००३ सङ्क्षिप्तरामकथा

श्रुत्वा वस्तु समग्रं तद्धर्मात्मा धर्मसंहितम्।
व्यक्तमन्वेषते भूयो यद्वृत्तं तस्य धीमतः ॥ 1.3.1 ॥
उपस्पृश्योदकं सम्यङ्मुनिः स्थित्वा कृताञ्जलिः।
प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषत गतिम् ॥ 1.3.2 ॥
रामलक्ष्मणसीताभी राज्ञा दशरथेन च।
सभार्येण सराष्ट्रेण यत् प्राप्तं तत्र तत्त्वतः ॥ 1.3.3 ॥
हसितं भाषितं चैवं गतिर्या यच्च चेष्टितम्।
तत्सर्वं धर्मवीर्येण यथावत् सम्प्रपश्यति ॥ 1.3.4 ॥
स्त्रीतृतीयेन च तथा यत्प्राप्तं चरता वने।
सत्यसन्धेन रामेण तत्सर्वं चान्ववेक्षितम् ॥ 1.3.5 ॥
ततः पश्यति धर्मात्मा तत्सर्वं योगमास्थितः।
पुरा यत्तत्र निर्वृत्तं पाणावामलकं यथा ॥ 1.3.6 ॥
तत्सर्वं तत्त्वतो दृष्ट्वा धर्मेण स महाद्युतिः।
अभिरामस्य रामस्य चरितं कर्त्तुमुद्यतः ॥ 1.3.7 ॥
कामार्थगुणसंयुक्तं धर्मार्थगुणविस्तरम्।
समुद्रमिव रत्नाढ्यं सर्वश्रुतिमनोहरम् ॥ 1.3.8 ॥
स यथा कथितं पूर्वं नारदेन महर्षिणा।
रघुवंशस्य चरितं चकार भगवानृषिः ॥ 1.3.9 ॥
जन्म रामस्य सुमहद्वीर्यं सर्वानुकूलताम्।
लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम् ॥ 1.3.10 ॥
नानाचित्रकथाश्चान्या विश्वामित्रसमागमे।
जानक्याश्च विवाहं च धनुषश्च विभेदनम् ॥ 1.3.11 ॥
रामरामविवादं च गुणान् दाशरथेस्तथा।
तथाभिषेकं रामस्य कैकेय्या दुष्टभावताम् ॥ 1.3.12 ॥
विघातं चाभिषेकस्य रामस्य च विवासनम्।
राज्ञः शोकविलापं च परलोकस्य चाश्रयम् ॥ 1.3.13 ॥
प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम्।
निषादाधिपसंवादं सूतोपावर्तनं तथा ॥ 1.3.14 ॥
गङ्गायाश्चापि सन्तारं भरद्वाजस्य दर्शनम्।
भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम् ॥ 1.3.15 ॥
वास्तुकर्म विवेशं च भरतागमनं तथा।
प्रसादनं च रामस्य पितुश्च सलिलक्रियाम् ॥ 1.3.16 ॥
पादुकाग्र्याभिषेकं च नन्दिग्रामनिवासनम्।
दण्डकारण्यगमनं विराधस्य वधं तथा ॥ 1.3.17 ॥
दर्शनं शरभङ्गस्य सुतीक्ष्णेनाभिसङ्गमम्।
अनसूयासहास्यामप्यङ्गरागस्य चार्पणम् ॥ 1.3.18 ॥
अगस्त्यदर्शनं चैव शूर्पणख्याश्च दर्शनम्।
शूर्पणख्याश्च संवादं विरूपकरणं तथा ॥ 1.3.19 ॥
वधं खरत्रिशिरसोरुत्थानं रावणस्य च ॥ 1.3.20 ॥
मारीचस्य वधं चैव वैदेह्या हरणं तथा।
राघवस्य विलापं च गृध्रराजनिबर्हणम् ॥ 1.3.21 ॥
शबर्या दर्शनं चैव हनूमद्दर्शनं तथा।
विलापं चैव पम्पायां राघवस्य महात्मनः ॥ 1.3.22 ॥
ऋश्यमूकस्य गमनं सुग्रीवेण समागमम्।
प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम् ॥ 1.3.23 ॥
वालिप्रमथनं चैव सुग्रीवप्रतिपादनम्।
ताराविलापं समयं वर्षरात्रनिवासनम् ॥ 1.3.24 ॥
कोपं राघवसिंहस्य बलानामुपसङ्ग्रहम्।
दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनम् ॥ 1.3.25 ॥
अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम्।
प्रायोपवेशनं चैव सम्पातेश्चैव दर्शनम् ॥ 1.3.26 ॥
पर्वतारोहणं चैव सागरस्य च लङ्घनम्।
समुद्रवचनाच्चैव मैनाकस्य च दर्शनम् ॥ 1.3.27 ॥
सिंहिकायाश्च निधनं लङ्कामलयदर्शनम्।
रात्रौ लङ्काप्रवेशं च एकस्य च विचिन्तनम् ॥ 1.3.28 ॥
आपानभूमिगमनमवरोधस्य दर्शनम्।
दर्शनं रावणस्यापि पुष्पकस्य च दर्शनम् ॥ 1.3.29 ॥
अशोकवनिकायानं सीतायाश्चैव दर्शनम्।
अभिज्ञानप्रदानं च सीतायाश्चाभिभाषणम् ॥ 1.3.30 ॥
राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम्।
मणिप्रदानं सीताया वृक्षभङ्गं तथैव च ॥ 1.3.31 ॥
राक्षसीविद्रवं चैव किङ्कराणां निबर्हणम्।
ग्रहणं वायुसूनोश्च लङ्कादाहाभिगर्जनम् ॥ 1.3.32 ॥
प्रतिप्लवनमेवाथ मधूनां हरणं तथा।
राघवाश्वासनं चैव मणिनिर्यातनं तथा ॥ 1.3.33 ॥
सङ्गमं च समुद्रेण नलसेतोश्च बन्धनम्।
प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम् ॥ 1.3.34 ॥
विभीषणेन संसर्गं वधोपायनिवेदनम्।
कुम्भकर्णस्य निधनं मेघनादनिबर्हणम् ॥ 1.3.35 ॥
रावणस्य विनाशं च सीतावाप्तिमरेः पुरे।
विभीषणाभिषेकं च पुष्पकस्य च दर्शनम् ॥ 1.3.36 ॥
रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम्।
स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम् ॥ 1.3.37 ॥
अनागतं च यत्किञ्चिद्रामस्य वसुधातले।
तच्चकारोत्तरे काव्ये वाल्मीकिर्भगवानृषिः ॥ 1.3.38 ॥