विश्वास-प्रस्तुतिः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुःसप्ततितमः सर्गः
मूलम्
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुःसप्ततितमः सर्गः
विषयाः
मृत-पुत्रक-ब्राह्मण-रोदन-रव-श्राविणा रामेण
वसिष्ठाद्य्-आनयन-पूर्वकं
तान् प्रति बाल-मरण-कारण-प्रश्नः ॥ १ ॥
तत्र नारदेन रामं प्रति
युग-चतुष्टय-संबन्धि–चातुर्-वर्ण्य-धर्म-निरूपण-पूर्वकं
येन केनापि स्ववर्ण-विरुद्ध-धर्माचरणे
तस्य एतादृशाकाल-मरणादि रूपानर्थ-हेतुत्वोक्त्या
प्रकृते तादृश-विरुद्ध-धर्माचरण-रतस्य कस्याप्य् अन्वेषणेन
तद्-दण्डने सति
मृत-बालकस्य पुनर्-उज्जीवनोक्तिः ॥ २ ॥
विश्वास-प्रस्तुतिः
तथा तु करुणं तस्य द्विजस्य परिदेवनम् ।
शुश्राव राघवः सर्वं दुःखशोकसमन्वितम् ॥ १ ॥
स दुःखेन च सन्तप्तो मन्त्रिणस्तानुपाह्वयत् ।
वसिष्ठं वामदेवं च भ्रातरौ सहनैगमान् ॥ २ ॥
ततो द्विजा वसिष्ठेन सार्धमष्टौ प्रवेशिताः ।
राजानं देवसंकाशं वर्धस्वेति ततोऽब्रुवन् ॥ ३ ॥
मार्कण्डेयोथ मौद्गल्यो वामदेवश्च काश्यपः ।
कात्यायनोथ जाबालिर्गौतमो नारदस्तथा ।
एते द्विजर्षभाः सर्वे आसनेषूपवेशिताः ॥ ४ ॥
महर्षीन्समनुप्राप्तानभिवाद्य कृताञ्जलिः ।
मन्त्रिणो नैगमांश्चैव यथार्हमनुकूलतः ॥ ५ ॥
तेषां समुपविष्टानां सर्वेषां दीप्ततेजसाम् ।
राघवः सर्वमाचष्टे द्विजोऽयमुपरोधते ॥ ६ ॥
तस्य तद्वचनं श्रुत्वा राज्ञो दीनस्य नारदः ।
प्रत्युवाच शुभं वाक्यमृषीणां सन्निधौ नृपम् ॥ ७ ॥

व्याख्या
राघवः द्विजोयं उपरोधत इति सर्वमाचष्टे ॥ ६-७ ॥
विश्वास-प्रस्तुतिः
शृणु राजन्यथाऽकाले प्राप्तो चालस्य संक्षयः ।
श्रुत्वा कर्तव्यतां राजन्कुरुष्व रघुनन्दन ॥ ८ ॥
मूलम्
शृणु राजन्यथाऽकाले प्राप्तो चालस्य संक्षयः ।
श्रुत्वा कर्तव्यतां राजन्कुरुष्व रघुनन्दन ॥ ८ ॥
व्याख्या
हे राजन् अकाले अयं बालसंक्षयः यथा येन प्रकारेण प्राप्तः तच्छृणु । ततस्तस्य प्रतिक्रियायाः कर्तव्यतां श्रुत्वा तत्कुरुष्व ॥ ८ ॥
विश्वास-प्रस्तुतिः
पुरा कृतयुगे राजन्ब्राह्मणा वै तपस्विनः ।
अब्राह्मणस्तदा राजन्न तपस्वी कथंचन ॥ ९ ॥
मूलम्
पुरा कृतयुगे राजन्ब्राह्मणा वै तपस्विनः ।
अब्राह्मणस्तदा राजन्न तपस्वी कथंचन ॥ ९ ॥
व्याख्या
प्रतिज्ञातमर्थमुपपादयितुं पीठिकामाह – पुरेत्यादि । त्रेतायुगे अनर्हस्य शूद्रस्य तपश्चरणमधर्मः । तेनायं बालवध इति वक्तुं चतुर्युगधर्माः क्रमेण चोच्यन्ते । कृतयुगे ब्राह्मणा एव तपस्विनो भवन्ति । अनशनप्रभृतिकायक्लेशकारिणो भवन्ति । ततस्तस्मादब्राह्मणः ब्राह्मणव्यतिरिक्तवर्णः कथंचन तपस्वी न भवति । नित्यनैमित्तिककर्ममात्रपर एव भवति ॥ ९ ॥
विश्वास-प्रस्तुतिः
तस्मिन्युगे प्रज्वलिते ब्रह्मभूते त्वनावृते ।
अमृत्यवस्तदा सर्वे जज्ञिरे दीर्घदर्शिनः ॥ १० ॥
मूलम्
तस्मिन्युगे प्रज्वलिते ब्रह्मभूते त्वनावृते ।
अमृत्यवस्तदा सर्वे जज्ञिरे दीर्घदर्शिनः ॥ १० ॥
व्याख्या
प्रज्वलिते तपसा दीप्ते । ब्रह्मभूते ब्राह्मणवर्णप्रधाने । अनावृते अज्ञानावरणरहिते । तस्मिन्युगे कृतयुगे । सर्व एव तदा अमृत्यवः मरणहेत्वधर्मलेशस्याप्यभावात् मरणरहिताः । अज्ञानानावृतत्वाद्दीर्घदर्शिनः अतीतानागतज्ञाश्च भवन्ति ॥ १० ॥
विश्वास-प्रस्तुतिः
ततस्त्रेतायुगं नाम मानवानां वपुष्मताम् ।
क्षत्रियास्तत्र जायन्ते पूर्वेण तपसाऽन्विताः ॥ ११ ॥
मूलम्
ततस्त्रेतायुगं नाम मानवानां वपुष्मताम् ।
क्षत्रियास्तत्र जायन्ते पूर्वेण तपसाऽन्विताः ॥ ११ ॥
व्याख्या
ततः कृतयुगावसाने । वपुष्मतां दृढशरीराणां । मानवानां मनुवंशक्षत्रियाणां संबन्धि त्रेतायुगं नाम भवति । तत्प्रधानत्वात्तत्संबन्धित्वं । तत्र त्रेतायां । क्षत्रियाः पूर्णेन तपसान्विता जायन्ते ॥ ११ ॥
विश्वास-प्रस्तुतिः
वीर्येण तपसा चैव तेऽधिकाः पूर्वजन्मनि ।
मानवा ये महात्मानस्त्वत्र त्रेतायुगे युगे ॥ १२ ॥
मूलम्
वीर्येण तपसा चैव तेऽधिकाः पूर्वजन्मनि ।
मानवा ये महात्मानस्त्वत्र त्रेतायुगे युगे ॥ १२ ॥
व्याख्या
त्रेतायुगे तपस्विनो जाताः क्षत्रियाः कृतयुगे तपस्विभिर्ब्राह्मणैः किं तुल्याः नेत्याह-वीर्येणेति ॥ अत्र त्रेतायुगे युगे । त्रेतायुगाख्ये युगे । महात्मानो ये मानवाः सन्ति तदपेक्षया पूर्वजन्मनि पूर्वस्मिन् कृतयुगे ये मानवास्ते तपसा वीर्येण चाधिकाः ॥ १२ ॥
विश्वास-प्रस्तुतिः
ब्रह्म क्षत्रं च तत्सर्वं यत्पूर्वमपरं च यत् ।
युगयोरुभयोरासीत्समवीर्यसमन्वितम् ॥ १३ ॥
मूलम्
ब्रह्म क्षत्रं च तत्सर्वं यत्पूर्वमपरं च यत् ।
युगयोरुभयोरासीत्समवीर्यसमन्वितम् ॥ १३ ॥
व्याख्या
त्रेतायुगब्राह्मणास्तुल्या एवेत्याह-ब्रह्मेति ॥ उभयोर्युगयोः कृतत्रेतयोः । कृते यद्ब्रह्म पूर्वमुत्कृष्टं यच्च त्रेतायामपकृष्टं क्षत्रं तदुभयं त्रेतायां समप्रधानमासीत् ॥ १३ ॥
विश्वास-प्रस्तुतिः
अपश्यंस्तु न ते सर्वे विशेषमधिकं ततः ।
स्थापनं चक्रिरे तत्र चातुर्वर्ण्यस्य संमतम् ॥ १४ ॥
मूलम्
अपश्यंस्तु न ते सर्वे विशेषमधिकं ततः ।
स्थापनं चक्रिरे तत्र चातुर्वर्ण्यस्य संमतम् ॥ १४ ॥
व्याख्या
एतदेवाह-अपश्यन्निति ॥ सर्वे जनाः । ततः क्षत्रियात् । ब्राह्मणस्याधिकं विशेषं तु नापश्यन् । अपश्यन्तस्तु ते सर्व इति पाठः । तत्स्थापनमाचारभेदं वेदोदितं चक्रिरे । चातुर्वर्ण्यस्येत्यत्र स्वार्थेष्यञ् कृतयुगे तपस्तदभावाभ्यामुभयोर्वैलक्षण्यं स्पष्टं त्रेतायुगे उभयोरपि तपस्साम्यात् वैलक्षण्यकरमाचारभेदमकल्पयन्नित्यर्थः । एवं वैश्यशूद्रयोरपि वेदपुराणोक्ताचारव्यवस्थां महान्तोकल्पयन्नित्यर्थः ॥ १४ ॥
विश्वास-प्रस्तुतिः
तस्मिन्युगे प्रज्वलिते धर्मभूते ह्यनावृते ।
अधर्मः पादमेकं तु पातयत्पृथिवीतले ॥ १५ ॥
मूलम्
तस्मिन्युगे प्रज्वलिते धर्मभूते ह्यनावृते ।
अधर्मः पादमेकं तु पातयत्पृथिवीतले ॥ १५ ॥
व्याख्या
धर्मभूते यज्ञादिधर्मप्रधाने । अनावृते अधर्मावरणरहिते । तस्मिन् त्रेतायुगे प्रवृत्ते अधर्मः पादं चतुर्थांशं पातयदपातयत् वर्तयामास । त्रेतायुगपुरुषाः कृतयुगपुरुषवद्विमलज्ञानरहिततया ब्रह्मज्ञानाधिकारशून्याः वर्णाश्रमधर्मानेवाचरन् । अतो विमलज्ञानाभावादधर्मः पादमवतीर्ण इत्यर्थः ॥ १५ ॥
विश्वास-प्रस्तुतिः
अधर्मेण हि संयुक्तस्तेजो मन्दं भविष्यति ॥ १६ ॥
मूलम्
अधर्मेण हि संयुक्तस्तेजो मन्दं भविष्यति ॥ १६ ॥
व्याख्या
एवमीषत्पापसं-बन्धात्तदातनानां जनानां प्रभावः पूर्वयुगपुरुषेभ्यः क्षीणोभूदित्याह-अधर्मेणहीति ॥ भविष्यतीति भूते लट् ॥ १६ ॥
विश्वास-प्रस्तुतिः
आमिषं यच्च पूर्वेषां राजसं च मलं भृशम् ।
अनृतं नाम तद्भूतं पादेन पृथिवीतले ॥ १७ ॥
मूलम्
आमिषं यच्च पूर्वेषां राजसं च मलं भृशम् ।
अनृतं नाम तद्भूतं पादेन पृथिवीतले ॥ १७ ॥
व्याख्या
एवं त्रेतायुगजनानां प्रभावस्याल्पत्वेन सत्यसंकल्पत्वाकृष्टपच्यत्वादिसिद्ध्यभावात् कृष्यादिकमेव जीवनोपायोभूदित्याह -आमिषमिति ॥ सर्वेषां कृतयुगब्राह्मणानां राज्ञां च भृशं मलं मलवन्निन्द्यमानमामिषं जीवनोपायः अनृतं कृषिः नाम प्रसिद्धं यदस्ति तत्पृथिवीतले पादेन भूतं स्थितं । कृतयुगपुरुषतुल्यवैभवाभावेनाकृष्टपच्यत्वाद्यभावात् त्रेतायुगपुरुषाणा -मनृतमेव जीवनोपायोभूदित्यर्थः । सेवा श्ववृत्तिरनृतं कृषिरुञ्छशिलं त्वृतं इत्यमरः ॥ १७ ॥
विश्वास-प्रस्तुतिः
अनृतं पातयित्वा तु पादमेकमधर्मतः ।
ततः प्रादुष्कृतं पूर्वमायुषः परिनिष्ठितम् ॥ १८ ॥
मूलम्
अनृतं पातयित्वा तु पादमेकमधर्मतः ।
ततः प्रादुष्कृतं पूर्वमायुषः परिनिष्ठितम् ॥ १८ ॥
व्याख्या
एवमायुषः क्षयोप्यभूदित्याह-अनृतमिति ॥ अधर्मतः अधर्मस्तदेकं पादमनृतलक्षणं जीवनोपायं पातयित्वा निक्षिप्य । ततस्तेनैव पातेन पूर्वं प्रथममायुषः परिनिष्ठितं विनाशः प्रादुष्कृतं प्रादुर्भूतं । कृतयुगपुरुषापेक्षया त्रेतायुगपुरुषा न्यूनायुषोऽभव न्नित्यर्थः ॥ १८ ॥
विश्वास-प्रस्तुतिः
पतिते त्वनृते तस्मिन्नधर्मे च महीतले ।
शुभान्येवाचरल्लोकः सत्यधर्मपरायणः ॥ १९ ॥
मूलम्
पतिते त्वनृते तस्मिन्नधर्मे च महीतले ।
शुभान्येवाचरल्लोकः सत्यधर्मपरायणः ॥ १९ ॥
व्याख्या
एवमनुभावस्यायुषःक्षये प्रवृत्ते सति भीताः सन्तः त्रेतायुगपुरुषाः शुभाचरणे निरता आसन्नित्याह-पतिते त्विति ॥ अधर्मे अधर्मजायुः-क्षये । पातिते त्वनृते तस्मिन्नधर्मेणेति च पाठः ॥ १९ ॥
विश्वास-प्रस्तुतिः
त्रेतायुगे च वर्तन्ते ब्राह्मणाः क्षत्रियाश्च ये ।
तपोतप्यन्त ते सर्वे शुश्रूषापरे जनाः ॥ २० ॥
मूलम्
त्रेतायुगे च वर्तन्ते ब्राह्मणाः क्षत्रियाश्च ये ।
तपोतप्यन्त ते सर्वे शुश्रूषापरे जनाः ॥ २० ॥
व्याख्या
शुभाचारे भेदमेव दर्शयति – त्रेतेति ॥ शुश्रूषां पूर्ववर्णपरिचर्यां । अपरे वैश्यशूद्राः । अकुर्वन्निति शेषः ॥ २० ॥
विश्वास-प्रस्तुतिः
स धर्मः परमस्तेषां वैश्यशूद्रं समागमत् ।
पूजां च सर्ववर्णानां शूद्राश्चक्रुर्विशेषतः ॥ २१ ॥
मूलम्
स धर्मः परमस्तेषां वैश्यशूद्रं समागमत् ।
पूजां च सर्ववर्णानां शूद्राश्चक्रुर्विशेषतः ॥ २१ ॥
व्याख्या
शुश्रूषावत् पूर्वोक्तकृष्यादिकमपि वैश्यशूद्रयोः परमधर्मोभूदित्याह- स धर्म इति ॥ स्वधर्मः परम इति च पाठः । पूजां चेति । वैश्यानां हि शुश्रूषा । अतोपि कृष्यादिकमेव परमो धर्मोभूत् । शूद्राणां कृष्यादिभ्योपि शुश्रूषैव विशिष्टो धर्मोभूदित्यर्थः ॥ २१ ॥
विश्वास-प्रस्तुतिः
एतस्मिन्नन्तरे तेषामधर्मे चानृते च ह ।
ततः पूर्वे भृशं ह्रासमगमन्नृपसत्तम ॥ २२ ॥
मूलम्
एतस्मिन्नन्तरे तेषामधर्मे चानृते च ह ।
ततः पूर्वे भृशं ह्रासमगमन्नृपसत्तम ॥ २२ ॥
व्याख्या
एवं त्रेतायुगे लोकस्थितिमुक्त्वा तदवस्थानकालस्थितिमाह – एतस्मिन्निति । एतस्मिन्नन्तरे त्रेतायुगावसानकाले । अधर्मे अधर्मकार्ये आयुषः क्षये । अनृते कृष्याद्युपाये च प्रवृत्ते सति क्षीणायुषो वृत्तिकार्शिताश्च । पूर्वे त्रेतायुगस्थाः ह्रासं विनाशमगमन् ॥ २२ ॥
विश्वास-प्रस्तुतिः
ततः पादमधर्मः स द्वितीयमवतारयत् ।
ततो द्वापरसंज्ञाऽस्य युगस्य समजायत ॥ २३ ॥
मूलम्
ततः पादमधर्मः स द्वितीयमवतारयत् ।
ततो द्वापरसंज्ञाऽस्य युगस्य समजायत ॥ २३ ॥
व्याख्या
अधर्मः सः त्रेतायुगप्रसारितैकपादः ॥ २३ ॥
विश्वास-प्रस्तुतिः
तस्मिन्द्वापरसंज्ञे तु वर्तमाने युगक्षये ।
अधर्मश्चानृतं चैव ववृधे पुरुषर्षभ ॥ २४ ॥
मूलम्
तस्मिन्द्वापरसंज्ञे तु वर्तमाने युगक्षये ।
अधर्मश्चानृतं चैव ववृधे पुरुषर्षभ ॥ २४ ॥
व्याख्या
अधर्मस्याभिवृद्धिर्नाम त्रेतायुगपुरुषेभ्योल्पायुष्यं । अनृतस्याभिवृद्धिस्तु प्रयासबाहुल्येन कृषेःसफलत्वम् ॥ २४ ॥
विश्वास-प्रस्तुतिः
तस्मिन्द्वापरसंख्याते तपो वैश्यान्त्समाविशत् ।
त्रिभ्यो युगेभ्यस्त्रीन्वर्णान्क्रमाद्वै तप आविशत् ॥ २५ ॥
मूलम्
तस्मिन्द्वापरसंख्याते तपो वैश्यान्त्समाविशत् ।
त्रिभ्यो युगेभ्यस्त्रीन्वर्णान्क्रमाद्वै तप आविशत् ॥ २५ ॥
व्याख्या
तपः वैश्यान् समाविशत् । वैश्यास्तपोधिकारिणोऽभवन्नित्यर्थः ॥ २५ ॥
विश्वास-प्रस्तुतिः
त्रिभ्यो युगेभ्यस्त्रीन्वर्णान्धर्मश्च परिनिष्ठितः ।
न शूद्रो लभते धर्मं युगतस्तु नरर्षभ ॥ २६ ॥
मूलम्
त्रिभ्यो युगेभ्यस्त्रीन्वर्णान्धर्मश्च परिनिष्ठितः ।
न शूद्रो लभते धर्मं युगतस्तु नरर्षभ ॥ २६ ॥
व्याख्या
एवं युगत्रयधर्मानभिधाय प्रकृतं वक्तुं तत्रोपयुक्तमर्थं संक्षिप्याह – त्रिभ्य इति । हेतौ पञ्चमी ॥ २६ ॥
विश्वास-प्रस्तुतिः
हीनवर्णो नृपश्रेष्ठ तप्यते सुमहत्तपः ॥ २७ ॥
मूलम्
हीनवर्णो नृपश्रेष्ठ तप्यते सुमहत्तपः ॥ २७ ॥
व्याख्या
प्रकृतं बालवधहेतुमाह हीनेति ॥ २७ ॥
विश्वास-प्रस्तुतिः
भविष्यच्छूद्रयोन्यां वै तपश्चर्या कलौ युगे ।
अधर्मः परमो राजन्द्वापरे शुद्रजन्मनः ॥ २८ ॥
स वै विषयपर्यन्ते तव राजन्महातपाः ।
अद्य तप्यति दुर्बुद्धिस्तेन बालवधो ह्ययम् ॥ २९ ॥
यो ह्यधर्ममकार्यं वा विषये पार्थिवस्य तु ।
करोति चाश्रीमूलं तत्पुरे वा दुर्मतिर्नरः ।
क्षिप्रं च नरकं याति स च राजा न संशयः ॥ ३० ॥

भविष्यदिति । इकारलोपश्छान्दसः । तपश्चर्या तपश्चरणाधिकारः । शूद्राणां तपश्चर्या कलियुगएव धर्मो भविष्यति । अस्मिन्युगे त्वधर्म इत्याह – अधर्म इति । रामराज्यस्य त्रेतायुगत्वेपि, अधर्मः परमो राजन् द्वापरे शूद्रजन्मन इत्युक्तेः, किमुत त्रेतायामित्यर्थः ॥ २८-३० ॥
विश्वास-प्रस्तुतिः
अधीतस्य च तप्तस्य कर्मणः सुकृतस्य च ।
षष्ठं भजति भागं तु मजा धर्मेण पालयन् ॥
षड्भागस्य च भोक्ताऽसौ रक्षते न प्रजाः कथम् ॥ ३१ ॥
मूलम्
अधीतस्य च तप्तस्य कर्मणः सुकृतस्य च ।
षष्ठं भजति भागं तु मजा धर्मेण पालयन् ॥
षड्भागस्य च भोक्ताऽसौ रक्षते न प्रजाः कथम् ॥ ३१ ॥
व्याख्या
कथमन्येषु पापं कुर्वाणेषु राज्ञो नरकप्राप्तिस्तत्राह – षड्भागस्येति ॥ ३१ ॥
विश्वास-प्रस्तुतिः
स त्वं पुरुषशार्दूल मार्गस्व विषयं स्वकम् ।
दुष्कृतं यत्र पश्येथास्तत्र यत्नं समाचर ॥ ३२ ॥
एवं चेद्धर्मवृद्धिश्च नृणां चायुर्विवर्धनम् ।
भविष्यति नरश्रेष्ठ बालस्यास्य च जीवितम् ॥ ३३ ॥
मूलम्
स त्वं पुरुषशार्दूल मार्गस्व विषयं स्वकम् ।
दुष्कृतं यत्र पश्येथास्तत्र यत्नं समाचर ॥ ३२ ॥
एवं चेद्धर्मवृद्धिश्च नृणां चायुर्विवर्धनम् ।
भविष्यति नरश्रेष्ठ बालस्यास्य च जीवितम् ॥ ३३ ॥
व्याख्या
तत्र यत्नं निराकरणयत्नम् ॥ ३२-३३ ॥
विश्वास-प्रस्तुतिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुःसप्ततितमः सर्गः ॥ ७४ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने चतुःसप्ततितमः सर्गः ॥ ७४ ॥
मूलम्
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुःसप्ततितमः सर्गः ॥ ७४ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने चतुःसप्ततितमः सर्गः ॥ ७४ ॥