विश्वास-प्रस्तुतिः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्विसप्ततितमःसर्गः
मूलम्

विषयाः
वाल्मीक्य्-अभ्यनुज्ञया
ऽयोध्यां गतेन शत्रुघ्नेन
श्रीरामं प्रति साभिवादनं
लवण-मारणादि-विषयक-तद्-आज्ञा-परिपालन-निवेदनम् ॥ १ ॥
श्रीरामेण स्व-वियोगासहिष्णुतया पुनर्
मधुरा-गमनम् अनभिरोचयमानस्य शत्रुघ्नस्य
ससान्त्वनं पुनर् मधुरा-नगर-प्रेषणम् ॥ २ ॥
विश्वास-प्रस्तुतिः
तं शयानं नरव्याघ्रं निद्रा नाभ्यागमत्तदा ।
चिन्तयन्तमनेकार्थं रामगीतमनुत्तमम् ॥ १ ॥
तस्य शब्दं सुमधुरं तन्त्रीलयसमन्वितम् ।
श्रुत्वा रात्रिर्जगामाशु शत्रुघ्नस्य महात्मनः ॥ २ ॥
तस्यां निशायां व्युष्टायां कृत्वा पौर्वाह्णिकक्रमम् ।
उवाच प्राञ्जलिर्वाक्यं शत्रुघ्नो मुनिपुङ्गवम् ॥ ३ ॥
भगवन्द्रष्टुमिच्छामि राघवं रघुनन्दनम् ।
त्वयानुज्ञातुमिच्छामि सहैभिः संशितव्रतैः ॥ ४ ॥
इत्येवंवादिनं तं तु शत्रुघ्नं शत्रुतापनम् ।
वाल्मीकिः संपरिष्वज्य विससर्ज च राघवम् ॥ ५ ॥
सोभिवाद्य मुनिश्रेष्ठं रथमारुह्य सुप्रभम् ।
अयोध्यामगमत्तूर्णं राघवोत्सुकदर्शनः ॥ ६ ॥
स प्रविष्टः पुरीं रम्यां श्रीमानिक्ष्वाकुनन्दनः ।
प्रविवेश महाबाहुर्यत्र रामो महाद्युतिः ॥ ७ ॥
स राम मन्त्रिमध्यस्थं पूर्णचन्द्रनिभाननम् ।
पश्यन्नमरमध्यस्थं सहस्रनयनं यथा ॥ ८ ॥
अभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ।
उवाच प्राञ्जलिर्वाक्यं रामं सत्यपराक्रमम् ॥ ९ ॥
यथाज्ञप्तं महाराज सर्वं तत्कृतवानहम् ।
हतः स लवणः पापः पुरी चास्य निवेशिता ॥ १० ॥
द्वादशैते गता वर्षास्त्वां विना रघुनन्दन ।
नोत्सहेयमहं वस्तुं त्वया विरहितो नृप ॥ ११ ॥
स मे प्रसादं काकुत्स्थ कुरुष्वामितविक्रम ।
मातृहीनो यथा वत्सो न चिरं प्रवसाम्यहम् ॥ १२ ॥

व्याख्या
राघवं रघुगोत्रापत्यं । रघुनन्दनं रघुकुलनन्दनं । त्वयानुज्ञातमिति तवानुज्ञामित्यर्थः । एभिरिति । मुनिभिरिति शेषः ॥ ४-१२ ॥
विश्वास-प्रस्तुतिः
एवं ब्रुवाणं शत्रुघ्नं परिष्वज्येदमब्रवीत् ।
मा विषादं कृथाः शूर नैतत्क्षत्रियचेष्टितम् ॥ १३ ॥
नावसीदन्ति राजानो विप्रवासेषु राघव ।
प्रजा नः परिपाल्या हि क्षत्रधर्मेण राघव ॥ १४ ॥
काले काले तु मां वीर ह्ययोध्यामवलोकितुम् ।
आगच्छ त्वं नरश्रेष्ठ गन्तासि च पुरं तव ॥ १५ ॥
ममापि त्वं सुदयितः प्राणैरपि न संशयः ।
अवश्यं करणीयं च राज्यस्य परिपालनम् ॥ १६ ॥
तस्मात्त्वं वत्स काकुत्स्थ सप्तरात्रमिहावस ।
ऊर्ध्वं गन्तासि मधुरां सभृत्यबलवाहनः ॥ १७ ॥
रामस्यैतद्वचः श्रुत्वा धर्मयुक्तं मनोगतम् ।
शत्रुघ्नो दीनया वाचा बाढमित्येव चाब्रवीत् ॥ १८ ॥
सप्तरात्रं च काकुत्स्थो राघवस्य यथाज्ञया ।
उष्य तत्र महेष्वासो गमनायोपचक्रमे ॥ १९ ॥
आमन्त्र्य तु महात्मानं रामं सत्यपराक्रमम् ।
भरतं लक्ष्मणं चैव महारथमुपारुहत् ॥ २० ॥
दूरमाभ्यामनुगतो लक्ष्मणेन महात्मना ।
भरतेन च शत्रुघ्नो जगामाशु पुरं ततः ॥ २१ ॥

क्षत्रियचेष्टितं क्षत्र्त्रियविचारः ॥ १३-२१ ॥
विश्वास-प्रस्तुतिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्विसप्ततितमःसर्गः॥७२ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने द्विसप्ततितमः सर्गः ॥ ७२ ॥