तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् ।
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥1.1.1॥
को न्वस्मिन् साम्प्रतं लोके गुणवान् कश्च वीर्यवान् ।
धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ॥1.1.2॥
चारित्रेण च को युक्तः सर्वभूतेषु को हितः ।
विद्वान् कः कः समर्थश्च कश्चैकप्रियदर्शनः ॥1.1.3॥
आत्मवान् को जितक्रोधो द्युतिमान् कोऽनसूयकः ।
कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ॥1.1.4॥
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ।
महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् ॥1.1.5॥
श्रुत्वा चैतत् त्रिलोकज्ञो वाल्मीकेर्नारदो वचः ।
श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् ॥1.1.6॥
बहवो दुर्ल्लभाश्चैव ये त्वया कीर्त्तिता गुणाः ।
मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नरः ॥1.1.7॥
इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः।
नियतात्मा महावीर्यो द्युतिमान् धृतिमान् वशी ॥ 1.1.8 ॥
बुद्धिमान्नीतिमान् वाग्ग्मी श्रीमान् शत्रुनिबर्हणः।
विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः ॥ 1.1.9 ॥
महोरस्को महेष्वासो गूढजत्रुररिन्दमः।
आजानुबाहुः सुशिराः सुललाटः सुविक्रमः ॥ 1.1.10 ॥
समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान्।
पीनवक्षा विशालाक्षो लक्ष्मीवान् शुभलक्षणः ॥ 1.1.11 ॥
धर्मज्ञः सत्ययसन्धश्च प्रजानां च हिते रतः ।
यशस्वी ज्ञानसम्पन्नः शुचिर्वश्यः समाधिमान् ।
प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः ॥ 1.1.12 ॥
रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता।
रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ॥ 1.1.13 ॥
वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः।
सर्वशास्त्रार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान् ॥ 1.1.14 ॥
सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः।
सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः ॥ 1.1.15 ॥
आर्यः सर्वसमश्चैव सदैकप्रियदर्शनः।
स च सर्वगुणोपेतः कौसल्यानन्दवर्द्धनः ॥ 1.1.16 ॥
समुद्र इव गाम्भीर्य्ये धैर्येण हिमवानिव।
विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः ॥ 1.1.17 ॥
कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः।
धनदेन समस्त्यागे सत्ये धर्म इवापरः ॥ 1.1.18 ॥
तमेवङ्गुणसम्पन्नं रामं सत्यपराक्रमम्।
ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथः सुतम् ॥ 1.1.19 ॥
प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया।
यौवराज्येन संयोक्तुमैच्छत्प्रीत्या महीपतिः ॥ 1.1.20 ॥
तस्याभिषेकसम्भारान् दृष्ट्वा भार्याऽथ कैकयी ।
पूर्वं दत्तवरा देवी वरमेनमयाचत।
विवासनं च रामस्य भरतस्याभिषेचनम् ॥ 1.1.21 ॥
स सत्यवचनाद्राजा धर्मपाशेन संयतः।
विवासयामास सुतं रामं दशरथः प्रियम् ॥ 1.1.22 ॥
स जगाम वनं वीरः प्रतिज्ञामनुपालयन्।
पितुर्वचननिर्देशात् कैकेय्याः प्रियकारणात् ॥ 1.1.23 ॥
तं व्रजन्तं प्रिये भ्राता लक्ष्मणोऽनुजगाम ह ।
स्नेहाद्विनयसम्पन्नः सुमित्रानन्दवर्द्धनः ।
भ्रातरं दयितो भ्रातुः सौभ्रात्रमनुदर्शयन् ॥1.1.24॥
रामस्य दयिता भार्या नित्यं प्राणसमा हिता।
जनकस्य कुले जाता देवमायेव निर्मिता ॥ 1.1.25 ॥
सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः।
सीताप्यनुगता रामं शशिनं रोहिणी यथा ॥ 1.1.26 ॥
पौरैरनुगतो दूरं पित्रा दशरथेन च ।
शृङ्गिबेरपुरे सूतं गङ्गाकूले व्यसर्ज्जयत्।
गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ॥ 1.1.27 ॥
गुहेन सहितो रामो लक्ष्मणेन च सीतया ॥ 1.1.28 ॥
ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः।
चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् ॥ 1.1.29 ॥
रम्यमावसथं कृत्वा रममाणा वने त्रयः।
देवगन्धर्वसङ्काशास्तत्र ते न्यवसन् सुखम् ॥ 1.1.30 ॥
चित्रकूटं गते रामे पुत्रशोकातुरस्तथा।
राजा दशरथः स्वर्गं जगाम विलपन् सुतम् ॥ 1.1.31 ॥
मृते तु तस्मिन् भरतो वसिष्ठप्रमुखैर्द्विजैः।
नियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः ॥ 1.1.32 ॥
स जगाम वनं वीरो रामपादप्रसादकः ॥ 1.1.33 ॥
गत्वा तु सुमहात्मानं रामं सत्यपराक्रमम् ।
अयाचद्भ्रातरं राममार्यभावपुरस्कृतः ॥ 1.1.34 ॥
रामोऽपि परमोदारः सुमुखः सुमहायशाः।
न चैच्छत्पितुरादेशाद्राज्यं रामो महाबलः ॥ 1.1.35 ॥
पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः।
निवर्त्तयामास ततो भरतं भरताग्रजः ॥ 1.1.36 ॥
स काममनवाप्यैव रामपादावुपस्पृशन्।
नन्दिग्रामेऽकरोद्राज्यं रामागमनकाङ्क्षया ॥ 1.1.37 ॥
गते तु भरते श्रीमान् सत्यसन्धो जितेन्द्रियः ।
रामस्तु पुनरालक्ष्य नागरस्य जनस्य च।
तत्रागमनमेकाग्रो दण्डकान् प्रविवेश ह ॥ 1.1.38 ॥
प्रविश्य तु महारण्यं रामो राजीवलोचनः ।
विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह।
सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा ॥ 1.1.39 ॥
अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम्।
खड्गं च परमप्रीतस्तूणी चाक्षयसायकौ ॥ 1.1.40 ॥
वसतस्तस्य रामस्य वने वनचरैः सह।
ऋषयोऽभ्यागमन् सर्वे वधायासुररक्षसाम् ॥ 1.1.41 ॥
स तेषां प्रतिशुश्राव राक्षसानां तथा वने ॥ 1.1.42 ॥
प्रतिज्ञातश्च रामेण वधः संयति रक्षसाम्।
ऋषीणामग्निकल्पानां दण्डकारण्यवासिनाम् ॥ 1.1.43 ॥
तेन तत्रैव वसता जनस्थाननिवासिनी।
विरूपिता शूर्पणखा राक्षसी कामरूपिणी ॥ 1.1.44 ॥
ततः शूर्पणखावाक्यादुद्युक्तान् सर्लराक्षसान् ।
खरं त्रिशिरसं चैव दूषणं चैव राक्षसम्।
निजघान रणे रामस्तेषां चैव पदानुगान् ॥1.1.45 ॥
वने तस्मिन्निवसता जनस्थाननिवासिनाम्।
रक्षसां निहतान्यासन् सहस्राणि चतुर्दश ॥ 1.1.46 ॥
ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्च्छितः।
सहायं वरयामास मारीचं नाम राक्षसम् ॥ 1.1.47 ॥
वार्यमाणः सुबहुशो मारीचेन स रावणः।
न विरोधो बलवता क्षमो रावण तेन ते ॥ 1.1.48 ॥
अनादृत्य तु तद्वाक्यं रावणः कालचोदितः।
जगाम सहमारीचस्तस्याश्रमपदं तदा ॥ 1.1.49 ॥
तेन मायाविना दूरमपवाह्य नृपात्मजौ।
जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् ॥ 1.1.50 ॥
गृध्रं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम्।
राघवः शोकसन्तप्तो विललापाकुलेन्द्रियः ॥ 1.1.51 ॥
ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् ।
मार्गमाणो वने सीतां राक्षसं सन्ददर्श ह ।
कबन्धं नाम रूपेण विकृतं घोरदर्शनम् ॥1.1.52॥
तं निहत्य महाबाहुर्ददाह स्वर्गतश्च सः ॥ 1.1.53 ॥
स चास्य कथयामास शबरीं धर्मचारिणीम्।
श्रमणीं धर्मनिपुणामभिगच्छेति राघवम् ॥ 1.1.54 ॥
सोभ्यगच्छन्महातेजाः शबरीं शत्रुसूदनः।
शबर्या पूजितः सम्यग्रामो दशरथात्मजः ॥ 1.1.55 ॥
पम्पातीरे हनुमता सङ्गतो वानरेण ह ।
हनुमद्वचनाच्चैव सुग्रीवेण समागतः ॥1.1.56॥
सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः।
आदितस्तद्यथावृत्तं सीतायाश्च विशेषतः ॥ 1.1.57 ॥
सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानरः।
चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम् ॥ 1.1.58 ॥
ततो वानरराजेन वैरानुकथनं प्रति।
रामायावेदितं सर्वं प्रणयाद्दुःखितेन च ॥ 1.1.59 ॥
प्रतिज्ञातं च रामेण तदा वालिवधं प्रति।
वालिनश्च बलं तत्र कथयामास वानरः ॥ 1.1.60 ॥
सुग्रीवः शङ्कितश्चासीन्नित्यं वीर्येण राघवे ॥ 1.1.61 ॥
राघवप्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम्।
दर्शयामास सुग्रीवो महापर्वतसन्निभम् ॥ 1.1.62 ॥
उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्थि महाबलः।
पादाङ्गुष्ठेन चिक्षेप सम्पूर्णं दशयोजनम् ॥ 1.1.63 ॥
बिभेद च पुनस्सालान् सप्तैकेन महेषुणा ।
गिरिं रसातलं चैवं जनयन् प्रत्ययं तदा ॥ 1.1.64 ॥
ततः प्रीतमनास्तेन विश्वस्तः स महाकपिः।
किष्किन्धां रामसहितो जगाम च गुहां तदा ॥ 1.1.65 ॥
ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः।
तेन नादेन महता निर्जगाम हरीश्वरः ॥ 1.1.66 ॥
अनुमान्य तदा तारां सुग्रीवेण समागतः।
निजघान च तत्रैनं शरेणैकेन राघवः ॥ 1.1.67 ॥
ततः सुग्रीववचनाद्धत्वा वालिनमाहवे।
सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् ॥ 1.1.68 ॥
स च सर्वान् समानीय वानरान् वानरर्षभः।
दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् ॥ 1.1.69 ॥
ततो गृध्रस्य वचनात्सम्पातेर्हनुमान् बली।
शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् ॥ 1.1.70 ॥
तत्र लङ्कां समासाद्य पुरीं रावणपालिताम्।
ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम् ॥ 1.1.71 ॥
निवेदयित्वाभिज्ञानं प्रवृत्तिं च निवेद्य च।
समाश्वास्य च वैदेहीं मर्दयामास तोरणम् ॥ 1.1.72 ॥
पञ्च सेनाग्रगान् हत्वा सप्त मन्त्रिसुतानपि।
शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत् ॥ 1.1.73 ॥
अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद्वरात्।
मर्षयन् राक्षसान् वीरो यन्त्रिणस्तान् यदृच्छया ॥ 1.1.74 ॥
ततो दग्ध्वा पुरीं लङ्कामृते सीतां च मैथिलीम्।
रामाय प्रियमाख्यातुं पुनरायान्महाकपिः ॥ 1.1.75 ॥
सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम्।
न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः ॥ 1.1.76 ॥
ततः सुग्रीवसहितो गत्वा तीरं महोदधेः।
समुद्रं क्षोभयामास शरैरादित्यसन्निभैः ॥ 1.1.77 ॥
दर्शयामास चात्मानं समुद्रः सरितां पतिः।
समुद्रवचनाच्चैव नलं सेतुमकारयत् ॥ 1.1.78 ॥
तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे।
रामः सीतामनुप्राप्य परां व्रीडामुपागमत् ॥ 1.1.79 ॥
तामुवाच ततो रामः परुषं जनसंसदि।
अमृष्यमाणा सा सीता विवेश ज्वलनं सती ॥ 1.1.80 ॥
ततोऽग्निवचनात्सीतां ज्ञात्वा विगतकल्मषाम्।
बभौ रामः सम्प्रहृष्टः पूजितः सर्वदैवतैः ॥ 1.1.81 ॥
कर्मणा तेन महता त्रैलोक्यं सचराचरम्।
सदेवर्षिगणं तुष्टं राघवस्य महात्मनः ॥ 1.1.82 ॥
अभिषिच्य च लङ्कायां राक्षसेन्द्रं विभीषणम्।
कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह ॥ 1.1.83 ॥
देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान्।
अयोध्यां प्रस्थितो रामः पुष्पकेण सुहृद्वृतः ॥ 1.1.84 ॥
भरद्वाजाश्रमं गत्वा रामः सत्यपराक्रमः।
भरतस्यान्तिकं रामो हनूमन्तं व्यसर्जयत् ॥ 1.1.85 ॥
पुनराख्यायिकां जल्पन् सुग्रीवसहितस्तदा।
पुष्पकं तत्समारुह्य नन्दिग्रामं ययौ तदा ॥ 1.1.86 ॥
नन्दिग्रामे जटां हित्वा भ्रातृभिस्सहितोऽनघः।
रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान् ॥ 1.1.87 ॥
प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः।
निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जितः ॥ 1.1.88 ॥
न पुत्रमरणं किञ्चिद्द्रक्ष्यन्ति पुरुषाः क्वचित्।
नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः ॥ 1.1.89 ॥
न चाग्निजं भयं किञ्चिन्नाप्सु मज्जन्ति जन्तवः ।
न वातजं भयं किञ्चिन्नापि ज्वरकृतं तथा ।
न चापि क्षुद्भयं तत्र न तस्करभयं तथा ॥1.1.90॥
नगराणि च राष्ट्राणि धनधान्ययुतानि च।
नित्यं प्रमुदिताः सर्वे यथा कृतयुगे तथा ॥ 1.1.91 ॥
अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः ।
गवां कोट्ययुतं दत्त्वा विद्वद्भ्यो विधिपूर्वकम् ।
असङ्ख्येयं धनं दत्त्वा ब्राह्मणेभ्यो महायशाः ॥1.1.92॥
राजवंशाञ्छतगुणान् स्थापयिष्यति राघवः।
चातुर्वर्ण्यं च लोकेऽस्मिन् स्वेस्वे धर्मे नियोक्ष्यति ॥ 1.1.93 ॥
दशवर्षसहस्राणि दशवर्षशतानि च।
रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति ॥ 1.1.94 ॥
इदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम्।
यः पठेद्रामचरितं सर्वपापैः प्रमुच्यते ॥ 1.1.95 ॥
एतदाख्यानमायुष्यं पठन् रामायणं नरः।
सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते ॥ 1.1.96 ॥
पठन् द्विजो वागृषभत्वमीयात्स्यात् क्षत्रियो भूमिपतित्वमीयात्।
वणिग्जनः पण्यफलत्वमीयाज्जनश्च शूद्रोपि महत्त्वमीयात् ॥ 1.1.97 ॥