विश्वास-प्रस्तुतिः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनाशीतितमः सर्गः
मूलम्
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनाशीतितमः सर्गः
विषयाः
अगस्त्येन राम-चोदनया
तं प्रति श्वेत-राज–तपो-वनस्य निर्जनत्व-कारण-कथनारंभः ॥ १ ॥
मनु-पुत्रेणेक्ष्वाकुणा पित्राज्ञया
यागाद्य्-उपायैः पुत्र-शतकोत्पादनम् ॥ २ ॥
तत्रान्तिम-पुत्रस्य भावि-दण्ड-विज्ञानेन
दण्ड इति नाम-करण-पूर्वकं
तं प्रति विन्ध्य-शैवल-मध्ये राज्य-करण-नियोजनम् ॥ ३ ॥
दण्डेन राज्ञा शुक्राचार्यस्य पौरोहित्ये वरण-पूर्वकं
राज्य-करणम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
तदद्भुततमं वाक्यं श्रुत्वाऽगस्त्यस्य राघवः ।
गौरवाद्विस्मयाच्चैव पुनः प्रष्टुं प्रचक्रमे ॥ १ ॥
मूलम्
तदद्भुततमं वाक्यं श्रुत्वाऽगस्त्यस्य राघवः ।
गौरवाद्विस्मयाच्चैव पुनः प्रष्टुं प्रचक्रमे ॥ १ ॥
व्याख्या
तदित्यादि ॥ गौरवात् सर्वज्ञः सर्ववक्तेति संभावनया ॥ १ ॥
विश्वास-प्रस्तुतिः
भगवंस्तद्वनं घोरं तपस्तप्यति यत्र सः ।
श्वेतो वैदर्भको राजा कथं स्यादमृगद्विजम् ॥ २ ॥
मूलम्
भगवंस्तद्वनं घोरं तपस्तप्यति यत्र सः ।
श्वेतो वैदर्भको राजा कथं स्यादमृगद्विजम् ॥ २ ॥
व्याख्या
स यत्र तप्यति तद्वनं कथममृगद्विजम् ॥ २ ॥
विश्वास-प्रस्तुतिः
तद्वनं स कथं राजा शून्यं मनुजवर्जितम् ।
तपश्चर्तुं प्रविष्टः स श्रोतुमिच्छामि तत्वतः ॥ ३ ॥
रामस्य वचनं श्रुत्वा कौतूहलसमन्वितम् ।
वाक्यं परमतेजस्वी वक्तुमेवोपचक्रमे ॥ ४ ॥
मूलम्
तद्वनं स कथं राजा शून्यं मनुजवर्जितम् ।
तपश्चर्तुं प्रविष्टः स श्रोतुमिच्छामि तत्वतः ॥ ३ ॥
रामस्य वचनं श्रुत्वा कौतूहलसमन्वितम् ।
वाक्यं परमतेजस्वी वक्तुमेवोपचक्रमे ॥ ४ ॥
व्याख्या
कथं तादृशं तद्वनं तपश्चर्तुं चरितुं प्रविष्टः ॥ ३-४ ॥
विश्वास-प्रस्तुतिः
पुरा कृतयुगे राम मनुर्दण्डधरः प्रभुः ।
तस्य पुत्रो महानासीदिक्ष्वाकुः कुलनन्दनः ॥ ५ ॥
तं पुत्रं पूर्वकं राज्ये निक्षिप्य भुवि दुर्जयम् ।
पृथिव्यां राजवंशानां भव कर्तेत्युवाच ह ॥ ६ ॥
तथेति च प्रतिज्ञातं पितुः पुत्रेण राघव ।
ततः परमसंतुष्टो मनुः पुत्रमुवाच ह ॥ ७ ॥

दण्डधरो राजा प्रभुः वर्णाश्रमविभागतद्धर्मप्रवर्तनाधिकृतः ॥ ५-७ ॥
विश्वास-प्रस्तुतिः
प्रीतोस्मि परमोदार त्वं कर्तासि न संशयः ।
दण्डेन च प्रजा रक्ष मा च दण्डमकारणे ॥ ८ ॥
मूलम्
प्रीतोस्मि परमोदार त्वं कर्तासि न संशयः ।
दण्डेन च प्रजा रक्ष मा च दण्डमकारणे ॥ ८ ॥
व्याख्या
दण्डेन चेति । क्षत्रियसहजधर्मभूतेन । अकारणे दण्डं मा पातयेतिशेषः ॥ ८ ॥
विश्वास-प्रस्तुतिः
अपराधिषु यो दण्डः पात्यते मानवेषु वै ।
स दण्डो विधिवन्मुक्तः स्वर्गं नयति पार्थिवम् ॥ ९ ॥
तस्माद्दण्डे महाबाहो यत्नवान्भव पुत्रक ।
धर्मो हि परमो लोके कुर्वतस्ते भविष्यति ॥ १० ॥
मूलम्
अपराधिषु यो दण्डः पात्यते मानवेषु वै ।
स दण्डो विधिवन्मुक्तः स्वर्गं नयति पार्थिवम् ॥ ९ ॥
तस्माद्दण्डे महाबाहो यत्नवान्भव पुत्रक ।
धर्मो हि परमो लोके कुर्वतस्ते भविष्यति ॥ १० ॥
व्याख्या
ननु कथं परपीडावहो दण्डो युक्तः कर्तुमिति तत्राह – अपराधिष्वित्यादि । विधिवद्यथाशास्त्रं यथापराधं । मुक्तः प्रवर्तित इत्यर्थः ॥ ९-१० ॥
विश्वास-प्रस्तुतिः
इति तं बहु संदिश्य मनुः पुत्रं समाधिना ।
जगाम त्रिदिवं हृष्टो ब्रह्मलोकं सनातनम् ॥ ११ ॥
प्रयाते त्रिदिवं तस्मिन्निक्ष्वाकुरमितप्रभः ।
जनयिष्ये कथं पुत्रानिति चिन्तापरोऽभवत् ॥ १२ ॥
मूलम्
इति तं बहु संदिश्य मनुः पुत्रं समाधिना ।
जगाम त्रिदिवं हृष्टो ब्रह्मलोकं सनातनम् ॥ ११ ॥
प्रयाते त्रिदिवं तस्मिन्निक्ष्वाकुरमितप्रभः ।
जनयिष्ये कथं पुत्रानिति चिन्तापरोऽभवत् ॥ १२ ॥
व्याख्या
समाधिना योगेन ॥ ११-१२ ॥
विश्वास-प्रस्तुतिः
कर्मभिर्बहुरूपैश्च तैस्तैर्मनुसुतः सुतान् ।
जनयामास धर्मात्मा शतं देवसुतोपमान् ॥ १३ ॥
मूलम्
कर्मभिर्बहुरूपैश्च तैस्तैर्मनुसुतः सुतान् ।
जनयामास धर्मात्मा शतं देवसुतोपमान् ॥ १३ ॥
व्याख्या
बहुरूपैरिति । यज्ञदानतपोलक्षणेरित्यर्थः ॥ १३ ॥
विश्वास-प्रस्तुतिः
तेषामवरजस्तात सर्वेषां रघुनन्दन ।
मूढश्चाकृतविद्यश्च न शुश्रूषति पूर्वजान् ॥ १४ ॥
मूलम्
तेषामवरजस्तात सर्वेषां रघुनन्दन ।
मूढश्चाकृतविद्यश्च न शुश्रूषति पूर्वजान् ॥ १४ ॥
व्याख्या
पूर्वजाः ज्येष्ठाः ॥ १४ ॥
विश्वास-प्रस्तुतिः
नाम तस्य च दण्डेति पिता चक्रेऽल्पमेधसः ।
अवश्यं दण्डपतनं शरीरेऽस्य भविष्यति ॥ १५ ॥
अपश्यमानस्तं देशं घोरं पुत्रस्य राघव ।
विन्ध्यशैवलयोर्मध्ये राज्यं प्रादादरिन्दम ॥ १६ ॥
मूलम्
नाम तस्य च दण्डेति पिता चक्रेऽल्पमेधसः ।
अवश्यं दण्डपतनं शरीरेऽस्य भविष्यति ॥ १५ ॥
अपश्यमानस्तं देशं घोरं पुत्रस्य राघव ।
विन्ध्यशैवलयोर्मध्ये राज्यं प्रादादरिन्दम ॥ १६ ॥
व्याख्या
दण्ड इत्याख्याकरणं पितुः सर्वज्ञत्वात् अन्वर्थतावसायपूर्वकमित्याह-अवश्यमित्यादि ॥ १५-१६ ॥
विश्वास-प्रस्तुतिः
स दण्डस्तत्र राजाऽभूद्रम्ये पर्वतरोधसि ।
पुरं चाप्रतिमं राम न्यवेशयदनुत्तमम् ॥ १७ ॥
पुरस्य चाकरोन्नाम मधुमन्तमिति प्रभो ।
पुरोहितं तूशनसं वरयामास सुव्रतम् ॥ १८ ॥
एवं स राजा तद्राज्यमकरोत्सपुरोहितः ।
प्रहृष्टमनुजाकीर्णं देवराज्यं यथा वृषा ॥ १९ ॥
ततः स राजा मनुजेन्द्रपुत्रः सार्धं च तेनोशनसा तदानीम् ।
चकार राज्यं सुमहन्महात्मा शक्रो दिवीवोशनसा समेतः ॥ २० ॥

पर्वतरोधसि पर्वततटप्रान्ते ॥ १७-२० ॥
विश्वास-प्रस्तुतिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनाशीतितमः सर्गः ॥ ७९ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकोनाशीतितमः सर्गः ॥ ७९ ॥
मूलम्
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनाशीतितमः सर्गः ॥ ७९ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकोनाशीतितमः सर्गः ॥ ७९ ॥