विश्वास-प्रस्तुतिः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चसप्ततितमः सर्गः
मूलम्

विषयाः
नारद-वचन-श्रवण-हृष्टेन रामेण
लक्ष्मणं प्रति ब्राह्मण-बालक-कलेबरस्य
तैल-द्रोण्यां निधापनेन
रक्षण-चोदन-पूर्वकं
स्मरण-मात्र-संनिहित-पुष्पक–विमानारोहणेन
क्रमेण प्रतीच्यादि-दिक्-चतुष्टये
दुष्कृत-कारिणो ऽन्वेषणम् ॥ १ ॥
दक्षिणस्यां दिशि
शैवल-शैलोत्तर-पार्श्व-वर्ति–सरस्-तीरे
अधो-मूर्धतया तपस्यतः कस्यचिद् अवलोकनम् ॥ २ ॥
तथा तं प्रति तदीय-वर्णस्य तद्-अभिलषित-तपः फलस्य च प्रश्नः ॥ ३ ॥
विश्वास-प्रस्तुतिः
नारदस्य तु तद्वाक्यं श्रुत्वामृतमयं तदा ।
प्रहर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीत् ॥ १ ॥
गच्छ सौम्य द्विज श्रेष्ठं समाश्वासय सुव्रतम् ।
बालस्य तु शरीरं तत्तैलद्रोण्यां निधापय ॥ २ ॥
गन्धैश्च परमोदारैस्तैलैश्चापि सुगन्धिभिः ।
यथा न क्षीयते बालस्तथा सौम्य विधीयताम् ॥ ३ ॥

व्याख्या
नारदस्येत्यादि ॥ १-३ ॥
विश्वास-प्रस्तुतिः
यथा शरीरो बालस्य गुप्तः सञ्शिष्टकर्मणः ।
विपत्तिः परिभेदो वा न भवेच्च तथा कुरु ॥ ४ ॥
एवमादिश्य काकुत्स्थो लक्ष्मणं शुभलक्षणम् ।
मनसा पुष्पकं दध्यावागच्छेति महायशाः ॥ ५ ॥

उक्तार्थस्य विवरणं-यथेत्यादि ॥ बालस्य शरीर इति लिङ्गव्यत्ययः । विपत्तिः स्वरूपनाशः । भेदः सन्धिबन्धादिविनिर्मु क्तिः ॥ ४-५ ॥
विश्वास-प्रस्तुतिः
इङ्गितं स तु विज्ञाय पुष्पको हेमभूषितः ।
आजगाम मुहूर्तेन समीपं राघवस्य वै ॥ ६ ॥
सोब्रवीत्प्रणतो भूत्वा अयमस्मि नराधिप ।
वश्यस्तव महाबाहो किंकरः समुपस्थितः ॥ ७ ॥
भाषितं रुचिरं श्रुत्वा पुष्पकस्य नराधिपः ।
अभिवाद्य महर्षींस्तान्विमानं सोध्यरोहत ॥ ८ ॥
धनुर्गृहीत्वा तूणी च खङ्गं च रुचिरप्रभम् ।
निक्षिप्य नगरे वीरौ सौमित्रिभरतावुभौ ॥ ९ ॥

स त्विति । पुष्पकाधिष्ठातृचेतन इत्यर्थः ॥ ६-९ ॥
विश्वास-प्रस्तुतिः
प्रायात्प्रतीचीं हरितं विचिन्वंश्च ततस्ततः ।
उत्तरामगमच्छ्रीमान्दिशं हिमवता वृताम् ॥ १० ॥
मूलम्
प्रायात्प्रतीचीं हरितं विचिन्वंश्च ततस्ततः ।
उत्तरामगमच्छ्रीमान्दिशं हिमवता वृताम् ॥ १० ॥
व्याख्या
हरितं दिशं विचिन्वन्निति । शूद्रतपस्विनमिति शेषः ॥ १० ॥
विश्वास-प्रस्तुतिः
अपश्यमानस्तत्रापि स्वल्पमप्यथ दुष्कृतम् ।
पूर्वामपि दिशं सर्वामथापश्यन्नराधिपः ॥ ११ ॥
प्रविशुद्धसमाचारामादर्शतलनिर्मलाम् ।
पुष्पकस्थो महाबाहुस्तदा पश्यन्नराधिपः ॥ १२ ॥

अपश्यमानः अपश्यन् ॥ ११-१२
विश्वास-प्रस्तुतिः
दक्षिणां दिशमाक्रामत्ततो राजर्षिनन्दनः ।
शैवलस्योत्तरे पार्श्वे ददर्श सुमहत्सरः ॥ १३ ॥
तस्मिन्सरसि तप्यन्तं तापसं सुमहत्तपः ।
ददर्श राघवः श्रीमाँल्लम्बमानमधोमुखम् ॥ १४ ॥
राघवस्तमुपागम्य तप्यन्तं तप उत्तमम् ।
उवाच स तदा वाक्यं धन्यस्त्वमसि सुव्रत ॥ १५ ॥
कस्यां योन्यां तपोवृद्ध वर्तसे दृढविक्रम ।
कौतूहलात्वां पृच्छामि रामो दाशरथिर्ह्यहम् ॥ १६ ॥

॥ शैवलाख्यस्य विन्ध्यसमीपवर्तिगिरेः ॥ १३-१६ ॥
विश्वास-प्रस्तुतिः
कोर्थो मनीषितस्तुभ्यं स्वर्गलाभः परोथ वा ।
वराश्रयो यदर्थं त्वं तपस्यसि सुदुष्करम् ।
यमाश्रित्य तपस्तप्तं श्रोतुमिच्छामि तापस ॥ १७ ॥

तुभ्यं तव । वराश्रयः तपः-प्रीतदेवतावरलभ्यो मनीषितोभीष्टोर्थः स्वर्भोगो वा अन्यो वा । यमाश्रित्य ॥ १७ ॥
विश्वास-प्रस्तुतिः
ब्राह्मणो वाऽसि भद्रं ते क्षत्रियो वाऽसि दुर्जयः ।
वैश्यस्तृतीयवर्णो वा शूद्रो वा सत्यवाग्भव ॥ १८ ॥
इत्येवमुक्तः स नराधिपेन ह्यवाक्छिरा दाशरथाय तस्मै ।
उवाच जातिं नृपपुवाय यत्कारणे चैव तपःप्रयत्नः ॥ १९ ॥

सत्यवाग्भव सत्यं कथयेत्यर्थः ॥ १८-१९ ॥
विश्वास-प्रस्तुतिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चसप्ततितमः सर्गः ॥ ७५ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्चसप्ततितमः सर्गः ॥ ७५ ॥