०६९ वधः

विश्वास-प्रस्तुतिः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनसप्ततितमः सर्गः

मूलम्

विषयाः

शत्रुघ्नेन युद्धे लवणासुरवधः ॥ १ ॥

विश्वास-प्रस्तुतिः

तच्छ्रुत्वा भाषितं तस्य शत्रुघ्नस्य महात्मनः ।
क्रोधमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ॥ १ ॥
पाणौ पाणिं विनिष्पिष्य दन्तान्कटकटाप्य च ।
लवणो रघुशार्दूलमाह्वयामास चासकृत् ॥ २ ॥
तमाह्वयन्तं सौमित्रिर्लवणं घोरदर्शनम् ।
शत्रुघ्नो देवशत्रुघ्न इदं वचनमब्रवीत् ॥ ३ ॥
न शत्रुघ्नस्तथा जातो यथाऽन्ये निर्जितास्त्वया ।
तदद्य बाणाभिहतो व्रज त्वं यमसादनम् ॥ ४ ॥
ऋषयोप्यद्य पापात्मन्मया त्वां निहतं रणे ।
पश्यन्तु विप्रा विद्वांसस्त्रिदशा इव रावणम् ॥ ५ ॥
त्वयि मद्बाणनिर्दग्धे पतितेऽद्य निशाचर ।
पुरे जनपदे चापि क्षेममेव भविष्यति ॥ ६ ॥
अद्य मद्बाहुनिष्क्रान्तः शरो वज्रनिभाननः ।
प्रवेक्ष्यते ते हृदयं पद्ममंशुरिवार्कजः ॥ ७ ॥
एवमुक्तो महावृक्षं लवणः क्रोधमूर्च्छितः ।
शत्रुघ्नोरसि चिक्षेप स च तं शतधाऽच्छिनत् ॥ ८ ॥
तद्दृष्ट्वा विफलं कर्म राक्षसः पुनरेव तु ।
पादपान्सुबहून्गृह शत्रुघ्नायासृजद्बली ॥ ९ ॥

व्याख्या

अथ लवणवधः तच्छ्रुवेत्यादि ॥ १-९ ॥

विश्वास-प्रस्तुतिः

शत्रुघ्नश्चापि तेजस्वी वृक्षानापततो बहून् ।
त्रिभिश्चतुर्भिरेकैकं चिच्छेद नतपर्वभिः ॥ १० ॥
ततो बाणमयं वर्षं व्यसृजद्राक्षसोरसि ।
शत्रुघ्नो वीर्यसंपन्नो विव्यथे न स राक्षसः ॥ ११ ॥
ततः प्रहस्य लवणो वृक्षमुद्यम्य वीर्यवान् ।
शिरस्यभ्यहनच्छूर स्रस्ताङ्गः स मुमोह वै ॥ १२ ॥
तस्मिन्निपतिते वीरे हाहाकारो महानभूत् ।
ऋषीणां देवसङ्घानां गन्धर्वाप्सरसां तथा ॥ १३ ॥

एकैकमिति । वृक्षमिति शेषः ॥ १०-१३ ॥

विश्वास-प्रस्तुतिः

तमवज्ञाय तु हतं शत्रुघ्नं भुवि पातितम् ।
रक्षो लब्धान्तरमपि न विवेश स्वमालयम् ॥ १४ ॥
नापि शूलं प्रजग्राह तं दृष्ट्वा भुवि पातितम् ।
ततो हत इति ज्ञात्वा तान्भक्षान्समुदावहत् ॥ १५ ॥
मुहूर्ताल्लब्धसंज्ञस्तु पुनस्तस्थौ धृतायुधः ।
शत्रुघ्नो वै पुरद्वारि ऋषिभिः संप्रपूजितः ॥ १६ ॥
ततो दिव्यममोघं तं जग्राह शरमुत्तमम् ।
ज्वलन्तं तेजसा घोरं पूरयन्तं दिशो दश ॥ १७ ॥
वज्राननं वज्रवेगं मेरुमन्दरसन्निभम् ।
नतं पर्वसु सर्वेषु संयुगेष्वपराजितम् ॥ १८ ॥

लब्धान्तरमपि शूलग्रहणं प्रति लब्धावकाशमपीत्यर्थः ॥ १४-१८ ॥

विश्वास-प्रस्तुतिः

असृक्चन्दनदिग्धाङ्गं चारुपत्रं पतत्रिणम् ।
दानवेन्द्राचलेन्द्राणामसुराणां च दारणम् ॥ १९ ॥
तं दीप्तमिव कालागिं युगान्ते समुपस्थिते ।
दृष्ट्वा सर्वाणि भूतानि परित्रासमुपागमन् ॥ २० ॥
सदेवासुरगन्धर्वं मुनिभिः साप्सरोगणम् ।
जगद्धि सर्वमस्वस्थं पितामहमुपस्थितम् ॥ २१ ॥
उवाच देवदेवेशं वरदं प्रपितामहम् ।
कच्चिल्लोकक्षयो देव संप्राप्तो वा युगक्षयः ॥ २२ ॥
नेदृशं दृष्टपूर्वं च न श्रुतं प्रपितामह ।
देवानां भय संमोहो लोकानां संक्षयं प्रति ॥ २३ ॥
तेषां तद्वचनं श्रुत्वा ब्रह्मा लोकपितामहः ।
भयकारणमाचष्ट लोकानामभयङ्करः ।
उवाच मधुरां वाण शृणुध्वं सर्वदेवताः ॥ २४ ॥
वधाय लवणस्याजौ शरः शत्रुघ्नधारितः ।
तेजसा तस्य संमूढाः सर्वे स्म सुरसत्तमाः ॥ २५ ॥
एष पूर्वस्य देवस्य लोककर्तुः सनातनः ।
शरस्तेजोमयो वत्स येन वै भयमागतम् ॥ २६ ॥

असृक्चन्दनदिग्धाङ्गं असृग्रूपैश्चन्दनैः लिप्तदेहं । पतत्रिणं बाणं । दानवेन्द्ररूपाः अचलेन्द्राः तेषां दारणम् ॥ १९-२६ ॥

विश्वास-प्रस्तुतिः

एष वै कैटभस्यार्थे मधुनश्च महाशरः ।
सृष्टो महात्मना तेन वधार्थे दैत्ययोस्तयोः ॥ २७ ॥

मूलम्

एष वै कैटभस्यार्थे मधुनश्च महाशरः ।
सृष्टो महात्मना तेन वधार्थे दैत्ययोस्तयोः ॥ २७ ॥

व्याख्या

तेन भगवतेत्यर्थः ॥ २७ ॥

विश्वास-प्रस्तुतिः

एक एव प्रजानाति विष्णुस्तेजोमयं शरम् ।
एषा एव तनुः पूर्वा विष्णोस्तस्य महात्मनः ॥ २८ ॥

मूलम्

एक एव प्रजानाति विष्णुस्तेजोमयं शरम् ।
एषा एव तनुः पूर्वा विष्णोस्तस्य महात्मनः ॥ २८ ॥

व्याख्या

महात्मनस्तस्य विष्णोरेषा शरमयी तनुरेव पूर्वा प्राचीनमूर्तिः । एषा एवेत्यसंधिरार्षः ॥ २८ ॥

विश्वास-प्रस्तुतिः

इतो गच्छत पश्यध्वं वध्यमानं महात्मना ।
रामानुजेन वीरेण लवणं राक्षसोत्तमम् ॥ २९ ॥
तस्य ते देवदेवस्य निशम्य वचनं सुराः ।
आजग्मुर्यत्र युध्येते शत्रुघ्नलवणावुभौ ॥ ३० ॥
तं शरं दिव्यसंकाशं शत्रुघ्नकरधारितम् ।
ददृशुः सर्वभूतानि युगान्ताग्निमिवोत्थितम् ॥ ३१ ॥
आकाशमावृतं दृष्ट्वा देवैर्हि रघुनन्दनः ।
सिंहनादं भृशं कृत्वा ददर्श लवणं पुनः ॥ ३२ ॥
आहूतश्च पुनस्तेन शत्रुघ्नेन महात्मना ।
लवणः क्रोधसंयुक्तो युद्धाय समुपस्थितः ॥ ३३ ॥
आ कर्णात्स विकृष्याथ तद्धनुर्धन्विनां वरः ।
तं मुमोच महाबाणं लवणस्य महोरसि ॥ ३४ ॥
उरस्तस्य विदार्याशु प्रिविवेश रसातलम् ॥ ३५ ॥
गत्वा रसातलं दिव्यः शरो विबुधपूजितः ।
पुनरेवागमत्तूणमिक्ष्वाकुकुलनन्दनम् ॥ ३६ ॥
शत्रुघ्नशरनिर्भिन्नो लवणः स निशाचरः ।
पपात सहसा भूमौ वज्राहत इवाचलः ॥ ३७ ॥
तच्च शूलं महत्तेन हते लवणराक्षसे ।
पश्यतां सर्वदेवानां रुद्रस्य वशमन्वगात् ॥ ३८ ॥
एकेषुपातेन भृशं निपात्य लोकत्रयस्यापि रघुप्रवीरः ।
विनिर्बभावुत्तमचापबाणस्तमः प्रणुद्येव सहस्ररश्मिः ॥ ३९ ॥
ततो हि देवा ऋषिपन्नगाश्च प्रपूजिरे ह्यप्सरसश्च सर्वाः ।
दिष्ट्या जयो दाशरथेरवासस्त्यक्त्वा भयं सर्प इव प्रशान्तः ॥ ४० ॥

वध्यमानं लवणमिति संबन्धः ॥ २९-४० ॥

विश्वास-प्रस्तुतिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनसप्ततितमः सर्गः ॥ ६९ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकोनसप्ततितमः सर्गः ॥ ६९ ॥