विश्वास-प्रस्तुतिः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चषष्टितमः सर्गः
मूलम्

विषयाः
मार्गवशाद् वाल्मीक्य्-आश्रमं गतेन शत्रुघ्नेन
तं प्रति स-प्रणामं तत्रत्य-याज्ञिय-चिह्न-दर्शनेन तत्-कर्तृ-प्रश्नः ॥ १ ॥
तेन तं प्रति कल्माष-पाद-नामक–सौदास-वृत्त-कथन-पूर्वकं
तत्-प्रदेशस्य तद्-यज्ञ-भूमित्वोक्तिः ॥ २ ॥
शत्रुघ्नेन वाल्मीक्य्-अनुज्ञया पर्ण-शाला-प्रवेशः ॥ ३ ॥
विश्वास-प्रस्तुतिः
प्रस्थाप्य तु बलं सर्वं मासमात्रोषितः पथि ।
एक एवाशु शत्रुघ्नो जगाम त्वरितं तदा ॥ १ ॥
द्विरात्रमन्तरे शूर उष्य राघवनन्दनः ।
वाल्मीकेराश्रमं पुण्यमगच्छद्वासमुत्तमम् ॥ २ ॥
सोभिवाद्य महात्मानं वाल्मीकिं मुनिसत्तमम् ।
कृताञ्जलिरथो भूत्वा वाक्यमेतदुवाच ह ॥ ३ ॥
भगवन्वस्तुमिच्छामि गुरोः कृत्यादिहागतः ।
श्वः प्रभाते गमिष्यामि प्रतीचीं वारुणीं दिशम् ॥ ४ ॥

व्याख्या
रामेण यथाज्ञप्तगमनं संग्रहेणोक्त्वा अयोध्यातो द्विरात्रगमनानन्तरवृत्तमाह – भगवन्निति ॥ वारुणीं वरुणपालितां । दारुणांदिशमिति पाठे दारुणां लवणाधिष्ठितत्वादितिभावः ॥ ४ ॥
विश्वास-प्रस्तुतिः
शत्रुघ्नस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः ।
प्रत्युवाच महात्मानं स्वागतं ते महायशः ॥ ५ ॥
मूलम्
शत्रुघ्नस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः ।
प्रत्युवाच महात्मानं स्वागतं ते महायशः ॥ ५ ॥
व्याख्या
प्रहस्येति । अनिवेदितमपि शत्रुघ्नागमननिमित्तं ज्ञातव्यमित्यभिप्रायः ॥ ५ ॥
विश्वास-प्रस्तुतिः
स्वमाश्रममिदं सौम्य राघवाणां कुलस हि ।
आसनं पाद्यमर्घ्यं च निर्विशङ्कः प्रतीच्छ मे ॥ ६ ॥
प्रतिगृह्य तदा पूजां फलमूलं च भोजनम् ।
भक्षयामास काकुत्स्थस्तृप्तिं च परमां गतः ॥ ७ ॥

राघवाणां कुलस्य स्वं स्वभूतम् ॥ ६-७ ॥
विश्वास-प्रस्तुतिः
स भुक्त्वा फलमूलं च महर्षिं तमुवाच ह ।
इयं यज्ञविभूतिस्ते कस्याश्रमसमीपतः ॥ ८ ॥
मूलम्
स भुक्त्वा फलमूलं च महर्षिं तमुवाच ह ।
इयं यज्ञविभूतिस्ते कस्याश्रमसमीपतः ॥ ८ ॥
व्याख्या
इयं यज्ञविभूतिस्ते कस्याश्रमसमीपत इति । तवाश्रमसमीपतः इयं वर्तमाना यज्ञविभूतिः यदस्य समृद्धिः । कस्य यजमानस्य ॥ ८ ॥
विश्वास-प्रस्तुतिः
तत्तस्य भाषितं श्रुत्वा वाल्मीकिर्वाक्यमब्रवीत् ।
शत्रुघ्न शृणु यस्येदं बभूवायतनं पुरा ॥ ९ ॥
युष्माकं पूर्वको राजा सुदासस्तस्य भूपतेः ।
पुत्रो वीरसहो नाम वीर्यवानतिधार्मिकः ॥ १० ॥

आयतनं यज्ञायतनम् ॥ ९-१० ॥
विश्वास-प्रस्तुतिः
स बाल एव सौदासो मृगयामुपचक्रमे ।
चञ्चूर्यमाणं ददृशे स शूरो राक्षसद्वयम् ॥ ११ ॥
शार्दूलरूपिणौ घोरौ मृगान्बहुसहस्रशः ।
भक्षमाणावसन्तुष्टौ पर्याप्तिं नैव जग्मतुः ॥ १२ ॥

चञ्चूर्यमाणं मुहुर्मुहुश्चरन्तं । चरतेर्यङन्ताच्छानच् । उत्परस्यातः इत्युत्त्वम् ॥ ११-१२ ॥
विश्वास-प्रस्तुतिः
स तु तौ राक्षसौ दृष्ट्वा निर्मृगं च वनं कृतम् ।
क्रोधेन महताऽविष्टो जघानैकं महेषुणा ॥ १३ ॥
विनिपात्य तमेकं तु सौदासः पुरुषर्षभः ।
विज्वरो विगतामर्षो हतं रक्षो ह्युदैक्षत ॥ १४ ॥

निर्मृगं कृतं वनं च दृष्ट्वेत्यनुकर्षः ॥ १३-१४ ॥
विश्वास-प्रस्तुतिः
निरीक्षमाणं तं दृष्ट्वा सहायं तस्य रक्षसः ।
सन्तापमकरोद्धोरं सौदासं चेदमब्रवीत् ॥ १५ ॥
यस्मादनपराधं त्वं सहायं मम जघ्निवान् ।
तस्मात्तवापि पापिष्ठ प्रदास्यामि प्रतिक्रियाम् ॥ १६ ॥

निरीक्षमाणं स्वसहायभूतं द्वितीयरक्षो निरीक्षमाणं प्रथमरक्षो दृष्ट्वा ॥ १५-१६ ॥
विश्वास-प्रस्तुतिः
एवमुक्त्वा तु तद्रक्षस्तत्रैवान्तरधीयत ।
कालपर्याययोगेन राजा मित्रसहोऽभवत् ॥ १७ ॥
मूलम्
एवमुक्त्वा तु तद्रक्षस्तत्रैवान्तरधीयत ।
कालपर्याययोगेन राजा मित्रसहोऽभवत् ॥ १७ ॥
व्याख्या
कालपर्याययोगेन बहुकालातिवाहजकर्मयोगेन । युक्तोऽभवत् ॥ १७ ॥
विश्वास-प्रस्तुतिः
राजा तु यजते यज्ञमस्याश्रमसमीपतः ।
अश्वमेधं महायज्ञं तं वसिष्ठोऽभ्यपालयत् ॥ १८ ॥
तत्र यज्ञो महानासीद्बहुवर्षगणायुतः ।
समृद्धः परया लक्ष्म्या देवयज्ञसमोऽभवत् ॥ १९ ॥
अथावसाने यज्ञस्य पूर्ववैरमनुस्मरन् ।
वसिष्ठरूपी राजानमिति होवाच राक्षसः ॥ २० ॥
अस्य यज्ञस्य जातोन्तो सामिषं भोजनं मम ।
दीयतामिह शीघ्रं वै नात्र कार्या विचारणा ॥ २१ ॥

अस्याश्रमसमीपत इति । अस्याश्रमस्येत्यविभक्तिकनिर्देशः ॥ १८-२१ ॥
विश्वास-प्रस्तुतिः
तच्छ्रुत्वा व्याहृतं वाक्यं रक्षसा ब्रह्मरूपिणा ।
भक्ष्यसंस्कारकुशलमुवाच पृथिवीपतिः ॥ २२ ॥
हविष्यं सामिपं स्वादु यथा भवति भोजनम् ।
तथा कुरुष्व शीघ्रं वै परितुष्येद्यथा गुरुः ॥ २३ ॥
शासनात्पार्थिवेन्द्रस्य सूदः संभ्रान्तमानसः ।
स राक्षसः पुनस्तत्र सूदवेषमथाकरोत् ॥ २४ ॥
स मानुषमथो मांसं पार्थिवाय न्यवेदयत् ।
इदं स्वादु हविष्यं च सामिषं चान्नमाहृतम् ॥ २५ ॥

भक्ष्यसंस्कारकुशलमुवाचेति । भोजनार्थमिति शेषः ॥ २२-२५ ॥
विश्वास-प्रस्तुतिः
स भोजनं वसिष्ठाय पत्न्या सार्धमुपाहरत् ।
मदयन्त्या नरव्याघ्र सामिषं रक्षसा हृतम् ॥ २६ ॥
ज्ञात्वा तदामिषं विप्रो मानुषं भाजनं गतम् ।
क्रोधेन महताऽऽविष्टो व्याहर्तुमुपचक्रमे ॥ २७ ॥
यस्मात्त्वं भोजनं राजन्ममैतद्दातुमिच्छसि ।
तस्माद्भोजनमेतत्ते भविष्यति न संशयः ॥ २८ ॥
ततः क्रुद्धस्तु सौदासस्तोयं जग्राह पाणिना ।
वसिष्टं शप्तुमारेभे भार्या चैनमवारयत् ॥ २९ ॥
राजन्प्रभुर्यतोस्माकं वसिष्ठो भगवानृषिः ।
प्रतिशप्तुं न शक्तस्त्वं देवतुल्यं पुरोधसम् ॥ ३० ॥
ततः क्रोधमयं तोयं तेजोबलसमन्वितम् ।
व्यसर्जयत धर्मात्मा ततः पादौ सिषेच च ॥ ३१ ॥
तेनास्य राज्ञस्तौ पादौ तदा कल्माषतां गतौ ।
तदाप्रभृति राजाऽसौ सौदासः सुमहायशाः ।
कल्माषपादः संवृत्तः ख्यातश्चैव तथा नृपः ॥ ३२ ॥

मयन्त्या राजपत्न्या ॥ २६-३२ ॥
विश्वास-प्रस्तुतिः
स राजा सह पत्न्या वै प्रणिपत्य मुहुर्मुहुः ।
पुनर्वसिष्टं प्रोवाच यदुक्तं ब्रह्मरूपिणा ॥ ३३ ॥
मूलम्
स राजा सह पत्न्या वै प्रणिपत्य मुहुर्मुहुः ।
पुनर्वसिष्टं प्रोवाच यदुक्तं ब्रह्मरूपिणा ॥ ३३ ॥
व्याख्या
ब्रह्मरूपिणा वसिष्ठरूपधरेण यदुक्तं तद्वचो वसिष्टं प्रति प्रोवाच ॥ ३३ ॥
विश्वास-प्रस्तुतिः
तच्छ्रुत्वा पार्थिवेन्द्रस्य रक्षसा विकृतं च तत् ।
पुनः प्रोवाच राजानं वसिष्ठः पुरुषर्षभम् ॥ ३४ ॥
मया रोषपरीतेन यदिदं व्याहृतं वचः ।
नैतच्छक्यं वृथा कर्तुं प्रदास्यामि च ते वरम् ॥ ३५ ॥

तत् पार्थिवेन्द्रस्य प्रणिपातवाक्यं रक्षोविकृतं च श्रुत्वा । रक्षसाधिकृतमिति पाठे अधिकृतं राजद्वेषमाश्रित्य कृतम् ॥ ३४-३५ ॥
विश्वास-प्रस्तुतिः
कालो द्वादशवर्षाणि शापस्यान्तो भविष्यति ।
मत्प्रसादाच्च राजेन्द्र व्यतीतं न स्मरिष्यसि ॥ ३६ ॥
एवं स राजा तं शापमुपभुज्यारिसूदनः ।
प्रतिलेभे पुना राज्यं प्रजाश्चैवान्पालयत् ॥ ३७ ॥

व्यतीतं न स्मरिष्यसि । मया हठाच्छतं न मनसि कुर्वित्यर्थः ॥ ३६-३७ ॥
विश्वास-प्रस्तुतिः
तस्य कल्माषपादस्य यज्ञस्यायतनं शुभम् ।
आश्रमस्य समीपेऽस्य यन्मां पृच्छसि राघव ॥ ३८ ॥
तस्य तां पार्थिवेन्द्रस्य कथां श्रुत्वा सुदारुणाम् ।
विवेश पर्णशालायां महर्षिमभिवाद्य च ॥ ३९ ॥

कल्मापपाद इति तस्य नामान्तरं । शापानन्तरं मित्रसहः कुपितः सन् वसिष्ठं शप्तुं जलमाददे । स्वयमेव मां नियुज्य कथं पुनः स्वयमेव कुप्यतीति । तदा तद्भार्या समागत्य सर्वथा गुरुर्न प्रतिशापार्ह इति प्रतिषिद्धवती । ततो राजा तद्वचः साध्विति मत्वा शापाय गृहीतं जलं स्वपादे प्रक्षिप्तवान् । तदाप्रभृति कल्मापपादनामाभवत् । कल्माषं कोपगृहीतशाप -जलकृतनीलरूपता ॥ ३८-३९ ॥
विश्वास-प्रस्तुतिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चषष्टितमः सर्गः ॥ ६५ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूपणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्चषष्टितमः सर्गः ॥ ६५ ॥