११० परम-पद-गतिः

विश्वास-प्रस्तुतिः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे दशोत्तरशततमः सर्गः

मूलम्

विषयाः

श्री-रामेण सकल-जनैः सह
स्व-लोक-गमनाय सरयू-गमनम् ॥ १ ॥
तथा तत्रागत–चतुर्-मुख-प्रार्थनया
वैष्णव-तेजः-प्रवेशनम् ॥ २॥
तथा स्वान्वागतानां जनानां
चतुर्-मुख–द्वारा सांतानिक-लोक-प्रापणम् ॥ ३ ॥
वानरादिभिश् च सह
सरय्वाम् अवगाहनेन
स्व-लोक-गमनम् ॥ ४ ॥

विश्वास-प्रस्तुतिः

अध्यर्धयोजनं गत्वा नदीं पश्चान्मुखाश्रिताम् ।
सरयूं पुण्यसलिलां ददर्श रघुनन्दनः ॥ १ ॥
तां नदीमाकुलावर्तां सर्वत्रानुसरन्नृपः ।
आगतः सप्रजो रामस्तं देशं रघुनन्दनः ॥ २ ॥
अथ तस्मिन्मुहूर्ते तु ब्रह्मा लोकपितामहः ।
सर्वैः परिवृतो देवैर्ऋषिभिश्च महात्मभिः ॥ ३ ॥
आययौ यत्र काकुत्स्थः स्वर्गाय समुपस्थितः ।
विमानशतकोटीभिर्दिव्याभिरभिसंवृतः ॥ ४ ॥

व्याख्या

अर्धाधिकं योजनमध्यर्धयोजनं । पश्चान्मुखाश्रितां पश्चान्मुखेन स्वेनाश्रिताम् ॥ १-४ ॥

विश्वास-प्रस्तुतिः

दिव्यतेजोवृतं व्योम ज्योतिर्भूतमनुत्तमम् ।
स्वयंप्रभैः स्वतेजोभिः स्वर्गिभिः पुण्यकर्मभिः ॥ ५ ॥

मूलम्

दिव्यतेजोवृतं व्योम ज्योतिर्भूतमनुत्तमम् ।
स्वयंप्रभैः स्वतेजोभिः स्वर्गिभिः पुण्यकर्मभिः ॥ ५ ॥

व्याख्या

स्वयंप्रभैः स्नेहं विना स्वयमेव प्रकाशमानैः ॥ ५ ॥

विश्वास-प्रस्तुतिः

पुण्या वाता ववुश्चैव गन्धवन्तः सुखप्रदाः ।
पपात पुष्पवृष्टिश्च देवैर्मुक्ता महौघवत् ॥ ६ ॥

मूलम्

पुण्या वाता ववुश्चैव गन्धवन्तः सुखप्रदाः ।
पपात पुष्पवृष्टिश्च देवैर्मुक्ता महौघवत् ॥ ६ ॥

व्याख्या

महौघवत् महासमृद्धार्था ॥ ६ ॥

विश्वास-प्रस्तुतिः

तस्मिंस्तूर्यशतैः कीर्णे गन्धर्वाप्सरसंकुले ।
सरयूसलिलं रामः पद्भ्यां समुपचक्रमे ॥ ७ ॥

मूलम्

तस्मिंस्तूर्यशतैः कीर्णे गन्धर्वाप्सरसंकुले ।
सरयूसलिलं रामः पद्भ्यां समुपचक्रमे ॥ ७ ॥

व्याख्या

गन्धर्वाप्सरसंकुले गन्धर्वाप्सरः-संकुले । पद्भ्यां समुपचक्रमे गन्तुमिति शेषः ॥ ७ ॥

विश्वास-प्रस्तुतिः

ततः पितामहो वाणिमन्तरिक्षादभाषत ।
आगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तोसि राघव ॥ ८ ॥

मूलम्

ततः पितामहो वाणिमन्तरिक्षादभाषत ।
आगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तोसि राघव ॥ ८ ॥

व्याख्या

अन्तरिक्षादभ्याशमागत्याभाषतेत्यर्थः ॥ ८ ॥

विश्वास-प्रस्तुतिः

भ्रातृभिः सह देवाभैः प्रविशस्व स्विकां तनुम् ।
यामिच्छसि महाबाहो तां तनुं प्रविश स्विकाम् ।
वैष्णवीं तां महातेजस्तद्वाऽऽकाशं सनातनम् ॥ ९ ॥

स्विकां तनुमिति । त्वं विष्णुतनुं लक्ष्मणः शेषतनुं भरतो गरुडतनुं शत्रुघ्नो विष्वक्सेनतनुमित्यर्थः । तद्वाऽऽकाशं सनातनं । ऋचो अक्षरे परमे व्योमन् इति श्रुत्युक्तपरमाकाशं विष्ण्ववतारकुलस्थानं वैकुण्ठं वा प्रविशेत्यर्थः ॥ ९ ॥

विश्वास-प्रस्तुतिः

त्वं हि लोकगतिर्देव न त्वां केचित्प्रजानते ।
ऋते मायां विशालाक्षीं तव पूर्वपरिग्रहाम् ॥
त्वामचिन्त्यं महद्भूतमक्षयं सर्वसंग्रहम् ॥ १० ॥
यामिच्छसि महातेजस्तां तनुं प्रविश स्वयम् ॥ ११ ॥
पितामहवचः श्रुत्वा विनिश्चित्य महामतिः ।
विवेश वैष्णवं तेजः सशरीरः सहानुजः ॥ १२ ॥
ततो विष्णुमयं देवं पूजयन्ति स्म देवताः ।
साध्या मरुद्गणाश्चैव सेन्द्राः साग्निपुरोगमाः ॥ १३ ॥
ये च दिव्या ऋषिगणा गन्धर्वाप्सरसश्च याः ।
सुपर्णनागयक्षाश्च दैत्यदानवराक्षसाः ॥ १४ ॥
सर्वं पुष्टं प्रमुदितं सुसंपूर्णमनोरथम् ।
साधु साध्विति तैर्देवैस्त्रिदिवं गतकल्मषम् ॥ १५ ॥

अनन्तरोक्तपक्षं विवृणोति – त्वं हीत्यादिना । मायां लक्ष्मीं । पूर्वपरिग्रहां अनादितया परिगृह्यमाणां । नित्यानपायिनीमित्यर्थः । सर्वसंग्रहं सर्वानुग्राहकं । अक्षयं चाजरं तथेति च पाठः ॥ १०-१५ ॥

विश्वास-प्रस्तुतिः

अथ विष्णुर्महातेजाः पितामहमुवाच ह ।
एषां लोकं जनौघानां दातुमर्हसि सुव्रत ॥ १६ ॥

मूलम्

अथ विष्णुर्महातेजाः पितामहमुवाच ह ।
एषां लोकं जनौघानां दातुमर्हसि सुव्रत ॥ १६ ॥

व्याख्या

विष्णुः विष्णुत्वं प्राप्तः रामः । लोकं दातुमर्हसि । आतिवाहिकतया दातुमर्हसीत्यर्थः ॥ १६ ॥

विश्वास-प्रस्तुतिः

इमे हि सर्वे स्नेहान्मामनुयाता मनस्विनः ।
भक्ता हि भजितव्याश्च त्यक्तात्मानश्च मत्कृते ॥ १७ ॥

मूलम्

इमे हि सर्वे स्नेहान्मामनुयाता मनस्विनः ।
भक्ता हि भजितव्याश्च त्यक्तात्मानश्च मत्कृते ॥ १७ ॥

व्याख्या

कथं ब्रह्मविद्यारहितानामेषां ब्रह्मलोकप्राप्तिरित्यत्राह-इमे हीति ॥ भक्ताः भक्तिमन्तः मत्कृते त्यक्तात्मानश्च ॥ १७ ॥

विश्वास-प्रस्तुतिः

तच्छ्रुत्वा विष्णुवचनं ब्रह्मा लोकगुरुः प्रभुः ।
लोकान्सान्तानिकान्नाम यास्यन्तीमे समागताः ॥ १८ ॥

मूलम्

तच्छ्रुत्वा विष्णुवचनं ब्रह्मा लोकगुरुः प्रभुः ।
लोकान्सान्तानिकान्नाम यास्यन्तीमे समागताः ॥ १८ ॥

व्याख्या

सान्तानिकान् सान्तानिकाख्यान लोकान् संप्राप्ताः सन्तः यास्यन्ति । त्वल्लोकमिति शेषः ॥ १८ ॥

विश्वास-प्रस्तुतिः

यच्च तिर्यग्गतं किंचित्वामेवमनुचिन्तयत् ।
प्राणांस्त्यक्ष्यति भक्त्या वै तत्सन्ताने विवत्स्यति ॥ १९ ॥
सर्वैर्ब्रह्मगुणैर्युक्ते ब्रह्मलोकादनन्तरे ॥ २० ॥

न केवलमेत एव इतः परमपि ये रामभक्तास्तेपि विष्णुलोकं प्राप्नुवन्तीत्याह—यच्चेति ॥ ब्रह्मलोकादनन्तरे अव्यवहितोपरिदेशस्थे सर्वैर्गुणैर्युक्ते । एषु सर्वतः प्रतिष्ठेष्वनुत्तमेषूत्तमेषु इति श्रुतेः । सर्वगुणैर्नित्ययुक्ते सान्तानिके निवत्स्यतीत्यनुकर्षः ॥ १९-२० ॥

विश्वास-प्रस्तुतिः

वानराश्च स्विकां योनिमृक्षाश्चैव तथा ययुः ।
येभ्यो विनिःसृताः सर्वे सुरेभ्यः सुरसंभवाः ॥ २१ ॥
तेषु प्रविविशे चैव सुग्रीवः सूर्यमण्डलम् ।
पश्यतां सर्वदेवानां स्वान्पितृन्प्रतिपेदिरे ॥ २२ ॥

वानराणां तु आधिकारिकदेवांशत्वात्तत्तद्देवशरीरप्रवेश एवेत्याह-वानराश्चेत्यादिना ॥ २१-२२ ॥

विश्वास-प्रस्तुतिः

तथोक्तवति देवेशे गोप्रतारमुपागताः ।
भेजिरे सरयूं सर्वे हर्षपूर्णाश्रुविक्लबाः ॥ २३ ॥
अवगाह्य जलं यो यः प्राणी ह्यासीत्प्रहृष्टवत् ।
मानुषं देहमृत्सृज्य विमानं सोध्यरोहत ॥ २४ ॥
तिर्यग्योनिगतानां च शतानि सरयूजलम् ।
संप्राप्य त्रिदिवं जग्मुः प्रभासुरवपूंषि च ।
दिव्या दिव्येन वपुषा देवा दीप्ता इवाभवन् २५ ॥

गोप्रतारं गोप्रताराख्यं तीर्थं । हर्षपूर्णाश्रुविक्लबाः आनन्दाश्रुपूर्णतया विक्लबदृष्टयः ॥ २३-२५ ॥

विश्वास-प्रस्तुतिः

गत्वा तु सरयूतोयं स्थावराणि चराणि च ।
प्राप्य तत्तोयविक्लेदं देवलोकमुपागमन् ॥ २६ ॥
तस्मिन्नपि समापन्ना ऋक्षवानरराक्षसाः ।
तेऽपि स्वर्गं प्रविविशुर्देहान्निक्षिप्य चाम्भसि ॥ २७ ॥

तत्तोयविक्लेदं तत्तोयसेचनम् ॥ २६-२७ ॥

विश्वास-प्रस्तुतिः

ततः समागतान्सर्वान्स्थाप्य लोकगुरुर्दिवि ।
जगाम त्रिदशैः सार्धं सदा हृष्टैर्दिवं महत् ॥ २८ ॥

मूलम्

ततः समागतान्सर्वान्स्थाप्य लोकगुरुर्दिवि ।
जगाम त्रिदशैः सार्धं सदा हृष्टैर्दिवं महत् ॥ २८ ॥

व्याख्या

दिवं परमाकाशं वैकुण्ठं । त्रिदशैर्नित्यसूरिभिः सदा हृष्टैरिति विशेषणात् । हृष्टैः प्रमुदितो देवैर्जगाम त्रिदिवं महदिति च पाठः ॥ २८ ॥

विश्वास-प्रस्तुतिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे दशोत्तरशततमः सर्गः ॥ ११० ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने दशोत्तरशतमः सर्गः ॥ ११० ॥