विश्वास-प्रस्तुतिः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्व्युत्तरशततमः सर्गः
मूलम्

विषयाः
भरत-वाक्य-श्रवण-तुष्टेन रामेण
सौमित्रिं प्रति तत्-पुत्रयोर् अङ्गद–चन्द्र-केत्वोर्
निवासाय देशान्वेषण-चोदने
भरतेन रामं प्रति
कारु-पथ-देश-स्थयोर् अङ्गदीय-चन्द्रकान्ताख्य–पुरयोर् वासार्हत्व-कथनम् ॥ १ ॥
रामेणाङ्गदीय–चन्द्र-कान्ताख्य-पुरयोः
क्रमेणाङ्गद–चन्द्र-केत्वोर् अभिषेक-करण-पूर्वकं प्रस्थापने
तद्-अनुगताभ्यां सौमित्रि-भरताभ्यां
तत्र संवत्सरम् अधिवासेन
पुनर् अयोध्यां प्रत्यागमनम् ॥ २ ॥
विश्वास-प्रस्तुतिः
तच्छ्रुत्वा हर्षमापेदे राघवो भ्रातृभिः सह ।
वाक्यं चाद्भुतसंकाशं तदा प्रोवाच लक्ष्मणम् ॥ १ ॥
इमौ कुमारौ सौमित्रे तव धर्मविशारदौ ।
अङ्गदश्चन्द्रकेतुश्च राज्यार्थे दृढविक्रमौ ॥ २ ॥
इमौ राज्येऽभिषेक्ष्यामि देशः साधु विधीयताम् ।
रमणीयो ह्यसंबाधो रमेतां यत्र धन्विनौ ॥ ३ ॥

व्याख्या
राज्यार्थे राज्यरक्षाविषये ॥ २-३ ॥
विश्वास-प्रस्तुतिः
न राज्ञो यत्र पीडा स्यान्नाश्रमाणां विनाशनम् ।
स देशो दृश्यतां सौम्य नापराध्यामहे यथा ॥ ४ ॥
मूलम्
न राज्ञो यत्र पीडा स्यान्नाश्रमाणां विनाशनम् ।
स देशो दृश्यतां सौम्य नापराध्यामहे यथा ॥ ४ ॥
व्याख्या
नापराध्यामहे । कस्यापि भूतस्येतिशेषः ॥ ४ ॥
विश्वास-प्रस्तुतिः
तथोक्तवति रामे तु भरतः प्रत्युवाच ह ।
अयं कारुपथो देशो रमणीयो निरामयः ॥ ५ ॥
मूलम्
तथोक्तवति रामे तु भरतः प्रत्युवाच ह ।
अयं कारुपथो देशो रमणीयो निरामयः ॥ ५ ॥
व्याख्या
कारुपथः कारुपथाख्यः पाश्चात्यदेशविशेषः ॥ ५ ॥
विश्वास-प्रस्तुतिः
निवेश्यतां तत्र पुरमङ्गदस्य महात्मनः ।
चन्द्रकेतोः सुरुचिरं चन्द्रकान्तं निरामयम् ॥ ६ ॥
तद्वाक्यं भरतेनोक्तं प्रतिजग्राह राघवः ।
तं च कृत्वा वशे देशमङ्गदस्य न्यवेशयत् ॥ ७ ॥
अङ्गदीया पुरी रम्या ह्यङ्गदस्य निवेशिता ।
रमणीया सुगुप्ता च रामेणाक्लिष्टकर्मणा ॥ ८ ॥

तत्र देशे अङ्गदस्य पुरं अङ्गदीयाख्यं निवेश्यतां चन्द्रकेतोः चन्द्रकान्ताख्यम् ॥ ६-८ ॥
विश्वास-प्रस्तुतिः
चन्द्रकेतोस्तु मल्लस्य मल्लभूम्यां निवेशिता ।
चन्द्रकान्तेति विख्याता दिव्या स्वर्गपुरी यथा ॥ ९ ॥
ततो रामः परां प्रीतिं लक्ष्मणो भरतस्तथा ।
ययुर्युद्धे दुराधर्षा अभिषेकं च चक्रिरे ॥ १० ॥
अभिषिच्य कुमारौ स प्रस्थापयति राघवः ।
अङ्गदं पश्चिमां भूमिं चन्द्रकेतुमुदङ्मुखम् ॥ ११ ॥
अङ्गदं चापि सौमित्रिर्लक्ष्मणोऽनुजगाम ह ।
चन्द्रकेतोस्तु भरतः पार्ष्णिग्राहो बभूव ह ॥ १२ ॥
लक्ष्मणस्त्वङ्गदीयायां संवत्सरमथोषितः ।
पुत्रे स्थिते दुराधर्षे ह्ययोध्यां पुनरागमत् ॥ १३ ॥

मल्लस्य श्रेष्ठस्य । मल्लभूम्यां मल्लदेशे उत्तरे ॥ ९-१३ ॥
विश्वास-प्रस्तुतिः
भरतोपि तथैवोष्य संवत्सरमतोधिकम् ।
अयोध्यां पुनरागम्य रामपादावुपास्त सः ॥ १४ ॥
मूलम्
भरतोपि तथैवोष्य संवत्सरमतोधिकम् ।
अयोध्यां पुनरागम्य रामपादावुपास्त सः ॥ १४ ॥
व्याख्या
भरतोपि तथैवोष्येति । चन्द्रकेतुसमीप इति शेषः ॥ १४ ॥
विश्वास-प्रस्तुतिः
उभौ सौमित्रिभरतौ रामपादावनुव्रतौ ।
कालं गतमपि स्नेहान्न जज्ञातेऽतिधार्मिकौ ॥ १५ ॥
एवं वर्षसहस्राणि दश तेषां ययुस्तदा ।
धर्मे प्रयतमानानां पौरकार्येषु नित्यदा ॥ १६ ॥

न जज्ञाते जानातेर्लिट्द्विवचनं । नावगतवन्तौ । संधिः छान्दसः ॥ १५-१६ ॥
विश्वास-प्रस्तुतिः
विहृत्य कालं परिपूर्णमानसाः श्रिया वृता धर्मपुरे सुसंस्थिताः ।
त्रयः समिद्धा इव दीप्ततेजसो महाध्वरे साधु हुतास्त्रयोग्नयः ॥ १७ ॥

धर्मसाधनं पुरं धर्मपुरं तस्मिन् ॥ १७ ॥
विश्वास-प्रस्तुतिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्व्युत्तरशततमः सर्गः ॥ १०२ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने द्व्युत्तरशततमः सर्गः ॥ १०२ ॥