नारदस्य तु तद्वाक्यं श्रुत्वा वाक्यविशारदः।
पूजयामास धर्मात्मा सहशिष्यो महामुनिः ॥ 1.2.1 ॥
यथावत्पूजितस्तेन देवर्षिर्नारदस्तदा।
आपृष्ट्वैवाभ्यनुज्ञातः स जगाम विहायसम् ॥ 1.2.2 ॥
स मुहूर्तं गते तस्मिन् देवलोकं मुनिस्तदा।
जगाम तमसातीरं जाह्नव्यास्त्वविदूरतः ॥ 1.2.3 ॥
स तु तीरं समासाद्य तमसाया मुनिस्तदा।
शिष्यमाह स्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम् ॥ 1.2.4 ॥
अकर्दममिदं तीर्थं भरद्वाज निशामय।
रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा ॥ 1.2.5 ॥
न्यस्यतां कलशस्तात दीयतां वल्कलं मम।
इदमेवावगाहिष्ये तमसातीर्थमुत्तमम् ॥ 1.2.6 ॥
एवमुक्ते भरद्वाजो वाल्मीकेन महात्मना।
प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरोः ॥ 1.2.7 ॥
स शिष्यहस्तादादाय वल्कलं नियतेन्द्रियः।
विचचार ह पश्यंस्तत्सर्वतो विपुलं वनम् ॥ 1.2.8 ॥
तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम्।
ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुनिःस्वनम् ॥ 1.2.9 ॥
तस्मात्तु मिथुनादेकं पुमांसं पापनिश्चयः।
जघान वैरनिलयो निषादस्तस्य पश्यतः ॥ 1.2.10 ॥
तं शोणितपरीताङ्गं वेष्टमानं महीतले।
भार्या तु निहतं दृष्ट्वा रुराव करुणां गिरम् ॥ 1.2.11 ॥
वियुक्ता पतिना तेन द्विजेन सहचारिणा।
ताम्रशीर्षेण मत्तेन पत्रिणा सहितेन वै ॥ 1.2.12 ॥
तथा तु तं द्विजं दृष्ट्वां निषादेन निपातितम्।
ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत ॥ 1.2.13 ॥
ततः करुणवेदित्वादधर्मोऽयमिति द्विजः।
निशाम्य रुदतीं क्रौञ्चीमिदं वचनमब्रवीत् ॥ 1.2.14 ॥
मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः।
यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥ 1.2.15 ॥
तस्यैवं ब्रुवतश्चिन्ता बभूव हृदि वीक्षतः।
शोकार्तेनास्य शकुनेः किमिदं व्याहृतं मया ॥ 1.2.16 ॥
चिन्तयन् स महाप्राज्ञश्चकार मतिमान् मतिम्।
शिष्यं चैवाब्रवीद्वाक्यमिदं स मुनिपुङ्गवः ॥ 1.2.17 ॥
पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वितः।
शोकार्त्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा ॥ 1.2.18 ॥
शिष्यस्तु तस्य ब्रुवतो मुनेर्वाक्यमनुत्तमम्।
प्रतिजग्राह संहृष्टस्तस्य तुष्टोऽभवद्गुरुः ॥ 1.2.19 ॥
सोऽभिषेकं ततः कृत्वा तीर्थे तस्मिन् यथाविधि।
तमेव चिन्तयन्नर्थमुपावर्तत वै मुनिः ॥ 1.2.20 ॥
भरद्वाजस्ततः शिष्यो विनीतः श्रुतवान् मुनेः।
कलशं पूर्णमादाय पृष्ठतोऽनुजगाम ह ॥ 1.2.21 ॥
स प्रविश्याश्रमपदं शिष्येण सह धर्मवित्।
उपविष्टः कथाश्चान्याश्चकार ध्यानमास्थितः ॥ 1.2.22 ॥
आजगाम ततो ब्रह्मा लोककर्त्ता स्वयं प्रभुः।
चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुङ्गवम् ॥ 1.2.23 ॥
वाल्मीकिरथ तं दृष्ट्वा सहसोत्थाय वाग्यतः।
प्राञ्जलिः प्रयतो भूत्वा तस्थौ परमविस्मितः ॥ 1.2.24 ॥
पूजयामास तं देवं पाद्यार्घ्यासनवन्दनैः।
प्रणम्य विधिवच्चैनं पृष्ट्वानामयमव्ययम् ॥ 1.2.25 ॥
वाल्मीकये महर्षये सन्दिदेशासनं ततः।
ब्रह्मणा समनुज्ञातः सोऽप्युपाविशदासने ॥ 1.2.26 ॥
उपविष्टे तदा तस्मिन् साक्षाल्लोकपितामहे।
तद्गतेनैव मनसा वाल्मीकिर्ध्यानमास्थितः ॥ 1.2.27 ॥
पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना।
यस्तादृशं चारुरवं क्रौञ्चं हन्यादकारणात् ॥ 1.2.28 ॥
शोचन्नेव मुहुः क्रौञ्चीमुपश्लोकमिमं पुनः।
जगावन्तर्गतमना भूत्वा शोकपरायणः ॥ 1.2.29 ॥
तमुवाच ततो ब्रह्मा प्रहसन् मुनिपुङ्गवम्।
श्लोक एव त्वया बद्धो नात्र कार्या विचारणा ॥ 1.2.30 ॥
मच्छन्दादेव ते ब्रह्मन् प्रवृत्तेयं सरस्वती।
रामस्य चरितं कृत्स्नं कुरु त्वमृषिसत्तम ॥ 1.2.31 ॥
धर्मात्मनो गुणवतो लोके रामस्य धीमतः।
वृत्तं कथय धीरस्य यथा ते नारदाच्छ्रुतम् ॥ 1.2.32 ॥
रहस्यं च प्रकाशं च यद्वृत्तं तस्य धीमतः।
रामस्य सहसौमित्रे राक्षसानां च सर्वशः ॥ 1.2.33 ॥
वैदेह्याश्चैव यद्वृत्तं प्रकाशं यदि वा रहः।
तच्चाप्यविदितं सर्वं विदितं ते भविष्यति ॥ 1.2.34 ॥
न ते वागनृता काव्ये काचिदत्र भविष्यति।
कुरु रामकथां पुण्यां श्लोकबद्धां मनोरमाम् ॥ 1.2.35 ॥
यावत्स्थास्यन्ति गिरयः सरितश्च महीतले।
तावद्रामायणकथा लोकेषु प्रचरिष्यति ॥ 1.2.36 ॥
यावद्रामायणकथा त्वत्कृता प्रचरिष्यति।
तावदूर्ध्वमधश्च त्वं मल्लोकेषु निवत्स्यसि ॥ 1.2.37 ॥
इत्युक्त्वा भगवान् ब्रह्मा तत्रैवान्तरधीयत।
ततः सशिष्यो वाल्मीकिर्मुनिर्विस्मयमाययौ ॥ 1.2.38 ॥
तस्य शिष्यास्ततः सर्वे जगुः श्लोकमिमं पुनः।
मुहुर्मुहुः प्रीयमाणाः प्राहुश्च भृशविस्मिताः ॥ 1.2.39 ॥
समाक्षरैश्चतुर्भिर्यः पादैर्गीतो महर्षिणा।
सोऽनुव्याहरणाद्भूयः श्लोकः श्लोकत्वमागतः ॥ 1.2.40 ॥
तस्य बुद्धिरियं जाता वाल्मीकेर्भावितात्मनः।
कृत्स्नं रामायणं काव्यमीदृशैः करवाण्यहम् ॥ 1.2.41 ॥
उदारवृत्तार्थपदैर्मनोरमैस्ततः स रामस्य चकार कीर्तिमान्।
समाक्षरैः श्लोकशतैर्यशस्विनो यशस्करं काव्यमुदारधीर्मुनिः ॥ 1.2.42 ॥
तदुपगतसमाससन्धियोगं सममधुरोपनतार्थवाक्यबद्धम्।
रघुवरचरितं मुनिप्रणीतं दशशिरसश्च वधं निशामयध्वम् ॥ 1.2.43 ॥