०८८ किम्-पुरुष-स्त्री-करणम्

विश्वास-प्रस्तुतिः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टाशीतितमः सर्गः

मूलम्

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टाशीतितमः सर्गः

विषयाः

स्त्री-भूतैर् निज-परिजनैस् सह
वनान्तरे विहरमाणाया इलाया अवलोकनेन
क्षुभित-मनसा तत्र सरसि तपस्यता विधु-सुतेन बुधेन
तत्-परिचरीणां किं-पुरुष–नारी-करण-पूर्वकं
शैल-तट-प्रेषणम् ॥ १ ॥

विश्वास-प्रस्तुतिः

तां कथामिलसंबन्धां रामेण समुदीरिताम् ।
लक्ष्मणो भरतश्चैव श्रुत्वा परमविस्मितौ ॥ १ ॥
तौ रामं प्राञ्जली भूत्वा तस्य राज्ञो महात्मनः ।
विस्तरं तस्य भावस्य तदा पप्रच्छतुः पुनः ॥ २ ॥

मूलम्

तां कथामिलसंबन्धां रामेण समुदीरिताम् ।
लक्ष्मणो भरतश्चैव श्रुत्वा परमविस्मितौ ॥ १ ॥
तौ रामं प्राञ्जली भूत्वा तस्य राज्ञो महात्मनः ।
विस्तरं तस्य भावस्य तदा पप्रच्छतुः पुनः ॥ २ ॥

व्याख्या

प्राञ्जली इति द्विवचनं । तस्य भावस्येति । स्त्रीपुंसभावस्येत्यर्थः ॥ २ ॥

विश्वास-प्रस्तुतिः

कथं स राजा स्त्रीभूतो वर्तयामास दुर्गतिः ।
पुरुषः स यदा भूतः कां वृत्तिं वर्तयत्यसौ ॥ ३ ॥
तयोस्तद्भाषितं श्रुत्वा कौतूहलसमन्वितम् ।
कथयामास काकुत्स्थस्तस्य राज्ञो यथागतम् ॥ ४ ॥
तमेव प्रथमं मासं स्त्रीभूता लोकसुन्दरी ।
ताभिः परिवृता स्त्रीभिर्ये च पूर्वपदानुगाः ॥ ५ ॥
तत्काननं विगाह्माशु विजह्रे लोकसुन्दरी ।
द्रुमगुल्मलताकीर्णं पद्भ्यां पद्मदलेक्षणा ॥ ६ ॥

स्त्रीभूतः अतएव दुर्गतिः कथं वर्तयामास । तत्कालमिति शेषः ॥ ३-६ ॥

विश्वास-प्रस्तुतिः

वाहनानि च सर्वाणि सा त्यक्त्वा वै समन्ततः ।
पर्वताभोगविवरे तस्मिन्रेमे इला तदा ॥ ७ ॥

मूलम्

वाहनानि च सर्वाणि सा त्यक्त्वा वै समन्ततः ।
पर्वताभोगविवरे तस्मिन्रेमे इला तदा ॥ ७ ॥

व्याख्या

पर्वतानां आभोगो विस्तारः ॥ ७ ॥

विश्वास-प्रस्तुतिः

अथ तस्मिन्वनोद्देशे पर्वतस्याविदूरतः ।
सरः सुरुचिरप्रख्यं नानापक्षिगणैर्युतम् ॥ ८ ॥
ददर्श सा त्विला तस्मिन्बुधं सोमसुतं ततः ।
ज्वलन्तं स्वेन वपुषा पूर्णसोममिवोदितम् ॥ ९ ॥
तपन्तं च तपस्तीव्रमम्भोमध्ये दुरासदम् ।
यशस्करं कामकरं तारुण्ये पर्यवस्थितम् ॥ १० ॥

अविदूरतः यत्र स्त्रीत्वप्राप्तिस्तस्याविदूरत इत्यर्थः । अन्यदेशत्वात् बुधस्य स्त्रीत्वाप्राप्तिरिति भावः ॥ ८-१० ॥

विश्वास-प्रस्तुतिः

सा तं जलाशयं सर्वं क्षोभयामास विस्मिता ।
सहगैः पूर्वपुरुषैः स्त्रीभूतै रघुनन्दन ॥ ११ ॥

मूलम्

सा तं जलाशयं सर्वं क्षोभयामास विस्मिता ।
सहगैः पूर्वपुरुषैः स्त्रीभूतै रघुनन्दन ॥ ११ ॥

व्याख्या

क्षोभयामासेति । क्रीडयेति शेषः ॥ ११ ॥

विश्वास-प्रस्तुतिः

बुधस्तु तां समीक्ष्यैव कामबाणवशं गतः ।
नोपलेभे तदाऽऽत्मानं संचचाल तदाऽम्भसि ॥ १२ ॥

मूलम्

बुधस्तु तां समीक्ष्यैव कामबाणवशं गतः ।
नोपलेभे तदाऽऽत्मानं संचचाल तदाऽम्भसि ॥ १२ ॥

व्याख्या

आत्मानं नोपलेभे । आत्मध्यानं न प्राप्तवानित्यर्थः । कामपरवशचित्तोभूदिति भावः ॥ १२ ॥

विश्वास-प्रस्तुतिः

इलां निरीक्षमाणस्तु त्रैलोक्याभ्यधिकां शुभाम् ।
चिन्तां समभ्यतिक्रामत्का न्वियं देवताधिका ॥ १३ ॥
न देवीषु न नागीषु नासुरीष्वप्सरस्सु च ।
दृष्टपूर्वा मया काचिद्रूपेणानेन शोभिता ॥ १४ ॥

मूलम्

इलां निरीक्षमाणस्तु त्रैलोक्याभ्यधिकां शुभाम् ।
चिन्तां समभ्यतिक्रामत्का न्वियं देवताधिका ॥ १३ ॥
न देवीषु न नागीषु नासुरीष्वप्सरस्सु च ।
दृष्टपूर्वा मया काचिद्रूपेणानेन शोभिता ॥ १४ ॥

व्याख्या

चिन्तां समभ्यतिक्रामत् । इलायामिति शेषः । इलाविषयकचिन्तां प्राप्त इत्यर्थः । तदेवाह – कान्वित्यादि ॥ १३-१४ ॥

विश्वास-प्रस्तुतिः

सदृशीयं मम भवेद्यदि नान्यपरिग्रहः ।
इति बुद्धिं समास्थाय जलात्कूलमुपागमत् ॥ १५ ॥

मूलम्

सदृशीयं मम भवेद्यदि नान्यपरिग्रहः ।
इति बुद्धिं समास्थाय जलात्कूलमुपागमत् ॥ १५ ॥

व्याख्या

नान्यपरिग्रहः अन्यपरिग्रहत्वरहिता ॥ १५ ॥

विश्वास-प्रस्तुतिः

आश्रमं समुपागम्य ततस्ताः प्रमदोत्तमाः ।
शब्दापयत धर्मात्मा ताश्चैनं च ववन्दिरे ॥ १६ ॥
स ताः पप्रच्छ धर्मात्मा कस्यैषा लोकसुन्दरी ।
किमर्थमागता चैव सर्वमाख्यात मा चिरम् ॥ १७ ॥
शुभं तु तस्य तद्वाक्यं मधुरं मधुराक्षरम् ।
श्रुत्वा स्त्रियश्च ताः सर्वा ऊचुर्मधुरया गिरा ॥ १८ ॥

शब्दापयत । पुगार्षः ॥ १६-१८ ॥

विश्वास-प्रस्तुतिः

अस्माकमेषा सुश्रोणी प्रभुत्वे वर्तते सदा ।
अपतिः काननान्तेषु सहास्माभिश्चरत्यसौ ॥ १९ ॥

मूलम्

अस्माकमेषा सुश्रोणी प्रभुत्वे वर्तते सदा ।
अपतिः काननान्तेषु सहास्माभिश्चरत्यसौ ॥ १९ ॥

व्याख्या

अपतिः पतिरहिता ॥ १९ ॥

विश्वास-प्रस्तुतिः

तद्वाक्यमव्यक्तपदं तासां स्त्रीणां निशम्य च ।
विद्यामावर्तिनीं पुण्यामावर्तयत स द्विजः ॥ २० ॥

मूलम्

तद्वाक्यमव्यक्तपदं तासां स्त्रीणां निशम्य च ।
विद्यामावर्तिनीं पुण्यामावर्तयत स द्विजः ॥ २० ॥

व्याख्या

अव्यक्तपदं अस्पष्टाक्षरमित्यर्थः । आवर्तिनीं आवर्तिन्याख्यां विद्यामावर्तयत आवर्तयति स्म । प्रकृतप्रयोजनार्थं । द्विजः क्षत्रियो बुधः ॥ २० ॥

विश्वास-प्रस्तुतिः

सोर्थं विदित्वा सकलं तस्य राज्ञो यथागतम् ।
सर्वा एव स्त्रियस्ताश्च बभाषे मुनिपुङ्गवः ॥ २१ ॥

मूलम्

सोर्थं विदित्वा सकलं तस्य राज्ञो यथागतम् ।
सर्वा एव स्त्रियस्ताश्च बभाषे मुनिपुङ्गवः ॥ २१ ॥

व्याख्या

स बुधः तस्य राज्ञः कार्दमेः सकलमर्थं वृत्तान्तं विदित्वा । योगमाहात्म्यादिति शेषः । ताः स्त्रियः इलासहचरीः ॥ २१ ॥

विश्वास-प्रस्तुतिः

अत्र किंपुरुषीभूत्वा शैलरोधसि वत्स्यथ ।
आवासस्तु गिरावस्मिञ्शीघ्रमेव विधीयताम् ॥ २२ ॥

मूलम्

अत्र किंपुरुषीभूत्वा शैलरोधसि वत्स्यथ ।
आवासस्तु गिरावस्मिञ्शीघ्रमेव विधीयताम् ॥ २२ ॥

व्याख्या

यूयं सर्वाः किंपुरुषीभूत्वा किंपुरुषाख्यदेवयोनिस्त्रियो भूत्वा । अत्रास्मिन् शैलस्य रोधसि वत्स्यथ । अतोस्मिन् गिरौ शीघ्रमेव आवासः उटजादिः विधीयताम् ॥ २२ ॥

विश्वास-प्रस्तुतिः

मूलपत्रफलैः सर्वा वर्तयिष्यथ नित्यदा ।
स्त्रियः किंपुरुषान्नाम भर्तृन्त्समुपलप्स्यथ ॥ २३ ॥

मूलम्

मूलपत्रफलैः सर्वा वर्तयिष्यथ नित्यदा ।
स्त्रियः किंपुरुषान्नाम भर्तृन्त्समुपलप्स्यथ ॥ २३ ॥

व्याख्या

स्त्रियः किंपुरुषस्त्रियो यूयं । किंपुरुषान्नाम प्रसिद्धान् भर्तॄन् समुपलप्स्यथ । अन्विष्य प्राप्स्यथेत्यर्थः ॥ २३ ॥

विश्वास-प्रस्तुतिः

तां श्रुत्वा सोमपुत्रस्य वाचं किंपुरुषीकृताः ।
उपासांचक्रिरे शैलं वध्वस्ता बहुलास्तदा ॥ २४ ॥

मूलम्

तां श्रुत्वा सोमपुत्रस्य वाचं किंपुरुषीकृताः ।
उपासांचक्रिरे शैलं वध्वस्ता बहुलास्तदा ॥ २४ ॥

व्याख्या

किंपुरुषीकृताः बुधस्य योगबलात्किंपुरुषस्त्रीकृता इत्यर्थः । शैलमुप शैलस्य समीप इत्यर्थः ॥ २४ ॥

विश्वास-प्रस्तुतिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टाशीतितमः सर्गः ॥ ८८ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने अष्टाशीतितमः सर्गः ॥ ८८ ॥

मूलम्

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टाशीतितमः सर्गः ॥ ८८ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने अष्टाशीतितमः सर्गः ॥ ८८ ॥