०८१ शापः

विश्वास-प्रस्तुतिः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकाशीतितमः सर्गः

मूलम्

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकाशीतितमः सर्गः

विषयाः

शिष्य-मुखावगत–दण्ड-राज-कृत–स्व-सुता-धर्षण-वृत्तान्तेन शुक्रेण
तं प्रति तदीय-देशेन
सह भस्मी-भवन-शाप-दान-पूर्वकं
निज-तनयां प्रति तत्रैवाश्रमे तपश्-चरण-चोदना ॥ १ ॥
एवम् अगस्त्येन रामं प्रति श्वेतोपाख्यानकथनम् ॥ २ ॥

विश्वास-प्रस्तुतिः

स मुहूर्तादुपश्रुत्य देवर्षिरमितप्रभः ।
स्वमाश्रमं शिष्यवृतः क्षुधार्तः सन्न्यवर्तत ॥ १ ॥

मूलम्

स मुहूर्तादुपश्रुत्य देवर्षिरमितप्रभः ।
स्वमाश्रमं शिष्यवृतः क्षुधार्तः सन्न्यवर्तत ॥ १ ॥

व्याख्या

उपश्रुत्येति । शिष्यमुखाद्वृत्तान्तमिति शेषः ॥ १ ॥

विश्वास-प्रस्तुतिः

सोपश्यदरजां दीनां रजसा समभिप्लुताम् ।
ज्योत्स्नामिवारुणग्रस्तां प्रत्यूषे न विराजतीम् ॥ २ ॥
तस्य रोषः समभवत्क्षुधार्तस्य विशेषतः ।
निर्दहन्निव लोकांस्त्रीञ्शिष्यांश्चैतदुवाच ह ॥ ३ ॥

मूलम्

सोपश्यदरजां दीनां रजसा समभिप्लुताम् ।
ज्योत्स्नामिवारुणग्रस्तां प्रत्यूषे न विराजतीम् ॥ २ ॥
तस्य रोषः समभवत्क्षुधार्तस्य विशेषतः ।
निर्दहन्निव लोकांस्त्रीञ्शिष्यांश्चैतदुवाच ह ॥ ३ ॥

व्याख्या

प्रत्यूषे प्रातःकाले ॥ २-३ ॥

विश्वास-प्रस्तुतिः

पश्यध्वं विपरीतस्य दण्डस्याविजितात्मनः ।
विपत्तिं घोरसंकाशां क्रुद्धामग्निशिखामिव ॥ ४ ॥

मूलम्

पश्यध्वं विपरीतस्य दण्डस्याविजितात्मनः ।
विपत्तिं घोरसंकाशां क्रुद्धामग्निशिखामिव ॥ ४ ॥

व्याख्या

विपरीतस्य विपरीतानुष्ठानस्य । विपत्तिं विनाशं मत्क्रोधतो जायमानामिति शेषः । अग्निशिखामिव स्थितां क्रुद्धामरजां । क्रुद्धादग्निशिखामिवेति पाठे क्रुद्धान्मत्तो जायमानामग्निशिखासदृशीं विपत्तिं विनाशं पश्यध्वम् ॥ ४ ॥

विश्वास-प्रस्तुतिः

क्षयोस्य दुर्मतेः प्राप्तः सानुगस्य दुरात्मनः ।
यः प्रदीप्तां हुताशस्य शिखां वै स्प्रष्टुमिच्छति ॥ ५ ॥

मूलम्

क्षयोस्य दुर्मतेः प्राप्तः सानुगस्य दुरात्मनः ।
यः प्रदीप्तां हुताशस्य शिखां वै स्प्रष्टुमिच्छति ॥ ५ ॥

व्याख्या

अस्य प्राप्तः क्षय इति योजना ॥ ५ ॥

विश्वास-प्रस्तुतिः

यस्मात्स कृतवान्पापमीदृशं घोरसंहितम् ।
तस्मात्प्राप्स्यति दुर्मेधाः फलं पापस्य कर्मणः ॥ ६ ॥
सप्तरात्रेण राजाऽसौ सभृत्यबलवाहनः ।
पापकर्मसमाचारो वधं प्राप्स्यति दुर्मतिः ॥ ७ ॥

मूलम्

यस्मात्स कृतवान्पापमीदृशं घोरसंहितम् ।
तस्मात्प्राप्स्यति दुर्मेधाः फलं पापस्य कर्मणः ॥ ६ ॥
सप्तरात्रेण राजाऽसौ सभृत्यबलवाहनः ।
पापकर्मसमाचारो वधं प्राप्स्यति दुर्मतिः ॥ ७ ॥

व्याख्या

शिखां वै स्प्रष्टुमिच्छतीत्युक्तान्यापदेशार्थं विशदयति – यस्मादित्यादि । ईदृशमिति । मत्पुत्रीधर्षणरूपमित्यर्थः ॥ ६-७ ॥

विश्वास-प्रस्तुतिः

समन्ताद्योजनशतं विषयं चास्य दुर्मतेः ।
धक्ष्यते पांसुवर्षेण महता पाकशासनः ॥ ८ ॥

मूलम्

समन्ताद्योजनशतं विषयं चास्य दुर्मतेः ।
धक्ष्यते पांसुवर्षेण महता पाकशासनः ॥ ८ ॥

व्याख्या

धक्ष्यत इति । नाशयिष्यतीत्यर्थः ॥ ८ ॥

विश्वास-प्रस्तुतिः

सर्वसत्वानि यानीह स्थावराणि चराणि च ।
महता पांसुवर्षेण विलयं सर्वतोऽगमन् ॥ ९ ॥

मूलम्

सर्वसत्वानि यानीह स्थावराणि चराणि च ।
महता पांसुवर्षेण विलयं सर्वतोऽगमन् ॥ ९ ॥

व्याख्या

विलयमगमन् गमिष्यन्तीति यावत् ॥ ९ ॥

विश्वास-प्रस्तुतिः

दण्डस्य विषयो यावत्तावत्सर्वसमुच्छ्रयम् ।
पांसुवर्षमिवालक्ष्यं सप्तरात्रं भविष्यति ॥ १० ॥

मूलम्

दण्डस्य विषयो यावत्तावत्सर्वसमुच्छ्रयम् ।
पांसुवर्षमिवालक्ष्यं सप्तरात्रं भविष्यति ॥ १० ॥

व्याख्या

सर्वसमुच्छ्रयं चराचरप्राणिमात्रमित्यर्थः । उच्छ्रयत्यस्मादित्युच्छ्रयं । पांसुवर्षमिवालक्ष्यमिति । पांसुवर्षं प्रसिद्धप्रलयपांसुमहावर्षमिव प्राप्य सप्तरात्रं सप्तरात्रपर्यन्तमलक्ष्यं भविष्यतीति । विनष्टपुरपौरजानपदकं । भविष्यतीत्यर्थः ॥ १० ॥

विश्वास-प्रस्तुतिः

इत्युक्त्वा क्रोधताम्राक्षस्तदाश्रमनिवासिनम् ।
जनं जनपदान्तेषु स्थीयतामिति चाब्रवीत् ॥ ११ ॥

मूलम्

इत्युक्त्वा क्रोधताम्राक्षस्तदाश्रमनिवासिनम् ।
जनं जनपदान्तेषु स्थीयतामिति चाब्रवीत् ॥ ११ ॥

व्याख्या

तदाश्रमवासिनमिति । स्वाश्रमनिवासिनमित्यर्थः । जनपदान्तेषु दण्डजनपदसीमान्तदेशेष्वित्यर्थः ॥ ११ ॥

विश्वास-प्रस्तुतिः

श्रुत्वा तूशनसो वाक्यं सोश्रमावसथो जनः ।
निष्क्रान्तो विषयात्तस्मात्स्थानं चक्रेऽथ बाह्यतः ॥ १२ ॥

मूलम्

श्रुत्वा तूशनसो वाक्यं सोश्रमावसथो जनः ।
निष्क्रान्तो विषयात्तस्मात्स्थानं चक्रेऽथ बाह्यतः ॥ १२ ॥

व्याख्या

सोश्रमावसथ इति छान्दसः सन्धिः । एतावता कथं तदमृगद्विजमित्यस्योत्तरं निवृत्तम् ॥ १२ ॥

विश्वास-प्रस्तुतिः

स तथोक्त्वा मुनिजनमरजामिदमब्रवीत् ।
इहैव वस दुर्मेधे आश्रमे सुसमाहिता ॥ १३ ॥

मूलम्

स तथोक्त्वा मुनिजनमरजामिदमब्रवीत् ।
इहैव वस दुर्मेधे आश्रमे सुसमाहिता ॥ १३ ॥

व्याख्या

निर्जनं वनं कथं तपसे प्रविष्ट इत्यस्योत्तरमाह-स तथेत्यादि ॥ तव समलत्वात् इहैव वसेति । वासप्रयोजनमाह -सुसमाहितेति । शोभनसमाधिमतीत्यर्थः । समाध्यनुष्ठानस्यापि निमित्तमाह – दुर्मेध इति । यस्माद्धर्षणसहिष्णुर्दुर्बुद्धिरसि, ततः तादृशमलमोचनार्थं समाधिमती सती वसेत्यर्थः ॥ १३ ॥

विश्वास-प्रस्तुतिः

इदं योजनपर्यन्तं सरः सुरुचिरप्रभम् ।
अरजे विज्वरा भुङ्क्ष्व कालश्चात्र प्रतीक्ष्यताम् ॥ १४ ॥

मूलम्

इदं योजनपर्यन्तं सरः सुरुचिरप्रभम् ।
अरजे विज्वरा भुङ्क्ष्व कालश्चात्र प्रतीक्ष्यताम् ॥ १४ ॥

व्याख्या

कथं वस्तुं शक्यं पांसुवर्ष इत्यत्राह – इदं योजनपर्यन्तमित्यादि ॥ १४ ॥

विश्वास-प्रस्तुतिः

त्वत्समीपे च ये सत्त्वा वासमेष्यन्ति तां निशाम् ।
अवध्याः पांसुवर्षेण ते भविष्यन्ति नित्यदा ॥ १५ ॥
श्रुत्वा नियोगं ब्रह्मर्षेः साऽरजा भार्गवी तदा ।
तथेति पितरं प्राह भार्गवं भृशदुःखिता ।
इत्युक्त्वा भार्गवो वासमन्यत्र समकारयत् ॥ १६ ॥
तच्च राज्यं नरेन्द्रस्य सभृत्यबलवाहनम् ।
सप्ताहाद्भस्मसाद्भूतं यथोक्तं ब्रह्मवादिना ॥ १७ ॥

सत्त्वाः पक्ष्यादयः । एवं चोशनसोनुग्रहेण सरः प्रदेशस्य सुखावहत्वात्सुखवासत्वाच्चात्र तपसे प्रविष्ट इति भावः ॥ १५-१७ ॥

विश्वास-प्रस्तुतिः

तस्यासौ दण्डविषयो विन्ध्यशैवलयोर्नृप ।
शप्तो ब्रह्मर्षिणा तेन वैधर्म्ये सहिते कृते ॥ १८ ॥
ततः प्रभृति काकुत्स्थ दण्डकारण्यमुच्यते ।
तपस्विनः स्थिता ह्यत्र जनस्थानमतोऽभवत् ॥ १९ ॥
एतत्ते सर्वमाख्यातं यन्मां पृच्छसि राघव ।
सन्ध्यामुपासितुं वीर समयो ह्यतिवर्तते ॥ २० ॥

तस्यासौ । व्यत्ययात् षष्ठी । सोसावित्यर्थः । सहिते पूर्णधर्मपूर्णसौख्यसहित इत्यर्थः । कृते कृतयुगे ॥ १८-२० ॥

विश्वास-प्रस्तुतिः

एते महर्षयः सर्वे पूर्णकुम्भाः समन्ततः ।
कृतोदका नरव्याघ्र आदित्यं पर्युपासते ॥ २१ ॥

मूलम्

एते महर्षयः सर्वे पूर्णकुम्भाः समन्ततः ।
कृतोदका नरव्याघ्र आदित्यं पर्युपासते ॥ २१ ॥

व्याख्या

कृतोदकाः कृतस्नानादिकर्माण इत्यर्थः ॥ २१ ॥

विश्वास-प्रस्तुतिः

स तैर्ब्राह्मणमभ्यस्तं सहितैर्ब्रह्मवित्तमैः ।
रविरस्तं गतो राम गच्छोदकमुपस्पृश ॥ २२ ॥

मूलम्

स तैर्ब्राह्मणमभ्यस्तं सहितैर्ब्रह्मवित्तमैः ।
रविरस्तं गतो राम गच्छोदकमुपस्पृश ॥ २२ ॥

व्याख्या

स रविः ब्रह्मवित्तमैः तीर्थसमीपे सहितैः संगतैस्तैर्ऋषिभिरभ्यस्तं ब्राह्मणं ब्रह्ममन्त्रतन्त्रयोगाभ्यासलक्षणपूजां प्राप्येति शेषः ॥ २२ ॥

विश्वास-प्रस्तुतिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकाशीतितमः सर्गः ॥ ८१ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकाशीतितमः सर्गः ॥ ८१ ॥

मूलम्

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकाशीतितमः सर्गः ॥ ८१ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकाशीतितमः सर्गः ॥ ८१ ॥