विश्वास-प्रस्तुतिः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चनवतितमः सर्गः
मूलम्

विषयाः
बहु-कालं सभा-मध्ये कुश-लव-गीत-रामायणं श्रुतवता रामेण
रामायण-वचनाद् एव कुश-लवयोः सीता-सुतत्व-विज्ञानम् ॥ १ ॥
तथा प्रत्ययोत्पादनेन
लोकापवादापनोदन-पूर्वकं
निज-शुद्धि–प्रख्यापनाय शपथ-करणे
सीता-भावावगमाय
वाल्मीकिं प्रति दूत-प्रेषणम् ॥ २ ॥
दूत-मुखाच् छपथ-करणे
सीताङ्गीकरण-श्रवण-हृष्टेन रामेण
सकल-सभास्तारान्+++(=??)+++ प्रति परेद्युः प्रभाते
प्रवर्तिष्यमाण-सीता-शपथ-दर्शन–प्रार्थना-पूर्वकं तेषां विसर्जनम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
रामो बहून्यहान्येवं तद्गीतं परमं शुभम् ।
शुश्राव मुनिभिः सार्धं पार्थिवैः सह वानरैः ॥ १ ॥
तस्मिन्गीते तु विज्ञाय सीतापुत्रौ कुशीलवौ ।
तस्याः परिषदो मध्ये रामो वचनमब्रवीत् ।
दूताञ्शुद्धसमाचारानाहूयात्ममनीषया ॥ २ ॥
मद्वचो ब्रूत गच्छध्वमितो भगवतोऽन्तिकम् ॥ ३ ॥

व्याख्या
गीते तु गीत एव । नतु ततः पूर्वं कस्यचिन्मुखादित्यर्थः ॥ २-३ ॥
विश्वास-प्रस्तुतिः
यदि शुद्धसमाचारा यदि वा वीतकल्मषा ।
करोत्विहात्मनः शुद्धिमनुमान्य महामुनिम् ॥ ४ ॥
मूलम्
यदि शुद्धसमाचारा यदि वा वीतकल्मषा ।
करोत्विहात्मनः शुद्धिमनुमान्य महामुनिम् ॥ ४ ॥
व्याख्या
महामुनिमनुमान्य महामुनेरनुमतिं कृत्वेत्यर्थः ॥ ४ ॥
विश्वास-प्रस्तुतिः
छन्दं मुनेश्च विज्ञाय सीतायाश्च मनोगतम् ।
प्रत्ययं दातुकामायास्ततः शंसत मे लघु ॥ ५ ॥
श्वः प्रभाते तु शपथं मैथिली जनकात्मजा ।
करोतु परिषन्मध्ये शोधनार्थं ममैव च ॥ ६ ॥
श्रुत्वा तु राघवस्यैतद्वचः परममद्भुतम् ।
दूताः संप्रययुर्वाटं यत्रास्ते मुनिपुङ्गवः ॥ ७ ॥
ते प्रणम्य महात्मानं ज्वलन्तममितप्रभम् ।
ऊचुस्ते रामवाक्यानि मृदूनि मधुराणि च ॥ ८ ॥
तेषां तद्व्याहृतं श्रुत्वा रामस्य च मनोगतम् ।
विज्ञाय सुमहातेजा मुनिर्वाक्यमथाब्रवीत् ॥ ९ ॥
एवं भवतु भद्रं वो यथा वदति राघवः ।
तथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः ॥ १० ॥

छन्दं अभिप्रायम् ॥ ५-१० ॥
विश्वास-प्रस्तुतिः
तथोक्ता मुनिना सर्वे रामदूता महौजसम् ।
प्रत्येत्य राघवं क्षिप्रं मुनिवाक्यं बभाषिरे ॥ ११ ॥
ततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः ।
ऋषींस्तत्र समेतांश्च राज्ञवैवाभ्यभाषत ॥ १२ ॥

तभोक्ताइति सीता तथैव करिष्यतीत्युक्ता इत्यर्थः ॥ ११-१२ ॥
विश्वास-प्रस्तुतिः
भगवन्तः सशिष्या वै सानुगाश्च नराधिपाः ।
पश्यन्तु सीताशपथं यश्चैवान्योपि काङ्क्षते ॥ १३ ॥
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।
सर्वेषामृषिमुख्यानां साधुवादो महानभूत् ॥ १४ ॥
राजानश्च महात्मानं प्रशंसन्ति स राघवम् ।
उपपन्नं नरश्रेष्ठ त्वय्येव भुवि नान्यतः ॥ १५ ॥
एवं विनिश्रयं कृत्वा श्वोभूत इति राघवः ।
विसर्जयामास तदा सर्वांस्ताञ्शत्रुसूदनः ॥ १६ ॥
इति संप्रविचार्य राजसिंहः श्वोभूते शपथस्य निश्चयं वै ।
विससर्ज मुनीन्नृपांश्च सर्वान्स महात्मा महतो महानुभावः ॥ १७ ॥

यश्चैवान्योपीति । यश्च पापी पापजल्पः प्राकृतः सोपीत्यर्थः ॥ १३-१७ ॥
विश्वास-प्रस्तुतिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चनवतितमः सर्गः ॥ ९५ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्चनवतितमः सर्गः ॥ ९५ ॥