विश्वास-प्रस्तुतिः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्र्युत्तरशततमः सर्गः
मूलम्
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्र्युत्तरशततमः सर्गः
विषयाः
कदाचन तापस-रूपिणा रुद्रेण रामम् एत्य
रहस्य-वृत्तान्त-कथनाय स्वागमनस्य निवेदने
रामेण तच्-चोदनया ऽऽमन्त्रण-समये
तच्-छ्रोतुस्, तयोर् निरीक्षमाणस्य च
स्वेन हनन-प्रतिज्ञा-करणेन
सौमित्रेर् द्वार-रक्षकत्वेन स्थापन-पूर्वकं
तं प्रति रहस्य-कथन-चोदना ॥ १ ॥
विश्वास-प्रस्तुतिः
कस्य चित्त्वथ कालस्य रामे धर्मपथे स्थिते ।
कालस्तापसरूपेण राजद्वारमुपागमत् ॥ १ ॥
सोब्रवील्लक्ष्मणं वाक्यं धृतिमन्तं यशस्विनम् ।
मां निवेदय रामाय संप्राप्तं कार्यगौरवात् ॥ २ ॥
मूलम्
कस्य चित्त्वथ कालस्य रामे धर्मपथे स्थिते ।
कालस्तापसरूपेण राजद्वारमुपागमत् ॥ १ ॥
सोब्रवील्लक्ष्मणं वाक्यं धृतिमन्तं यशस्विनम् ।
मां निवेदय रामाय संप्राप्तं कार्यगौरवात् ॥ २ ॥
व्याख्या
कालस्य कस्यचित् गमनानन्तरमिति शेषः ॥ १-२ ॥
विश्वास-प्रस्तुतिः
दूतोस्म्यतिबलस्याहं महर्षेरमितौजसः ।
रामं दिदृक्षुरायातः कार्येण हि महाबल ॥ ३ ॥
तस्य तद्वचनं श्रुत्वा सौमित्रिस्त्वरयान्वितः ।
न्यवेदयत रामाय तापसं तं समागतम् ॥ ४ ॥
जयस्व राम धर्मेण उभौ लोकौ महाद्युते ।
दूतस्त्वां द्रष्टुमायातस्तपसा भास्करप्रभः ॥ ५ ॥

महर्षेरिति । ब्रह्मण इत्यर्थः ॥ ३-५ ॥
विश्वास-प्रस्तुतिः
तद्वाक्यं लक्ष्मणेनोक्तं श्रुत्वा राम उवाच ह ।
प्रवेश्यतां मुनिस्तात महौजास्तस्य वाक्यधृत् ॥ ६ ॥
सौमित्रिस्तु तथेत्युक्त्वा प्रावेशयत तं मुनिम् ।
ज्वलन्तमिव तेजोभिः प्रदहन्तमिवांशुभिः ॥ ७ ॥
सोभिगम्य रघुश्रेष्ठं दीप्यमानं स्वतेजसा ।
ऋषिर्मधुरया वाचा वर्धस्वेत्याह राघवम् ॥ ८ ॥
तस्मै रामो महातेजाः पूजामर्घ्यपुरोगमाम् ।
ददौ कुशलमव्यग्रं प्रष्टुमेवोपचक्रमे ॥ ९ ॥
पृष्टश्च कुशलं तेन रामेण वदतां वरः ।
आसने काञ्चने दिव्ये निषसाद महायशाः ॥ १० ॥

तस्य वाक्यस्य धृदिति रामवाक्यधारीति सौमित्रिविशेषणम् ॥ ६-१० ॥
विश्वास-प्रस्तुतिः
तमुवाच ततो रामः स्वागतं ते महामुने ।
प्रापयस्व च वाक्यानि यतो दूतस्त्वमागतः ॥ ११ ॥
मूलम्
तमुवाच ततो रामः स्वागतं ते महामुने ।
प्रापयस्व च वाक्यानि यतो दूतस्त्वमागतः ॥ ११ ॥
व्याख्या
वाक्यानि संदेशवाक्यानि । प्रापयस्व निवेदद्य । तत्र हेतुः-यतो दूत इत्यादि ॥ ११ ॥
विश्वास-प्रस्तुतिः
चोदितो राजसिंहेन मुनिर्वाक्यमभाषत ।
द्वन्द्वमेतत्प्रवक्तव्यं हितं वै यद्यपेक्षसे ॥ १२ ॥
मूलम्
चोदितो राजसिंहेन मुनिर्वाक्यमभाषत ।
द्वन्द्वमेतत्प्रवक्तव्यं हितं वै यद्यपेक्षसे ॥ १२ ॥
व्याख्या
मुनिवाक्यं प्रागुक्तमहर्षिसंदिष्टवाक्यं । द्वन्द्वमेतदिति । द्वन्द्वं रहस्य इत्यादि द्वन्द्वशब्दस्य रहस्यार्थे द्विवचननिपातः । रहस्यमेतत्प्रवक्तव्यमित्यर्थः । द्वन्द्वे हि तत्प्रवक्तव्यमिति च पाठः । तदेव विशिनष्टि-न चैषामित्यादि । एषां त्वत्समीपवर्तिलोकानामित्यर्थः ॥ १२ ॥
विश्वास-प्रस्तुतिः
यः शृणोति निरीक्षेद्वा स वध्यो भविता तव ।
भवेद्वै मुनिमुख्यस्य वचनं यद्यपेक्षसे ॥ १३ ॥
मूलम्
यः शृणोति निरीक्षेद्वा स वध्यो भविता तव ।
भवेद्वै मुनिमुख्यस्य वचनं यद्यपेक्षसे ॥ १३ ॥
व्याख्या
अस्मद्वचनं निरीक्षेत् मन्त्रयितारौ स तव वध्यः । कथमेवमतिक्रूरसंकेत इत्यत्राह — भवेदिति । तस्य मुनिमुख्यस्य वचनमित्थं संकेतपूर्वकं वदेति चोदितवानित्यर्थः ॥ यद्यपेक्षस इति । तथा संकेतपरिपालनमिति शेषः ॥ १३ ॥
विश्वास-प्रस्तुतिः
स तथेति प्रतिज्ञाय रामो लक्ष्मणमब्रवीत् ।
द्वारि तिष्ठ महाबाहो प्रतिहारं विसर्जय ॥ १४ ॥
मूलम्
स तथेति प्रतिज्ञाय रामो लक्ष्मणमब्रवीत् ।
द्वारि तिष्ठ महाबाहो प्रतिहारं विसर्जय ॥ १४ ॥
व्याख्या
प्रतिहारं विसर्जय अन्यतोपसारय ॥ १४ ॥
विश्वास-प्रस्तुतिः
स मे वध्यः खलु भवेत्कथाद्वन्द्वं समीरितम् ।
ऋषेर्मम च सौमित्रे पश्येद्वा शृणुयाच्च यः ॥ १५ ॥
मूलम्
स मे वध्यः खलु भवेत्कथाद्वन्द्वं समीरितम् ।
ऋषेर्मम च सौमित्रे पश्येद्वा शृणुयाच्च यः ॥ १५ ॥
व्याख्या
किमर्थमित्यत आह–स म इत्यादि ॥ हे सौमित्रे ऋषेर्मम च कथाद्वन्द्वं कथारहस्यं । वाचं द्वन्द्वमिति च पाठः । यः शृणुयात् ॥ १५ ॥
विश्वास-प्रस्तुतिः
ततो निक्षिप्य काकुत्स्थो लक्ष्मणं द्वारि संग्रहम् ।
तमुवाच मुने वाक्यं कथयस्वेति राघवः ॥ १६ ॥
मूलम्
ततो निक्षिप्य काकुत्स्थो लक्ष्मणं द्वारि संग्रहम् ।
तमुवाच मुने वाक्यं कथयस्वेति राघवः ॥ १६ ॥
व्याख्या
संग्रहं रक्षितारम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
यत्ते मनीषितं वाक्यं येन वाऽसि समाहितः ।
कथयस्वाविशङ्कस्त्वं ममापि हृदि वर्तते ॥ १७ ॥
मूलम्
यत्ते मनीषितं वाक्यं येन वाऽसि समाहितः ।
कथयस्वाविशङ्कस्त्वं ममापि हृदि वर्तते ॥ १७ ॥
व्याख्या
समाहितः । ममापि हृदि वर्तत इति । एवंविधं रहस्यं तन्मयापि श्रोतव्यमित्यर्थः । अहमपि जानामीत्यर्थः ॥ १७ ॥
विश्वास-प्रस्तुतिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्र्युत्तरशततमः सर्गः ॥ १०३ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने त्र्युत्तरशततमः सर्गः ॥ १०३ ॥