०७१ रामायण-श्रवणम्

विश्वास-प्रस्तुतिः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकसप्ततितमः सर्गः

मूलम्

विषयाः

श्री-राम-दिदृक्षया ऽयोध्यां प्रति प्रस्थितवता शत्रुघ्नेन
मार्गवशाद् वाल्मीक्य्-आश्रमम् एत्य
तद्-अभिवादनम् ॥ १ ॥
वाल्मीकिना तं प्रति लवण-मारण-प्रशंसन-पूर्वकं
तम् मूर्धाघ्राणनेन सपरिवारस्य तस्यातिथ्य-करणम् ॥ २ ॥
भुक्त्वा सुखोपविष्टेन स-परिवारेण शत्रुघ्नेन
+आश्रमान्तरे कुश-लव-कृताद्भुततर–श्री-रामायण-गान-श्रवणम् ॥ ३ ॥
तच्-छ्रवण-विस्मित-परिजनैस्
तत्-तत्त्व-जिज्ञासया वाल्मीकिं प्रति तत्-प्रश्नं प्रार्थितेन शत्रुघ्नेन
तान् प्रति तस्यानौचित्य-कथनेन वाल्मीक्य्-अनुज्ञया स्वावास-गमनम् ॥ ४ ॥

विश्वास-प्रस्तुतिः

ततो द्वादशमे वर्षे शत्रुघ्नो रामपालिताम् ।
अयोध्यां चकमे गन्तुमल्पभृत्यबलानुगः ॥ १ ॥
ततो मन्त्रिपुरोगांश्च बलमुख्यान्निवर्त्य च ।
जगाम हयमुख्यैश्च रथानां च शतेन सः ॥ २ ॥
स गत्वा गणितान्वासान्सप्ताष्टौ रघुनन्दनः ।
वाल्मीक्याश्रममागत्य वासं चक्रे महायशाः ॥ ३ ॥
सोभिवाद्य ततः पादौ वाल्मीकेः पुरुषर्षभः ।
पाद्यमर्घ्यं तथाऽऽतिथ्यं जग्राह मुनिहस्ततः ॥ ४ ॥
बहुरूपाः सुमधुराः कथास्तत्र सहस्रशः ।
कथयामास स मुनिः शत्रुघ्नाय महात्मने ॥ ५ ॥
उवाच च मुनिर्वाक्यं लवणस्य वधाश्रितम् ।
सुदुष्करं कृतं कर्म लवणं निघ्नता त्वया ॥ ६ ॥
बहवः पार्थिवाः सौम्य हताः सबलवाहनाः ।
लवणेन महाबाहो युध्यमाना महाबलाः ॥ ७ ॥
स त्वया निहतः पापो लीलया पुरुषर्षभ ।
जगतश्च भयं तत्र प्रशान्तं तत्र तेजसा ॥ ८ ॥
रावणस्य वधो घोरो यत्नेन महता कृतः ।
इदं तु सुमहत्कर्म त्वया कृतमयत्नतः ॥ ९ ॥
प्रीतिश्चास्मिन्परा जाता देवानां लवणे हते ।
भूतानां चैव सर्वेषां जगतश्च प्रियं कृतम् ॥ १० ॥

व्याख्या

लवणस्य वधाश्रितं वृत्तान्तमितिशेषः ॥ ६-१० ॥

विश्वास-प्रस्तुतिः

तच्च युद्धं मया दृष्टं यथावत्पुरुषर्षभ ।
सभायां वासवस्याथ उपविष्टेन राघव ॥ ११ ॥

मूलम्

तच्च युद्धं मया दृष्टं यथावत्पुरुषर्षभ ।
सभायां वासवस्याथ उपविष्टेन राघव ॥ ११ ॥

व्याख्या

सभायामिति । युद्धं द्रष्टुमागतायामिति शेषः ॥ ११ ॥

विश्वास-प्रस्तुतिः

ममापि परमा प्रीतिर्हृदि शत्रुघ्न वर्तते ।
उपाघ्रास्यामि ते मूर्ध्नि स्नेहस्यैषा परा गतिः ॥ १२ ॥
इत्युक्त्वा मूर्ध्नि शत्रुघ्नमुपाघ्राय महामुनिः ।
आतिथ्यमकरोत्तस्य ये च तस्य पदानुगाः ॥ १३ ॥

परा गतिः परमप्रयोजनम् ॥ १२-१३ ॥

विश्वास-प्रस्तुतिः

स भुक्तवान्नरश्रेष्ठो गीतमाधुर्यमुत्तमम् ।
शुश्राव रामचरितं तस्मिन्काले यथाक्रमम् ॥ १४ ॥

मूलम्

स भुक्तवान्नरश्रेष्ठो गीतमाधुर्यमुत्तमम् ।
शुश्राव रामचरितं तस्मिन्काले यथाक्रमम् ॥ १४ ॥

व्याख्या

गीतमाधुर्यमिति । आश्रमान्तरे गायतोः कुशलवयोरिति शेषः ॥ १४ ॥

विश्वास-प्रस्तुतिः

तन्त्रीलयसमायुक्तं त्रिस्थानकरणान्वितम् ।
संस्कृतं लक्षणोपेतं समतालसमन्वितम् ।
शुश्राव रामचरितं तस्मिन्काले पुरा कृतम् ॥ १५ ॥

तन्त्रीलयसमायुक्तं तन्त्री वीणा । लयस्तालमानं । त्रिस्थानकरणान्वितं हृदयकण्ठमुखलक्षणवर्णोत्पत्तिस्थानेन करणेन अन्वितं संयुक्तं । संस्कृतं संस्कृतशब्दरूपं । लक्षणं व्याकरणलक्षणं । समतालेन गानोचिततालशब्देन च समन्वितं । रामचरितं रामचरितविषयम् ॥ १५ ॥

विश्वास-प्रस्तुतिः

तान्यक्षराणि सत्यानि यथावृत्तानि पूर्वशः ।
श्रुत्वा पुरुषशार्दूलो विसंज्ञो बाष्पलोचनः ॥ १६ ॥

मूलम्

तान्यक्षराणि सत्यानि यथावृत्तानि पूर्वशः ।
श्रुत्वा पुरुषशार्दूलो विसंज्ञो बाष्पलोचनः ॥ १६ ॥

व्याख्या

पूर्वशः पूर्वस्मिन्काले । यथावृत्तानि यथाप्रवृत्तान्यनुभवसिद्धानि । अक्षराणि गीताक्षराणि ॥ १६ ॥

विश्वास-प्रस्तुतिः

समुहूर्तमिवासंज्ञो विनिश्वस्य मुहुर्मुहुः ।
तस्मिन्गीते यथावृत्तं वर्तमानमिवाशृणोत् ॥ १७ ॥

मूलम्

समुहूर्तमिवासंज्ञो विनिश्वस्य मुहुर्मुहुः ।
तस्मिन्गीते यथावृत्तं वर्तमानमिवाशृणोत् ॥ १७ ॥

व्याख्या

तस्मिन्गीते वर्तमानमिव स्थितम् ॥ १७ ॥

विश्वास-प्रस्तुतिः

पदानुगाश्च ये राज्ञस्तां श्रुत्वा गीतिसंपदम् ।
अवाङ्मुखाश्च दीनाश्च आश्चर्यमिति चाब्रुवन् ॥ १८ ॥
परस्परं च ये तत्र सैनिकाः संबभाषिरे ।
किमिदं क्व च वर्तामः किमेतत्स्वप्नदर्शनम् ॥ १९ ॥

अवाङ्मुखाश्च दीनाश्चेति । एवं रामचरित्रगायकोस्माभिर्न दृष्ट इत्यवाड्युखत्वादि ॥१८-१९ ॥

विश्वास-प्रस्तुतिः

अर्थो यो नः पुरा दृष्टस्तमाश्रमपदे पुनः ।
शृणुमः किमिदं स्वप्नो गीतंबन्धं श्रितो भवेत् ॥ २० ॥
विस्मयं ते परं गत्वा शत्रुघ्नमिदमब्रुवन् ।
साधु पृच्छ नरश्रेष्ठ वाल्मीकिं मुनिपुङ्गवम् ॥ २१ ॥
शत्रुघ्नस्त्वब्रवीत्सर्वान्कौतूहलसमन्वितान् ।
सैनिका न क्षमोस्माकं परिप्रष्टुमिहेदृशः ॥ २२ ॥

पुरा दृष्टः अपरोक्षदृष्टः । तमर्थमाश्रमपदे आश्रमस्थाने शृणुमः । किंन्विदं आश्रमासंभावितमित्यर्थः ॥ २०-२२ ॥

विश्वास-प्रस्तुतिः

आश्चर्याणि बहूनीह भवन्त्यस्याश्रमे मुनेः ।
न तु कौतूहलाद्युक्तमन्वेष्टुं तं महामुनिम् ॥ २३ ॥
एवं तद्वाक्यमुक्त्वा च सैनिकान्रघुनन्दनः ।
अभिवाद्य महर्षिं तं स्वं निवेशं ययौ तदा ॥ २४ ॥

अन्वेष्टुं अवगन्तुं प्रष्टुं चेत्यर्थः ॥ २३-२४ ॥

विश्वास-प्रस्तुतिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकसप्ततितमः सर्गः ॥ ७१ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकसप्ततितमः सर्गः ॥ ७१ ॥