये स च सिंहासने प्रभुः।
उपोपविष्टः सचिवैर्भ्रातृभिश्च परन्तपः ॥ 1.4.25 ॥
दृष्ट्वा तु रूपसम्पन्नौ तावुभौ नियतस्तदा।
उवाच लक्ष्मणं रामः शत्रुघ्नं भरतं तथा ॥ 1.4.26 ॥
श्रूयतामिदमाख्यानमनयोर्देववर्चसोः।
विचित्रार्थपदं सम्यग्गायिनौ तावचोदयत् ॥ 1.4.27 ॥
तौ चापि मधुरं रक्तं स्वञ्चितायतनिःस्वनम्।
तन्त्रीलयवदत्यर्थं विश्रुतार्थमगायताम् ॥ 1.4.28 ॥
ह्लादयत् सर्वगात्राणि मनांसि हृदयानि च।
श्रोत्राश्रयसुखं गेयं तद्बभौ जनसंसदि ॥ 1.4.29 ॥
इमौ मुनी पार्थिवलक्षणान्वितौ कुशीलवौ चैव महातपस्विनौ।
ममापि तद् भूतिकरं प्रवक्ष्यते महानुभावं चरितं निबोधत ॥ 1.4.30 ॥
ततस्तु तौ रामवचः प्रचोदितावगायतां मार्गविधानसम्पदा।
स चापि रामः परिषद्गतः शनैर्बुभूषयासक्तमना बभूव ह ॥ 1.4.31 ॥