विश्वास-प्रस्तुतिः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चोत्तरशततमः सर्गः
मूलम्

विषयाः
राम-रुद्र-संवाद-समये
राम-दर्शनार्थं दुर्वाससः समागमे
शाप-दान-भीत्या
रामे तद्-आगमन-निवेदनम् ॥ १ ॥
रुद्र-विसर्जन-पूर्वकं
स्व-दर्शनार्थम् आगतं रामं प्रति
दुर्वाससा बुभुक्षा-परिहाराय अन्न-याचने
तेन तस्मै तत्-काल-सिद्धान्न-दानम् ॥ २ ॥
प्रतिगते च दुर्वाससि
रामेण रुद्र-चोदनया
स्व-कृत-प्रतिज्ञा-स्मरणेन दुःखाधिगमः ॥ ३ ॥
विश्वास-प्रस्तुतिः
तथा तयोः संवदतोर्दुर्वासा भगवानृषिः ।
रामस्य दर्शनाकाङ्क्षी राजद्वारमुपागमत् ॥ १ ॥
सोभिगम्य तु सौमित्रिमुवाच ऋषिसत्तमः ।
रामं दर्शय मे शीघ्रं पुरा मेऽर्थोतिवर्तते ॥ २ ॥
मुनेस्तु भाषितं श्रुत्वा लक्ष्मणः परवीरहा ।
अभिवाद्य महात्मानं वाक्यमेतदुवाच ह ॥ ३ ॥

व्याख्या
पुरा मेर्थोतिवर्तत इति । यावन्मे प्रयोजनमतिक्रामति ततः पूर्वमेव रामं शीघ्रं दर्शयेत्यर्थः ॥ २-३ ॥
विश्वास-प्रस्तुतिः
किं कार्यं ब्रूहि भगवन्को वाऽर्थः किं करोम्यहम् ।
व्यग्रो हि राघवो ब्रह्मन्मुहूर्तं प्रतिपाल्यताम् ॥ ४ ॥
तच्छ्रुत्वा ऋषिशार्दूलः क्रोधेन कलुषीकृतः ।
उवाच लक्ष्मणं वाक्यं निर्दहन्निव चक्षुषा ॥ ५ ॥

किं कार्य किं कर्तव्यं को वार्थः किं प्रयोजनं अहमस्मिन् काले किं करोमि । वर्तमानसामीप्ये भविष्यति लट् । किं करिष्ये ॥ ४-५ ॥
विश्वास-प्रस्तुतिः
अस्मिन्क्षणे मां सौमित्रे रामाय प्रतिवेदय ।
अस्मिन्क्षणे मां सौमित्रे न निवेदयसे यदि ॥ ६ ॥
विषयं त्वां पुरं चैव शपिष्ये राघवं तथा ।
भरतं चैव सौमित्रे युष्माकं या च सन्ततिः ॥ ७ ॥
न हि शक्ष्याम्यहं भूयो मन्युं धारयितुं हृदि ।
तच्छ्रुत्वा घोरसङ्काशं वाक्यं तस्य महात्मनः ।
चिन्तयामास मनसा तस्य वाक्यस्य निश्चयम् ॥ ८ ॥
एकस्य मरणं मेऽस्तु मा भूत्सर्वविनाशनम् ।
इति बुद्ध्या विनिश्चित्य राघवाय न्यवेदयत् ॥ ९ ॥
लक्ष्मणस्य वचः श्रुत्वा रामः कालं विसृज्य च ।
निसृत्य त्वरितं राजा अत्रेः पुत्रं ददर्श ह ॥ १० ॥
सोभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ।
किं कार्यमिति काकुत्स्थः कृताञ्जलिरभाषत ॥ ११ ॥
तद्वाक्यं राघवेणोक्तं श्रुत्वा मुनिवरः प्रभुम् ।
प्रत्याह राम दुर्वासाः श्रूयतां धर्मवत्सल ॥ १२ ॥

मां राघवाय निवेदयेति । न निवेदयसि यदि तर्हि शपिष्य इति ॥ ६-१२ ॥
विश्वास-प्रस्तुतिः
अद्य वर्षसहस्रस्य समाप्तिस्तपसो मम ।
सोहं भोजनमिच्छामि यथासिद्धं तवानघ ॥ १३ ॥
मूलम्
अद्य वर्षसहस्रस्य समाप्तिस्तपसो मम ।
सोहं भोजनमिच्छामि यथासिद्धं तवानघ ॥ १३ ॥
व्याख्या
वर्षसहस्रस्येति । अनशननियमोपगृहीत वर्षसहस्रस्येत्यर्थः । यथासिद्धं यथोपपन्नम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
तच्छ्रुत्वा वचनं राजा राघवः प्रीतमानसः ।
भोजनं मुनिमुख्याय यथासिद्धमुपाहरत् ॥ १४ ॥
स तु भुक्त्वा मुनिश्रेष्ठस्तदन्नममृतोपमम् ।
साधु रामेति संभाष्य स्वमाश्रममुपागमत् ॥ १५ ॥
तस्मिन्गते मुनिवरे स्वाश्रमं लक्ष्मणाग्रजः ।
संस्मृत्य कालवाक्यानि ततो दुःखमुपागमत् ॥ १६ ॥
दुःखेन च सुसंतप्तः स्मृत्वा तद्धोरदर्शनम् ।
अवाङ्मुखो दीनमना व्याहर्तुं न शशाक ह ॥ १७ ॥

राघवः प्रीतमानस इति । मुनिकोपः परिहृत इति प्राप्तसंतोष इत्यर्थः ॥ १४-१७ ॥
विश्वास-प्रस्तुतिः
ततो बुद्ध्या विनिश्चित्य कालवाक्यानि राघवः ।
नैतदस्तीति निश्चित्य तूष्णीमासीन्महायशाः ॥ १८ ॥
मूलम्
ततो बुद्ध्या विनिश्चित्य कालवाक्यानि राघवः ।
नैतदस्तीति निश्चित्य तूष्णीमासीन्महायशाः ॥ १८ ॥
व्याख्या
ततोऽनन्तरं कालवाक्यानि बुद्ध्या विनिश्चित्य सभ्रातृपुत्रभृत्यवर्गस्य सर्वोपसंहारकालः प्राप्तः उचित एवेति निश्चित्य सामान्यतो नैतदस्तीति एतन्मम भ्रातृभृत्यादिपरिकरजातं सर्वमपि नास्तीति चोक्त्वा तूष्णीमासीत् । लक्ष्मणस्यापराधं नोद्भावितवानित्यर्थः ॥ १८ ॥
विश्वास-प्रस्तुतिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चोत्तरशततमः सर्गः ॥ १०५ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्चोत्तरशततमः सर्गः ॥ १०५ ॥