०८३ राज-सूय-विचारः

विश्वास-प्रस्तुतिः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्र्यशीतितमःसर्गः

मूलम्

विषयाः

रामेण भरत-लक्ष्मणौ प्रति
राज-सूय–चिकीर्षा-निवेदनम् ॥ १ ॥
भरतेन तं प्रति
तस्य सर्व-राज–पराजय-पूर्वकत्वोक्त्या
पृथ्वी-विनाश-हेतुत्व-कथनेन
तत्-करणस्यानौचित्य-कथनम् ॥ २ ॥
रामेण तंप्रति तद्-वचन-प्रशंसन-पूर्वकं राज-सूय–निवर्तनोक्तिः ॥ ३ ॥

विश्वास-प्रस्तुतिः

तच्छ्रुत्वा भाषितं तस्य रामस्याक्लिष्टकर्मणः ।
द्वाःस्थः कुमारावाहूय राघवाय न्यवेदयत् ॥ १ ॥
दृष्ट्वा तु राघवः प्राप्तौ प्रियौ भरतलक्ष्मणौ ।
परिष्वज्य तदा रामो वाक्यमेतदुवाच ह ॥ २ ॥
कृतं मया यथा तथ्यं द्विजकार्यमनुत्तमम् ।
धर्मसेतुमतो भूयः कर्तुमिच्छामि राघवौ ॥ ३ ॥

व्याख्या

कृतमिति ॥ द्विजकार्यं यथा प्रतिज्ञातं तत्तथा तथ्यं कृतं । बालो जीवित इत्यर्थः । धर्मसेतुं राजधर्ममर्यादाभूतं राजसूयमित्यर्थः ॥ ३ ॥

विश्वास-प्रस्तुतिः

अक्षय्यश्चाव्ययश्चैव धर्मसेतुर्मतो मम ।
धर्मप्रसाधकं ह्येतत्सर्वपापप्रणाशनम् ॥ ४ ॥

मूलम्

अक्षय्यश्चाव्ययश्चैव धर्मसेतुर्मतो मम ।
धर्मप्रसाधकं ह्येतत्सर्वपापप्रणाशनम् ॥ ४ ॥

व्याख्या

धर्मप्रसाधकं धर्मवर्धकमित्यर्थः । धर्मप्रवचनमिति च पाठः ॥ ४ ॥

विश्वास-प्रस्तुतिः

युवाभ्यामात्मभूताभ्यां राजसूयमनुत्तमम् ।
सहितो यष्टुमिच्छामि तत्र धर्मो हि शाश्वतः ॥ ५ ॥
इष्ट्वा तु राजसूयेन मित्रः शत्रुनिबर्हणः ।
सुहुतेन सुयज्ञेन वरुणत्वमुपागमत् ॥ ६ ॥
सोमश्च राजसूयेन इष्ट्वा धर्मेण धर्मवित् ।
प्राप्तश्च सर्वलोकेषु कीर्तिस्थानं च शाश्वतम् ॥ ७ ॥

तत्र धर्मो हि शाश्वत इति । तत्र राजसूये । क्षत्रियस्यासाधारणः अक्षयकीर्तिहेतुर्धर्म इत्यर्थः ॥ ५-७ ॥

विश्वास-प्रस्तुतिः

अस्मिन्नहनि यच्छ्रेयश्चिन्त्यतां तन्मया सह ।
हितं चायतियुक्तं च प्रयतौ कर्तुमर्हथः ॥ ८ ॥
श्रुत्वा तु राघवस्यैतद्वाक्यं वाक्यविशारदः ।
भरतः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ॥ ९ ॥

हितं । इह लोके सुखं आयतियुक्तं । उत्तरः काल आयतिः । उत्तरकाले च हितमित्यर्थः ॥ ८-९ ॥

विश्वास-प्रस्तुतिः

त्वयि धर्मः परः साधो त्वयि सर्वा वसुंधरा ।
प्रतिष्ठिता महाबाहो यशश्चामितविक्रम ॥ १० ॥
महीपालाश्च सर्वे त्वां प्रजापतिमिवामराः ।
निरीक्षन्ते महात्मानं लोकनाथं यथा वयम् ॥ ११ ॥

सर्वा वसुंधरा प्रतिष्ठितेति । सार्वभौमत्वादिति भावः ॥ १०-११ ॥

विश्वास-प्रस्तुतिः

प्रजाश्च पितृवद्राजन्पश्यन्ति त्वां महाबल ।
पृथिव्या गतिभूतोसि प्राणिनामपि राघव ॥ १२ ॥
स त्वमेवंविधं यज्ञमाहर्तासि कथं नृप ।
पृथिव्यां राजवंशानां विनाशो यत्र दृश्यते ॥ १३ ॥
पृथिव्यां ये च पुरुषा राजन्पौरुषमागताः ।
सर्वेषां भविता तत्र संक्षयः सर्वकोपजः ॥ १४ ॥

पितृवत्पितरमिव ॥ १२-१४ ॥

विश्वास-प्रस्तुतिः

स त्वं पुरुषशार्दूल गुणैरतुलविक्रम ।
पृथिवीं नार्हसे हन्तुं वशे हि तव वर्तते ॥ १५ ॥
भरतस्य तु तद्वाक्यं श्रुत्वाऽमृतमयं तदा ।
प्रहर्षमतुलं लेभे रामः सत्यपराक्रमः ॥ १६ ॥
उवाच च शुभं वाक्यं कैकेय्यानन्दवर्धनम् ।
प्रीतोस्मि परितुष्टोस्मि तवाद्य वचनेऽनघ ॥ १७ ॥
इदं वचनमक्लीबं त्वया धर्मसमाहितम् ।
व्याहृतं पुरुषव्याघ्र पृथिव्याः परिपालनम् ॥ १८ ॥

तव वशे वर्तते तव स्वाधीने वर्तत इत्यर्थः ॥ १५-१८ ॥

विश्वास-प्रस्तुतिः

एष्यदस्मदभिप्रायाद्राजसूयात्क्रतूत्तमात् ।
निवर्तयामि धर्मज्ञ तव सुव्याहृतेन च ॥ १९ ॥
लोकपीडाकरं कर्म न कर्तव्यं विचक्षणैः ।
बालानां तु शुभं वाक्यं ग्राह्यं लक्ष्मणपूर्वज ।
तस्माच्छृणोमि ते वाक्यं साधुयुक्तं महामते ॥ २० ॥

एष्यदस्मदभिप्रायात् अस्मदभिप्रायमेष्यतः मामकचिकीर्षामागमिष्यत इत्यर्थः ॥ १९-२० ॥

विश्वास-प्रस्तुतिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्र्यशीतितमःसर्गः॥ ८३ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने त्र्यशीतितमः सर्गः ॥ ८३ ॥