विश्वास-प्रस्तुतिः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्ताशीतितमः सर्गः
मूलम्
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्ताशीतितमः सर्गः
विषयाः
रामेण लक्ष्मणं प्रति
स्वस्याप्य् अश्व-मेध-महिमाऽवगत्य्-अवगमनाय
इलोपाख्यान-कथनारंभः ॥ १ ॥
मृगयार्थं वनं गतेन +इल-नाम्ना राज्ञा
पार्वती-परितोषणाय सर्वानुचरैः सह नारी-भूय
विहरतो हरस्य विहार-वन-गमनम् ॥ २ ॥
तत्-प्रभावात्-परिजनैस् सह स्त्री-भूतेन तेन राज्ञा
तपस्-तोषित-पार्वती-प्रसादात्
पर्यायेणैकैकस्मिन् मासे स्त्रीत्वस्य
पुनर् एकैकस्मिन् मासे पुंस्त्वस्य चाधिगमः ॥ ३ ॥
विश्वास-प्रस्तुतिः
तच्छ्रुत्वा लक्ष्मणेनोक्तं वाक्यं वाक्यविशारदः ।
प्रत्युवाच महातेजाः प्रहसन्राघवो वचः ॥ १ ॥
एवमेव नरश्रेष्ठ यथा वदसि लक्ष्मण ।
वृत्रघातमशेषेण वाजिमेधफलं च यत् ॥ २ ॥
मूलम्
तच्छ्रुत्वा लक्ष्मणेनोक्तं वाक्यं वाक्यविशारदः ।
प्रत्युवाच महातेजाः प्रहसन्राघवो वचः ॥ १ ॥
एवमेव नरश्रेष्ठ यथा वदसि लक्ष्मण ।
वृत्रघातमशेषेण वाजिमेधफलं च यत् ॥ २ ॥
व्याख्या
अश्वमेधवैभवं स्वयमपि जानामीति प्रहासः ॥ १-२ ॥
विश्वास-प्रस्तुतिः
श्रूयते हि पुरा सौम्य कर्दमस्य प्रजापतेः ।
पुत्रो बाह्लीश्वरः श्रीमानिलो नाम महायशाः ॥ ३ ॥
स राजा पृथिवीं सर्वां वशे कृत्वा सुधार्मिकः ।
राज्यं चैव नरव्याघ्र पुत्रवत्पर्यपालयत् ॥ ४ ॥
मूलम्
श्रूयते हि पुरा सौम्य कर्दमस्य प्रजापतेः ।
पुत्रो बाह्लीश्वरः श्रीमानिलो नाम महायशाः ॥ ३ ॥
स राजा पृथिवीं सर्वां वशे कृत्वा सुधार्मिकः ।
राज्यं चैव नरव्याघ्र पुत्रवत्पर्यपालयत् ॥ ४ ॥
व्याख्या
अथ वृषध्वजप्रियं विष्ण्वाराधनरूपं हयमेधं श्लाघयितुं राम उपक्रमते – श्रूयत इत्यादि । बाह्विर्देशविशेषः ॥ ३-४ ॥
विश्वास-प्रस्तुतिः
सुरैश्च परमोदारैर्दैतेयैश्च महाधनैः ।
नागराक्षसगन्धर्वैर्यक्षैश्च सुमहात्मभिः ।
पूज्यते नित्यशः सौम्य भयार्तै रघुनन्दन ॥ ५ ॥
मूलम्
सुरैश्च परमोदारैर्दैतेयैश्च महाधनैः ।
नागराक्षसगन्धर्वैर्यक्षैश्च सुमहात्मभिः ।
पूज्यते नित्यशः सौम्य भयार्तै रघुनन्दन ॥ ५ ॥
व्याख्या
भयार्तैरिति विशेषणं दैतेयादीनाम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
अबिभ्यंश्च त्रयो लोकाः सरोषस्य महात्मनः ॥ ६ ॥
स राजा तादृशो ह्यासीद्धर्मे वीर्ये च निष्ठितः ।
बुद्ध्या च परमोदारो बाह्लिकेशो महायशाः ॥ ७ ॥
स प्रचक्रे महाबाहुर्मृगयां रुचिरे वने ।
चैत्रे मनोरमे मासि सभृत्यबलवाहनः ॥ ८ ॥
प्रजघ्ने च नृपोरण्ये मृगाञ्शतसहस्रशः ।
हत्वैव तृप्तिर्नाभूच्च राज्ञस्तस्य महात्मनः ॥ ९ ॥

भयहेतुश्च तद्रोष इत्याह – अबिभ्यन्निति । बिभियुरित्यर्थः ॥ ६-९ ॥
विश्वास-प्रस्तुतिः
नानामृगाणामयुतं वध्यमानं महात्मना ।
यत्र जातो महासेनस्तं देशमुपचक्रमे ॥ १० ॥
तस्मिन्प्रदेशे देवेशः शैलराजसुतां हरः ।
रमयामास दुर्धर्षः सर्वैरनुचरैः सह ॥ ११ ॥
कृत्वा स्त्रीरूपमात्मानमुमेशो गोपतिध्वजः ।
देव्याः प्रियचिकीर्षुः संस्तस्मिन्पर्वतनिर्झरे ॥ १२ ॥

अयुतं अयुतसंख्याकं । वध्यमानमभूदिति शेषः । यत्र जात इत्यादि । महासेनः स्कन्दः ॥ १०-१२ ॥
विश्वास-प्रस्तुतिः
ये तु तत्र वनोद्देशे सत्त्वाः पुरुषवादिनः ।
वृक्षाः पुरुषनामानस्तेभवन्स्त्रीजनास्तदा ॥ १३ ॥
मूलम्
ये तु तत्र वनोद्देशे सत्त्वाः पुरुषवादिनः ।
वृक्षाः पुरुषनामानस्तेभवन्स्त्रीजनास्तदा ॥ १३ ॥
व्याख्या
पुरुष इति वादो व्यपदेशो येषामिति पुरुषवादिनः । पुल्लिङ्गशब्दवाच्या ये पदार्थाः सन्ति ॥ १३ ॥
विश्वास-प्रस्तुतिः
यच्च किंचन तत्सर्वं नारीसंज्ञं बभूव ह ।
एतस्मिन्नन्तरे राजा स इलः कर्दमात्मजः ।
निघ्नन्मृगसहस्राणि तं देशमुपचक्रमे ॥ १४ ॥
मूलम्
यच्च किंचन तत्सर्वं नारीसंज्ञं बभूव ह ।
एतस्मिन्नन्तरे राजा स इलः कर्दमात्मजः ।
निघ्नन्मृगसहस्राणि तं देशमुपचक्रमे ॥ १४ ॥
व्याख्या
अन्यच्च यच्च किंचन नपुंसकलिङ्गवाच्यमस्ति तत्सर्वं नारीसंज्ञं स्त्रीलिङ्गशब्दवाच्यतार्हं स्त्रीवेषं बभूव ॥ १४ ॥
विश्वास-प्रस्तुतिः
स दृष्ट्वा स्त्रीकृतं सर्वं सव्यालमृगपक्षिकम् ।
आत्मानं स्त्रीकृतं चैव सानुगं रघुनन्दन ॥ १५ ॥
मूलम्
स दृष्ट्वा स्त्रीकृतं सर्वं सव्यालमृगपक्षिकम् ।
आत्मानं स्त्रीकृतं चैव सानुगं रघुनन्दन ॥ १५ ॥
व्याख्या
आत्मानं च स्त्रीकृतम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
तस्य दुःखं महच्चासीद्दृष्ट्वाऽऽत्मानं तथागतम् ।
उमापतेश्च तत्कर्म ज्ञात्वा त्रासमुपागमत् ॥ १६ ॥
ततो देवं महात्मानं शितिकण्ठं कपर्दिनम् ।
जगाम शरणं राजा सभृत्यबलवाहनः ॥ १७ ॥
ततः प्रहस्य वरदः सह देव्या महेश्वरः ।
प्रजापतिसुतं वाक्यमुवाच वरदः स्वयम् ॥ १८ ॥

तथागतं तथावस्थां प्राप्तमात्मानं दृष्ट्वा तच्चात्मनस्तथाप्राप्तिरूपं कर्म तदिच्छावशात्प्राप्तं ज्ञात्वा त्रासमुपागमत् ॥ १६-१८ ॥
विश्वास-प्रस्तुतिः
उत्तिष्ठोत्तिष्ठ राजर्षे कार्दमेय महाबल ।
पुरुषत्वमृते सौम्य वरं वरय सुव्रत ॥ १९ ॥
मूलम्
उत्तिष्ठोत्तिष्ठ राजर्षे कार्दमेय महाबल ।
पुरुषत्वमृते सौम्य वरं वरय सुव्रत ॥ १९ ॥
व्याख्या
कार्दमेयेति शुभ्रादित्वाड्ढक् । पुरुषत्वं ऋते पुरुषत्वं विना ॥ १९ ॥
विश्वास-प्रस्तुतिः
ततः स राजा दुःखार्तः प्रत्याख्यातो महात्मना ।
न च जग्राह स्त्रीभूतो वरमन्यं सुरोत्तमात् ॥ २० ॥
ततः शोकेन महता शैलराजसुतां नृपः ।
प्रणिपत्य ह्युमां देवीं सर्वेणैवान्तरात्मना ॥ २१ ॥
मूलम्
ततः स राजा दुःखार्तः प्रत्याख्यातो महात्मना ।
न च जग्राह स्त्रीभूतो वरमन्यं सुरोत्तमात् ॥ २० ॥
ततः शोकेन महता शैलराजसुतां नृपः ।
प्रणिपत्य ह्युमां देवीं सर्वेणैवान्तरात्मना ॥ २१ ॥
व्याख्या
न च जग्राह स्त्रीभूत इति । गुरुवैषम्यमार्षं । अन्यद्वरं पुंस्त्ववरणव्यतिरिक्तं वरं न जग्राह ॥ २०-२१ ॥
विश्वास-प्रस्तुतिः
ईशे वराणां वरदे लोकानामसि भामिनी ।
अमोघदर्शने देवि भज सौम्येन चक्षुषा ॥ २२ ॥
हृद्गतं तस्य राजर्षेर्विज्ञाय हरसन्निधौ ।
प्रत्युवाच शुभं वाक्यं देवी रुद्रस्य संमता ॥ २३ ॥
मूलम्
ईशे वराणां वरदे लोकानामसि भामिनी ।
अमोघदर्शने देवि भज सौम्येन चक्षुषा ॥ २२ ॥
हृद्गतं तस्य राजर्षेर्विज्ञाय हरसन्निधौ ।
प्रत्युवाच शुभं वाक्यं देवी रुद्रस्य संमता ॥ २३ ॥
व्याख्या
सौम्येन चक्षुषा अनुग्रहचक्षुषा । मां भज अनुगृहाण ॥ २२-२३ ॥
विश्वास-प्रस्तुतिः
अर्धस्य देवो वरदो वरार्धस्य तव ह्यहम् ।
तस्मादर्धं गृहाण त्वं स्त्रीपुंसोर्यावदिच्छसि ॥ २४ ॥
तदद्भुततरं श्रुत्वा देव्या वरमनुत्तमम् ।
संप्रहृष्टमना भूत्वा राजा वाक्यमथाब्रवीत् ॥ २५ ॥
मूलम्
अर्धस्य देवो वरदो वरार्धस्य तव ह्यहम् ।
तस्मादर्धं गृहाण त्वं स्त्रीपुंसोर्यावदिच्छसि ॥ २४ ॥
तदद्भुततरं श्रुत्वा देव्या वरमनुत्तमम् ।
संप्रहृष्टमना भूत्वा राजा वाक्यमथाब्रवीत् ॥ २५ ॥
व्याख्या
स्त्रीपुंसोरर्धस्य । समासाजन्तनिपाताभाव आर्षः । पुरुषत्वप्राप्तिरूपे वरे अर्धस्य देवो वरदो दाता । अर्धस्यैवाहं दात्री । अस्मात्त्वं मत्तोर्धं गृहाण । यावदिच्छसि यदिच्छसि ॥ २४-२५ ॥
विश्वास-प्रस्तुतिः
यदि देवि प्रसन्ना मे रूपेणाप्रतिमा भुवि ।
मासं स्त्रीत्वमुपासित्वा मासं स्यां पुरुषः पुनः ॥ २६ ॥
ईप्सितं तस्य विज्ञाय देवी सुरुचिरानना ।
प्रत्युवाच शुभं वाक्यमेवमेव भविष्यति ॥ २७ ॥
मूलम्
यदि देवि प्रसन्ना मे रूपेणाप्रतिमा भुवि ।
मासं स्त्रीत्वमुपासित्वा मासं स्यां पुरुषः पुनः ॥ २६ ॥
ईप्सितं तस्य विज्ञाय देवी सुरुचिरानना ।
प्रत्युवाच शुभं वाक्यमेवमेव भविष्यति ॥ २७ ॥
व्याख्या
उपासित्वा प्राप्य ॥ २६-२७ ॥
विश्वास-प्रस्तुतिः
राजन्पुरुषभूतस्त्वं स्त्रीभावं न स्मरिष्यसि ।
स्त्रीभूतश्च परं मासं न स्मरिष्यसि पौरुषम् ॥ २८ ॥
मूलम्
राजन्पुरुषभूतस्त्वं स्त्रीभावं न स्मरिष्यसि ।
स्त्रीभूतश्च परं मासं न स्मरिष्यसि पौरुषम् ॥ २८ ॥
व्याख्या
अनुग्रहान्तरमाह-राजन्नित्यादि ॥ २८ ॥
विश्वास-प्रस्तुतिः
एवं स राजा पुरुषो मासं भूत्वाऽथ कार्दमिः ।
त्रैलोक्यसुन्दरी नारी मासमेकमिलाऽभवत् ॥ २९ ॥
मूलम्
एवं स राजा पुरुषो मासं भूत्वाऽथ कार्दमिः ।
त्रैलोक्यसुन्दरी नारी मासमेकमिलाऽभवत् ॥ २९ ॥
व्याख्या
कार्दभिः । अत इचञ् ॥ २९ ॥
विश्वास-प्रस्तुतिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्ताशीतितमः सर्गः ॥ ८७ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने सप्ताशीतितमः सर्गः ॥ ८७ ॥
मूलम्
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्ताशीतितमः सर्गः ॥ ८७ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने सप्ताशीतितमः सर्गः ॥ ८७ ॥