विश्वास-प्रस्तुतिः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे नवोत्तरशततमः सर्गः
मूलम्
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे नवोत्तरशततमः सर्गः
विषयाः
प्रभाते श्री-रामेण
वसिष्ठेन माहा-प्रास्थानिक-विधि-विधापन-पूर्वकं
विमल-सूक्ष्माम्बर-धारिणा कुश-पाणिना
श्री-भू–देवी-विभूषित-पार्श्व-युगेन
पुरुष-वेष-धारिभिर् वेदायुधाद्य्-अभिमानि-देवैः
ऋष्य्-आदिभिश् चानुगम्यमानेन च सता
नियमात् पाद-चारेण
निज–परम-पद-जिगमिषया
निज-गृहान् निर्गमनम् ॥ १ ॥
रामस्य महा-प्रस्थान-समये
स-स्त्री-बाल-वृद्धैः सकल-जनैः
ख-ग–मृग–नग-तृणादि-प्राणिगणैर् अपि
परम-पद-जिगमिषया हर्षात् तद्-अनुसरणम् ॥ २ ॥
विश्वास-प्रस्तुतिः
प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः ।
रामः कमलपत्राक्षः पुरोधसमथाब्रवीत् ॥ १ ॥
अग्निहोत्रं व्रजत्वग्रे दीप्यमानं सह द्विजैः ।
वाजपेयातपत्रं च शोभमानं महापथे ॥ २ ॥
मूलम्
प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः ।
रामः कमलपत्राक्षः पुरोधसमथाब्रवीत् ॥ १ ॥
अग्निहोत्रं व्रजत्वग्रे दीप्यमानं सह द्विजैः ।
वाजपेयातपत्रं च शोभमानं महापथे ॥ २ ॥
व्याख्या
वाजपेयातपत्रं चेति । तस्य धर्मानुष्ठानबलप्राप्तत्वाद्राजचिह्नस्य संन्यस्तत्वाच्च सीतायाः पत्न्याः स्थितत्वादग्नेरपि स्थितिरिति पूर्वमेवोक्तम् ॥ २ ॥
विश्वास-प्रस्तुतिः
ततो वसिष्ठस्तेजस्वी सर्वं निरवशेषतः ।
चकार विधिवद्धर्मं महाप्रास्थानिकं विधिम् ॥ ३ ॥
मूलम्
ततो वसिष्ठस्तेजस्वी सर्वं निरवशेषतः ।
चकार विधिवद्धर्मं महाप्रास्थानिकं विधिम् ॥ ३ ॥
व्याख्या
महाप्रस्थानमर्हतीति महाप्रास्थानिकम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
ततः सूक्ष्माम्बरधरो ब्रह्ममावर्तयन्परम् ।
कुशान्गृहीत्वा पाणिभ्यां प्रसज्य प्रययावथ ॥ ४ ॥
मूलम्
ततः सूक्ष्माम्बरधरो ब्रह्ममावर्तयन्परम् ।
कुशान्गृहीत्वा पाणिभ्यां प्रसज्य प्रययावथ ॥ ४ ॥
व्याख्या
परं ब्रह्ममावर्तयन्निति । अकारान्तत्वमार्षं । देवमन्त्रमित्यर्थः । प्रसज्य गृहीत्वेति । अङ्गुलीविवरप्रसक्तं कृत्वेत्यर्थः ॥ ४ ॥
विश्वास-प्रस्तुतिः
अव्याहरन्क्वचित्किंचिन्निश्चेष्टो निस्सुखः पथि ।
निर्जगाम गृहात्तस्माद्दीप्यमान इवांशुमान् ॥ ५ ॥
मूलम्
अव्याहरन्क्वचित्किंचिन्निश्चेष्टो निस्सुखः पथि ।
निर्जगाम गृहात्तस्माद्दीप्यमान इवांशुमान् ॥ ५ ॥
व्याख्या
निश्चेष्टः किंचित्पदार्थदर्शन श्रवणस्पर्शनादिविषयकेन्द्रियचेष्टारहित इत्यर्थः । निःसुखः पथि पादुकादिसुखमुपेक्ष्य शर्कराकण्टकबाधां सोढुमुद्युक्तः । निर्जगामेत्यर्थः ॥ ५ ॥
विश्वास-प्रस्तुतिः
रामस्य दक्षिणे पार्श्वे सपद्मा श्रीरूपाश्रिता ।
सव्ये तु ह्रीर्महादेवी व्यवसायस्तथाऽग्रतः ॥ ६ ॥
शरा नानाविधाश्चापि धनुरायतमुत्तमम् ।
तथाऽऽयुधानि ते सर्वे ययुः पुरुषविग्रहाः ॥ ७ ॥
वेदा ब्राह्मणरूपेण गायत्री सर्वरक्षिणी ।
ओङ्कारोथ वषट्कारः सर्वे राममनुव्रताः ॥ ८ ॥
ऋषयश्च महात्मानः सर्व एव महीसुराः ।
अन्वगच्छन्महात्मानं स्वर्गद्वारमपावृतम् ॥ ९ ॥

सपद्मा पद्महस्ता ॥ ६-९ ॥
विश्वास-प्रस्तुतिः
तं यान्तमनुगच्छन्ति ह्यन्तःपुरचराः स्त्रियः ।
सवृद्धबालदासीकाः सवर्षवरकिङ्कराः ॥ १० ॥
सान्तः पुरश्च भरतः शत्रुघ्नसहितो ययौ ।
रामं गतिमुपागम्य साग्निहोत्रमनुव्रतः ॥ ११ ॥
ते च सर्वे महात्मानः साग्निहोत्राः समागताः ।
सपुत्रदाराः काकुत्स्थमनुजग्मुर्महामतिम् ॥ १२ ॥

नपुंसका वर्षवराः ॥ १०-१२ ॥
विश्वास-प्रस्तुतिः
मन्त्रिणो भृत्यवर्गाश्च सपुत्रपशुबान्धवाः ।
सर्वे सहानुगा राममन्वगच्छन्प्रहृष्टवत् ॥ १३ ॥
ततः सर्वाः प्रकृतयो हृष्टपुष्टजनावृताः ।
गच्छन्तमन्वगच्छंस्तं राघवं गुणरञ्जिताः ॥ १४ ॥
ततः सस्त्रीपुमांसस्ते सपक्षिपशुवाहनाः ।
राघवस्यानुगाः सर्वे हृष्टा विगतकल्मषाः ॥ १५ ॥

प्रहृष्टवत् देहविसर्जनसमये समीपावस्थानजःप्रहर्षः ॥ १३-१५ ॥
विश्वास-प्रस्तुतिः
स्नाताः प्रमुदिताः सर्वे हृष्टाः पुष्टाश्च वानराः ।
दृढं किलकिलाशब्दैः सर्वं राममनुव्रतम् ॥ १६ ॥
मूलम्
स्नाताः प्रमुदिताः सर्वे हृष्टाः पुष्टाश्च वानराः ।
दृढं किलकिलाशब्दैः सर्वं राममनुव्रतम् ॥ १६ ॥
व्याख्या
किलकिलाशब्दैरिति । उपलक्षितमिति शेषः । सर्व मिति । वानरबलमिति शेषः ॥ १६ ॥
विश्वास-प्रस्तुतिः
न तत्र कश्चिद्दीनो वा व्रीडितो वाऽपि दुःखितः ।
हृष्टं प्रमुदितं सर्वं बभूव परमाद्भुतम् ॥ १७ ॥
द्रष्टुकामोथ निर्यान्तं रामं जानपदो जनः ।
यः प्राप्तः सोपि दृष्ट्वैव स्वर्गायानुगतो मुदा ॥ १८ ॥
ऋक्षवानररक्षांसि जनाश्च पुरवासिनः ।
आगच्छन्परया भक्त्या पृष्ठतः सुसमाहिताः ॥ १९ ॥

ब्रीडित इति । भगवदपराधादिना । पूर्वकृतेनेतिशेषः ॥ १७-१९ ॥
विश्वास-प्रस्तुतिः
यानि भूतानि नगरेप्यन्तर्धानगतानि च ।
राघवं तान्यनुययुः स्वर्गाय समुपस्थितम् ॥ २० ॥
यानि पश्यन्ति काकुत्स्थं स्थावराणि चराणि च ।
सर्वाणि रामगमने ह्यनुजम्मुर्हितान्यपि ॥ २१ ॥
मूलम्
यानि भूतानि नगरेप्यन्तर्धानगतानि च ।
राघवं तान्यनुययुः स्वर्गाय समुपस्थितम् ॥ २० ॥
यानि पश्यन्ति काकुत्स्थं स्थावराणि चराणि च ।
सर्वाणि रामगमने ह्यनुजम्मुर्हितान्यपि ॥ २१ ॥
व्याख्या
स्वर्गाय ब्रह्मलोकगमनाय ॥ २०-२१ ॥
विश्वास-प्रस्तुतिः
नोच्छ्वसत्तदयोध्यायां सुसूक्ष्ममपि दृश्यते ।
तिर्यग्योनिगताश्चापि सर्वे राममनुव्रताः ॥ २२ ॥
मूलम्
नोच्छ्वसत्तदयोध्यायां सुसूक्ष्ममपि दृश्यते ।
तिर्यग्योनिगताश्चापि सर्वे राममनुव्रताः ॥ २२ ॥
व्याख्या
उच्छ्वसत् सप्राणमित्यर्थः । सुसूक्ष्ममपि न दृश्यते । अननुयातमितिशेषः ॥ २२ ॥
विश्वास-प्रस्तुतिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे नवोत्तरशततमः सर्गः ॥ १०९ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने नवोत्तरशततमः सर्गः ॥ १०९ ॥
मूलम्
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे नवोत्तरशततमः सर्गः ॥ १०९ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने नवोत्तरशततमः सर्गः ॥ १०९ ॥